संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
सञ्चितयामि गुरुवायुपुरेश,...

नवनीतकृष्णस्तवः - सञ्चितयामि गुरुवायुपुरेश,...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


सञ्चितयामि गुरुवायुपुरेश, नादब्रह्मात्मिकां
मुरलिकामुपसन्दधानम् ।
प्रेमात्मकं च नवनीतमुदावहन्तं
योगद्वयीसुखसमन्वयिमन्दहासम् ॥१॥
पिञ्छाञ्चलाञ्चितमणीमुकुटाभिरामं
लोलालकान्तललितालिकसन्निवेशम् ।
चिल्लीलतामृदुविलासविशेषरम्यं
कारुण्यवर्षिनयनान्तमुपाश्रयेत्वाम् ॥२॥
रक्ताधरप्रसृतसुन्दरमन्दहासं
गण्डस्थलप्रतिफलन्मणिकुण्डलाढ्यम्
ईषत्स्फुरद्दशनमुग्धमुखारविन्दं
त्वामाश्रये सुमधुरं नवनीतकृष्णम् ॥३॥
त्वां द्वीपिदिव्यनखभूषणचारुवत्सं
वंशीविराजितविमोहनवामहस्तम् ।
हैय्यङ्गवीनभृतदक्षिणपाणिपद्मं
भक्तप्रियं परिभजे नवनीतकृष्णम् ॥४॥
उद्दीप्तकान्तिविलसन्मणिकिङ्किणीकं
पीताम्बरावृतमिदं भवदीयमध्यम्।
चित्ते चकास्तु भगवन् नवनीलरत्नस्तम्भाभमूरुयुगलं
च हरे नमस्ते ॥५॥
जानुद्वयं सुमधुराकृतिरम्यरम्यं वृत्तानुपूर्वललिते
तव जङ्घिके च ।
मञ्जीरमञ्जुलतमं प्रपदं मुनीन्द्रवृन्दार्चितं च
चरणं हृदि भावयेऽहम् ॥६॥
मज्जीविताब्धिमथनेन भवत्प्रसादाल्लब्धं विभो सुमधुरं
नवनीतमल्पम् ।
त्वत्प्रेमरूपममृतं परिकल्पयामि
नैवेद्यकं, मयि कुचेलसख, प्रसीद! ॥७॥
श्रीमारुतालयपते, नवनीतकृष्ण,
त्वामेव सत्यशिवसुन्दररूपमेकम् ।
योगीन्द्रवन्दितविशुद्धपदारविन्दं तापत्रयैकशमनं
शरणं प्रपद्ये ॥८॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP