अर्बुदखण्डम् - अध्याय ५४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततस्त्रिपुष्करं गच्छेदभीष्टं पद्मजस्य च॥
ब्रह्मणा तत्समानीतं पर्वतेऽर्बुदसंज्ञके ॥१॥
वसिष्ठस्य पुरा सत्रे वर्त्तमाने नराधिप॥
तस्मिन्नगे समायाता ब्रह्माद्याश्च सुरोत्तमाः ॥२॥
प्रतिज्ञातं महाराज ब्रह्मणाऽव्यक्तजन्मना॥
यावत्स्थास्ये नृलोकेऽस्मिंस्तावत्सन्ध्यां त्रिपुष्करे॥
वंदयिष्यामि संप्राप्ते संध्याकाले समाहितः ॥३॥
एतस्मिन्नेव काले तु प्रस्थितः पुष्करं प्रति॥
संध्यार्थं पद्मजो यावद्वसिष्ठस्तावदब्रवीत् ॥४॥
॥ वसिष्ठ उवाच ॥
कर्मकालश्च सम्प्राप्तो यज्ञेऽस्मिन्सुरसत्तम॥
स विना न त्वया देव सिद्धिं यास्यति कर्हिचित् ॥५॥
तस्मादानय चात्रैव पद्मयोने त्रिपुष्करम्॥
संध्योपास्तिं ततः कृत्वा तत्र भूयः सुरेश्वर॥
ब्रह्मत्वं कुरु देवेश सत्रे चास्मिन्दयानिधे ॥६॥
एवमुक्तो वसिष्ठेन ब्रह्मा लोक पितामहः॥
ध्यात्वा तत्रानयामास ज्येष्ठमध्यकनिष्ठिकम्॥
पुष्करत्रितयं चागात्सुपुण्ये सलिलाशये ॥७॥
ततःप्रभृति संजातमर्बुदेऽस्मिंस्त्रिपुष्करम् ॥८॥
तत्र यः कार्तिके मासि पौर्णमास्यां समाहितः॥
स्नानं करोति दानं च तस्य लोकाः सनातनाः ॥९॥
तस्य चोत्तरदिग्भागे सावित्रीकुण्डमुत्तमम्॥
स्नानदानादिकं कुर्वन्यत्र याति शुभां गतिम् ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे त्रिपुष्करमाहात्म्यवर्णनंनाम चतुष्पंचाशत्तमोऽध्यायः ॥५४ ॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP