संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
धर्मराज नमस्तेऽस्तु साक्ष...

श्रीयमस्तुति - धर्मराज नमस्तेऽस्तु साक्ष...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


धर्मराज नमस्तेऽस्तु साक्षाद्धर्मस्वरूपिणे ।
धर्मिष्ठ शान्तरूपाय सत्यरूप नमो नमः ॥१॥
यमाय मृत्यवे तुभ्यं कालाय च नमो नमः ।
सूर्यपुत्र नमस्तेऽस्तु सर्वभूतक्षयाय ते ॥२॥
साधूनां पितृतुल्याय वचनामृतदायिने ।
कटकाङ्कितकेयूर हारनूपुरधारिणे ॥३॥
दूरादेव सतो दृष्ट्वा दुराचाराद्यविप्लुतान् ।
अर्चते गन्ध पुष्पाद्यैः प्रत्युत्थानासनार्हणैः ॥४॥
मध्यस्थाय नमस्तुभ्यं तत्त्वज्ञाय नमो नमः ।
ददते निज सर्वस्वं साधूनां समदर्शिनाम् ॥५॥
देवदेव नमस्तुभ्यं वेदवेदान्त वेदिने ।
सत्कृतत्संकृतं पूर्वं जातं पाथेयमत्यवः ॥६॥
स्वर्लोकान्गच्छत क्षिप्रमिति संप्रियवादिने ।
नमस्ते पितृरूपाय भक्तानामभयंकर ॥७॥
कमलाकान्तभक्ताय कमलोदरचक्षुषे ।
मलोद्भव भव्याय कमलाभासक त्विषे ॥८॥
नमो लावण्यनिधये कारुण्यवचनालय ।
पापिनां घोररूपाय गर्जते दुर्जनाग्रतः ॥९॥
दंष्ट्राकराल भ्रुकुटी भीषणानन ते नमः।
ऊर्ध्वरोम्णे महारोम्णे दीर्घरोम्णे नमो नमः ॥१०॥
घण्टारव महाचण्ड कालदण्डाय चण्डिने ।
दण्ड्यान् दण्डयते नित्यमुग्रदण्डाय ते नमः ॥११॥
कोदण्ड कालदण्डाऽसिपरश्वध वरायुधान् ।
धारिणे मारिणे लोकान् पुण्यराशिस्वरूपिणे ॥१२॥
ग्रहणे सर्वलोकानां जागरूकाधिकारिणे ।
दिव्यज्ञानप्रशस्ताय समस्ताङ्गायते नमः ॥१३ ॥
समस्तलोकवन्द्याय समस्तस्तोत्ररूपिणे ।
कालाम्बुदमहानील महावृषभवाहन ॥१४॥
कल्पानल महाकील ज्वलल्लोचन ते नमः ।
भयंकराय पापानां अभयाय सुधर्मिणाम् ॥१५॥
द्रवत्सुधांशु संपूर्णचन्द्रास्याय नमो नमः ।
प्रलयांबुदनिर्घोषभीषयित्रेऽहदर्शिने ॥१६॥
गोभ्यां करुण्यपूर्णाभ्यां पश्यते सुकृतात्मनाम् ।
तत्त्वाय तत्त्वरूपाय तत्त्वदृष्टे नमोनमः ॥१७॥
अतीवगर्जत्प्रलयाम्बुदध्वनिप्रमूर्च्छिताऽशेषदिगंतराय ।
छिन्धीति भिन्धीति च चूर्णतेऽसतो वीक्ष्य विभो नमस्ते ॥१८॥
करालकायाऽतिकठोरवाचा पापिष्ठसंघं भृशभीषयित्रे ।
ज्वलद्युगान्तोद्यमबाडवाग्निसमोर्ध्वरोम्णे परपीडकानाम् ॥१९॥
विषोल्बणा भीषण कृष्णसर्प दण्डाभिघाताघि विमोहयित्रे ।
साधुमित्रायते शश्वन्मित्रपुत्रायते नमः ॥२०॥
शान्तगात्राय शान्तानां मेरुगोत्रसमञ्जसे ।
पूजामात्रातितुष्टाय भक्ताभीष्टप्रदायिने ॥२१॥
शिपिविष्ट नमस्तेऽस्तु नमस्ते परमेष्ठिने ।
वाचा प्रीणयते साधून् पूज्यान् पूजयते नमः ॥२२॥
प्रदात्रे साधु सल्लोकं अपहर्त्रे सतां भयम् ।
धर्मशास्त्रस्वरूपाय न्यायशास्त्रार्थचक्षुषे ॥२३॥
वृकोदर नमस्तुभ्यं यमुना सोदराय च ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥२४॥
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
औदुंबराय दध्नाय नीलाय परमेष्ठिने ॥२५॥
वृकोदराय चित्राय चित्रगुप्ताय ते नमः।
भूयो भूयो नमस्तुभ्यं भक्तरक्षगते नमः ॥२६॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP