संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
ऋषीस्तुतिः ।

स्तुतिः - ऋषीस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


भृगुर्वसिष्ठः क्रतुरंगिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः ॥

रेभ्योमरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥१॥

सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च ॥

सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥२॥

सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ॥

भुरादि कृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥

पृथ्वी सगन्धा सरसस्तथापः स्पर्शी च वायुर्ज्वलितं च तेजः ॥

नभः सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् ॥४॥

इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा श्रृणुयाच्च तद्वत् ।

दुःखप्रणाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥५॥

इति ऋषिस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP