संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कूर्मावतारस्तुतिः ।

स्तुतिः - कूर्मावतारस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपंचम् ।

प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥१॥

भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठकण्डूयनक्षणसुखायितगाढनिद्रः ।

सुष्वाप दीर्घतरधर्धरधोरघोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात् ॥२॥

निष्प्रत्यूहमनल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दां मुदम् ।

कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलुठपृत्ष्टे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ॥३॥

इति कूर्मावतारस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP