अर्बुदखण्डम् - अध्याय ६३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥
अर्बुदस्य महाराज माहात्म्यं हि समासतः ॥१॥
विस्तरेण च संख्या स्यादपि वर्षशतैरपि॥
असंख्यानीह तीर्थानि पुण्यान्यायतनानि च॥
पदेपदे गृहाण्येव निर्मितानि महर्षिभिः ॥२॥
न तत्तीर्थं न सा सिद्धिर्न स वृक्षो महीपते॥
न सा नदी न देवेशो यस्य तत्रास्ति न स्थितिः ॥३॥
ये वसंति महाराज सुरम्येऽर्बुदपर्वते॥
नूनं ते पुण्यकर्माणो न वसंति त्रिविष्टपे ॥४॥
किं तस्य जीवितेनार्थः किं धनैः किं जपैर्नृप॥
यो न पश्यति मन्दात्मा समन्तादर्बुदाचलम् ॥५॥
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः॥
स्वेदजाश्चाण्डजाश्चापि ह्युद्भिज्जाश्च जरायुजाः ॥६॥
तस्मिन्मृता महाराज निष्कामाः कामतोऽपि वा॥
ते यान्ति शिवसायुज्यं जरा मरणवर्जितम् ॥७॥
यश्चैतच्छुणुयान्नित्यं पुराणं श्रद्धयान्वितः॥
अर्बुदस्य महाराज स यात्राफलमश्नुते ॥८॥
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत्॥
य इच्छेदात्मनः सिद्धिमिह लोके परत्र च ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP