संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ४०

अर्बुदखण्डम् - अध्याय ४०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततः कामेश्वरं गच्छेत्तत्र कामप्रतिष्ठितम्॥
यस्मिन्दृष्टे सदा मर्त्यः सुरूपः सुप्रभो भवेत् ॥१॥
॥ ययातिरुवाच ॥
त्वया प्रोक्तं पुरा शंभुः कामबाण भयात्किल॥
वालखिल्याश्रमं प्राप्तो यत्र लिंगं पपात ह ॥२॥
स कथं पूजितस्तेन शंभुर्मे कौतुकं महत्॥
वद सर्वं द्विजश्रेष्ठ कामेश्वरनिवेशनम् ॥३॥
॥ पुलस्त्य उवाच ॥
मुक्तलिंगेऽपि देवेशे न स्मरस्तं मुमोच ह॥
दर्शयन्नात्मनो बाणं तस्यासौ पृष्ठतः स्थितः ॥४॥
ततो वाराणसीं प्राप्तस्तद्भयात्त्रिपुरांतकः॥
तत्राऽपि च तथा दृष्ट्वा धृतचापं मनोभवम्॥५॥
ततः प्रयागमापन्नः केदारं च ततः परम्॥
नैमिषं भद्रकर्णं च जंबूमार्गे त्रिपुष्करम्॥६॥
गोकर्णं च प्रभासं च पुण्यं च कृमिजांगलम्॥
गगाद्वारं गयाशीर्षं कालाभीष्टं वटेश्वरम्॥७॥
किं वा तेन बहूक्तेन तीर्थान्यायतनानि च॥
असंख्यानि गतो देवः कामं च ददृशे तथा ॥८॥
यत्रयत्र महादेवस्तद्भयान्नृप गच्छति॥
तत्रतत्र पुनः कामं प्रपश्यति धृतायुधम्॥ ९॥
कस्यचित्त्वथकालस्य पुनः प्राप्तोऽर्बुदं प्रति॥
तत्रापश्यत्तथा काममाकर्णाकर्षितायुधम्॥
आकुंचितैकपादं च स्थिरदृष्टिं नृपो त्तम ॥१०॥
अथाऽसौ भगवाञ्छांतः प्रियादुःखसमन्वितः॥
क्रोधं चक्रे विशेषेण दृष्ट्वा तं पुरतः स्थितम्॥ ११॥
तस्य कोपाभिभूतस्य तृतीयान्नयनान्नृप॥
निश्चक्राम महाज्वाला ययाऽसौ भस्मसात्कृतः ॥१२॥
सचापः सशरो राजंस्तस्मिन्पर्वतरोधसि॥
शंकरो रोषपर्यंतं गत्वा सौख्यमवाप्तवान्॥ १३॥
कैलासं पर्वतश्रेष्ठं जगाम सुरपूजितः॥
दग्धे मनोभवे भार्या रतिरस्य पतिव्रता॥
व्यलपत्करुणं दीना पतिशोकपरि प्लुता ॥१४॥
ततो दारूणि चाहृत्य चितिं कृत्वा नराधिप॥
आरुरोहाग्निसंदीप्तां चितिं सा पतिदुःखिता॥
तावदाकाशगां वाणीं शुश्राव च यशस्विनी॥ १५॥
वागुवाच॥
मा पुत्रि साहसं कार्षीस्तपसा तिष्ठ सुन्दरि॥
भूयः प्राप्स्यसि भर्त्तारं कामें तुष्टेन शंभुना॥१६॥
सा श्रुत्वा तां तदा वाणीं समुत्तस्थौ समुमध्यमा॥
देवमाराधयामास दिवानक्तमतंद्रिता॥
व्रतैर्दानैर्जपैर्होमैरुपवासैस्तथा परैः॥१७॥
ततो वर्ष सहस्रांते तुष्टस्तस्या महेश्वरः॥
अब्रवीद्वद कल्याणि वरं यन्मनसि स्थितम् ॥१८॥
॥ रतिरुवाच ॥
यदि तुष्टोऽसि मे देव भगवँल्लोक भावनः॥
अक्षतांगः पुनः कामः कांतो मे जायतां पतिः ॥१९॥
एवमुक्ते तया वाक्ये तत्क्षणात्समुपस्थितः॥
यथा सुप्तो महाराज तद्वद्रूपः स हर्षित ॥२०॥
इक्षुयष्टिमयं चापं पुष्पबाणसमन्वितम्॥
भृंगश्रेणिमय्या मौर्व्या शोभितं सुमनोहरम् ॥२१॥
ततो रतिसमायुक्तः प्रणिपत्य महेश्वरम्॥
अनुज्ञातस्तु तेनैव स्वव्यापारेऽभ्यवर्त्तत ॥२२॥
स दृष्ट्वा शिवमाहात्म्यं श्रद्धां कृत्वा नृपोत्तम॥
शिवं संस्थापयामास पर्वतेऽर्बुदसंज्ञिते ॥२३॥
यस्मिन्दृष्टे महाराज नारी वा यदि वा नरः॥
सप्तजन्मांतराण्येव न दौर्भाग्यमवाप्नुयात् ॥२४॥
एवमेतन्मया ख्यातं यन्मां त्वं परिपृच्छसि॥
कामेश्वरस्य माहात्म्यं कामदाह सविस्तरम् ॥२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कामेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP