संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कल्पभानुसमानभासुरधाम लोचन...

श्रीत्रिपुरसुन्दरीसान्निद्ध्यस्तवम् - कल्पभानुसमानभासुरधाम लोचन...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


कल्पभानुसमानभासुरधाम लोचनगोचरं
किं किमित्यतिविस्मिते मयि पश्यतीह समागताम् ।
कालकुन्तलभरनिर्जितनीलमेघकुलां पुर-
श्चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥१॥
एकदन्तषडाननादिभिरावृतां जगदीश्वरीं
एनसां परिपन्थिनीमहमेकभक्तिमदर्चिताम् ।
एकहीनशतेषु जन्मसु सञ्चितात्सुकृतादिमां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥२॥
ईदृशीति च वेदकुन्तलवाग्भिरप्यनिरूपितं
ईशपंकजनाभयष्टिकृतातिवन्द्यपदाम्बुजम् ।
ईक्षणान्तनिरीक्षणेन मदिष्टदं पुरतोऽधुना
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥३॥
लक्षणोज्ज्वलहारशोभिपयोधरद्वयकैतव-
लीलयैव दयारसस्रवदुज्ज्वलत्कलशान्विताम् ।
लाक्षयाङ्कितपादपातिमिलिन्दसन्ततिमग्रत-
श्चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥४॥
ह्रीमिति प्रतिवासरं जपसुस्थिरोऽहमुदारया
योगिमार्गनिरूढयैक्यसुभावनं गतया धिया ।
वत्स हर्षमवाप्तवत्यहमित्युदारगिरं पुर-
श्चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥५॥
हंसवृन्दमलक्तकारुणपादपंकजनूपुर-
क्वाणमोहितमनुधावितं मृदुशृण्वतीम् ।
हंसमन्त्रमहार्थतत्त्वमयीं पुरो भाग्यत-
श्चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥६॥
संगतं जलमभ्रवृन्दसमुद्भवं धारणीधर-
धारया वहनञ्जसा भ्रममाप्य सैकतनिर्गतम् ।
एवमादि महेन्द्रजालसुकोविदां पुरतोऽधुना
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥७॥
कम्बुसुन्दरकन्धरां कचभारनिर्जितवारिदां
कण्ठदेशलसत्सुमङ्गल हेमसूत्रविराजिताम् ।
कादिमन्त्रमुपासतां सकलेष्टदां मम सन्निधौ
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥८॥
हस्तपद्मलसत्त्रिकाण्डसमुद्रिकां तामद्रिजां
हस्तिकृत्तिपरीतकार्मुकवल्लरीसमचिल्लिकाम् ।
हर्यजस्तुतवैभवां भवकामिनीं मम भाग्यद-
श्चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥९॥
लक्षणोल्लसदङ्गकान्तिझरीनिराकृतविद्युतां
लास्यलोलसुवर्णकुण्डलमण्डितां जगदम्बिकाम् ।
लीलयाखिलसृष्टिपालनकर्षणादि वितन्वतीं
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥१०॥
ह्रीमिति त्रिपुरामनु स्थिरचेतसा बहुधादर्चितां
हादिमन्त्रमहाम्बुजातविराजमानसुहंसिकाम् ।
हेमकुम्भघनस्तनां चललोलमौक्तिकभूषणां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥११॥
सर्वलोकनमस्कृतां जितशर्वरीरमणाननां
सर्वदेवमनप्रियां नवयौवनोन्मदगर्विताम् ।
सर्वमङ्गलविग्रहां मम पूर्वजन्मतपोबलां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥१२॥
कन्दमूलफलाशिभिर्बाह्ययोगिभिश्च गवेषितां
कुन्दकुड्मलदन्तपङ्क्तिविराजितामपराजिताम् ।
कन्दमागमविरूढां सुरसुन्दरीभिरिहागताम्
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥१३॥
लत्रयाङ्कितमन्त्रराट्समलंकृताम् जगदम्बिकां
लोल नील सुकुन्तलावलि निर्जितालिकदम्बकाम् ।
लोभमोहविदारिणीं करुणामयीमरुणां शिवां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥१४॥
ह्रीं प्रज्ञाख्य महामनोरधिदेवतां भुवनेश्वरीं
हृत्सरोजनिवासिनीं हरवल्लभां बहुरूपिणीम् ।
हारनूपुरकुण्डलादिभिरन्वितां पुरतोऽधुना
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥१५॥
श्रींसुपञ्चदशाक्षरीमपि षोडशाक्षररूपिणीं
श्रीसुधार्णवमध्यशोभितसरोजकाननचारिणीम्
श्रीगुहस्तुतवैभवां परदेवतां मम सन्निधौ
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥१६॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP