अर्बुदखण्डम् - अध्याय १४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ देवं सिद्धेश्वरं परम्॥
सिद्धिदं प्राणिनां सम्यक्सिद्धेन स्थापितं पुरा ॥१॥
तत्र विश्वावसुर्नाम सिद्धस्तेपे महातपः॥
बहुवर्षाणि संस्थाप्य शिवं भक्तिपरायणः ॥२॥
जितक्रोधो जितमदो जितसर्वेंद्रियक्रियः॥
तावद्वर्षसहस्रांते भगवान्वृषभध्वजः॥
तुतोष नृपतेस्तस्य स्वयं दर्शनमाययौ ॥३॥
अब्रवीत्तं महादेवो वरदोस्मीति पार्थिव॥ ४॥
॥ श्रीभगवानुवाच ॥
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते॥
दास्यामि ते प्रसन्नोऽहं यद्यपि स्यात्सुदुर्लभम् ॥५ ॥
॥ विश्वावसुरुवाच ॥
एतल्लिंगं सुरश्रेष्ठ ध्यात्वा मनसि निश्चयम्॥
सर्वान्कामानवाप्नोतु प्रसादात्तव शंकर ॥६॥
॥ पुलस्त्य उवाच ॥
एवमस्त्विति स प्रोच्य तत्रैवांतरधीयत॥
सिद्धेश्वरं ततो गत्वा सिद्धिं याति सहस्रशः ॥७॥
प्रभावात्तस्य लिंगस्य कामानिष्टानवाप्नुयुः॥
ततो धर्मक्रियाः सर्वा गता नाशं धरातले ॥८॥
न कश्चिद्यजते यज्ञैर्न दानानि प्रयच्छति॥
सिद्धेश्वरप्रसादेन सिद्धिं यांति नरा भुवि ॥९॥
उच्छिन्नेषु च यज्ञेषु दानेषु नृपसत्तम॥
इन्द्राद्यास्त्रिदशाः सर्वे परं दुःखमुपागताः ॥१०॥
ज्ञात्वा यज्ञविघातं च तद्विघाताय वासवः॥
वज्रेणाच्छादयामास यथा सिद्धिर्न जायते ॥११॥
तथापि संनिधौ तस्य सिद्धेशस्य नृपोत्तम॥
कर्मणो जायते सिद्धिः पातकस्य परिक्षयः ॥१२॥
यस्तु माघचतुर्द्दश्यां सोमवारे नृपोत्तम॥
शुक्लायां वाथ कृष्णायां स्पृष्ट्वा सिद्धो भवेन्नरः ॥१३॥
अद्यापि जायते सिद्धिः सत्यमेतन्मयोदितम्॥
तस्मात्सिद्धेश्वरं गत्वा नत्वा यास्यति सद्गतिम् ॥१४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे सिद्धेश्वरमाहात्म्यवर्णनंनाम चतुर्द्दशोऽध्यायः ॥१४॥
N/A
References : N/A
Last Updated : January 21, 2025

TOP