संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
क्षमस्व भगवत्यंब क्षमाशील...

लक्ष्मीस्तवम् - क्षमस्व भगवत्यंब क्षमाशील...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


क्षमस्व भगवत्यंब क्षमाशीले परात्परे ।
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।
त्वया विना जगत्सर्वं मृततुल्यञ्च निष्फलम् ॥२॥

सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी ।
रासेश्वर्यधिदेवी त्वं त्वत्कला सर्वयोषितः ॥३॥

कैलासे पार्वती त्वञ्च क्षीरोदे सिन्धुकन्यका ।
स्वर्गे च देवलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥४॥

वैकुण्ठे च महालक्ष्मीः देवदेवी सरस्वती ।
गंगा च तुलसी त्वञ्च सावित्री ब्रह्मलोकतः ॥५॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयं ।
रासे रासेश्वरी त्वं च वृन्दावन वने वने ॥६॥

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने ।
विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥७॥

पद्मावती पद्मवने मालती मालतीवने ।
कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥८॥

कदंबमाला त्वं देवी कदंबकाननेपि च ।
राजलक्ष्मी राजगृहे गृहलक्ष्मीर्गृहे गृहे ॥९॥

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेत् ध्रुवम् ॥१०॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP