संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्| अध्याय १० प्रभासखण्डे अर्बुदखण्डम् विषयानुक्रमणिका अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अर्बुदखण्डम् - अध्याय १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १० Translation - भाषांतर ॥ ययातिरुवाच ॥केदारं श्रूयते ब्रह्मन्पर्वते च हिमाचले॥गंगा तस्माद्विनिष्क्रान्ता प्रविष्टा पूर्वसागरम् ॥१॥तथा सरस्वती देवी चूतवृक्षाद्विनिर्गता॥पश्चिमं सागरं प्राप्ता गृहीत्वा वडवानलम्॥ २॥कथमत्र समायातः केदारश्चात्र कौतुकम्॥सर्वं विस्तरतो ब्रूहि विचित्रं मम भूसुर ॥३॥॥ पुलस्त्य उवाच ॥सत्यमेतन्महाराज यन्नोऽत्र परिपृच्छसि॥शृणुष्वावहितो भूत्वा यथा जातं श्रुतं तु वै ॥४॥गंगाद्यानि च तीर्थानि केदाराद्या दिवौकसः॥मया सह पुरा देवाः शक्राद्या नृपसत्तमाः ॥५॥ब्रह्माणं प्रति राजेन्द्र गताः सर्वे महर्षयः॥सर्वे तत्र कथाश्चक्रुर्धर्म्या नाना पृथक्पृथक् ॥६॥समुदाये च देवानां सर्वतीर्थानि पार्थिव॥क्षेत्राण्युप स्थितान्येव वनान्युपवनानि च ॥७॥ततः कथाप्रसंगेन इन्द्रः प्राह चतुर्मुखम्॥कौतुकेन समायुक्तः पप्रच्छ नृपसत्तम ॥८ ॥॥ इन्द्र उवाच ॥भगवन्पुण्यमाहात्म्यं श्रोतुमिच्छामि सांप्रतम्॥प्रमाणं चैव सर्वेषां कृतादीनां पृथग्विधम् ॥९॥॥ ब्रह्मोवाच ॥लक्षं सप्तदश प्रोक्तं युगमानं सुराधिप॥अष्टाविंशतिभिः सार्द्धं सहस्रैः कृतमुच्यते ॥१०॥लक्षद्वादशभिः प्रोक्तं युगं त्रेताभिसंज्ञितम्॥षण्णवत्यधिकैश्चैव सहस्रैः परिमाणितम्॥ ११॥लक्षाण्यष्टौ चतुःषष्टिसहस्रैः परिकीर्तितम्॥ततो वै द्वापरं नाम युगं देवप्रकीर्तितम् ॥१२॥लक्षैश्चतुर्भिर्विख्यातो द्वात्रिंशद्भिः कलिस्तथा॥सहस्रैश्च सुरश्रेष्ठ युगमानमितीरितम्॥ १३॥चतुष्पदः कृते धर्मः शुक्लवर्णो जनार्दनः॥न दुर्भिक्षं न च व्याधिस्तस्मिन्भवति वै क्वचित् ॥१४॥क्रियते च तदा धर्मो नाकाले मरणं नृणाम्॥लांगलेन विना सस्यं भूरिक्षीराश्च धेनवः ॥१५॥कामः क्रोधो भयं लोभो मत्सरश्चाभ्यसूयता॥तस्मिन्युगे सहस्राक्ष न भवंति कदाचन ॥१६॥ततस्त्रेतायुगे जातस्त्रिपादो धर्म एव च॥चिरायुषो नरास्तस्मिन्रक्तवर्णो जनार्दनः ॥१७॥तस्मिन्यज्ञाः प्रवर्त्तंते प्राणिनामिष्टदायिनः॥न कामादिप्रवृत्तिश्च तस्मिन्संजायते नृणाम्॥ १८॥तपसा ब्रह्मचर्येण स्नानैर्दानैः पृथग्विधैः॥तथा यज्ञैर्जपैर्होमैस्तत्र वृत्तिर्भवेन्नृणाम् ॥१९॥ततस्तु द्वापरं नाम तृतीयं युग मुच्यते॥द्विपदो धर्मः सञ्जातः पीतवर्णो जनार्द्दनः ॥२०॥फलाकांक्षाप्रवृत्तानि जपयज्ञतपांसि च॥सत्यानृतान्वितो लोको द्वापरे सुरसत्तम ॥२१॥तत्रान्योन्यं महीपाला युयुधुर्वसुधातले॥सुपूताश्च दिवं यांति यज्ञैरिष्ट्वा जनार्दनम् ॥२२॥ततः कलियुगं घोरं चतुर्थं तु प्रव र्त्तते॥एकपादो भवेद्धर्मः संत्रस्तो नित्यपूजने ॥२३॥कृष्णवर्णो भवेद्विष्णुः पापाधिक्यं प्रवर्तते॥माया च मत्सरश्चैव कामः क्रोधस्तथा भयम् ॥२४॥अर्थलुब्धास्तथा भूपा लोभमोहशतान्विताः॥अल्पायुषो नरास्तत्र अल्पसस्या च मेदिनी ॥२५॥अल्पक्षीरास्तथा गावः सत्यहीना द्विजातयः॥तत्र मायाविनो लोका जैह्व्यौपस्थ्यपरायणाः ॥२६॥सत्यहीनास्तथा पापा भविष्यंति कलौ युगे॥तत्र षोडशमे वर्षे नराः पलितकुन्तलाः ॥२७॥नार्यो द्वादशमे वर्षे भविष्यंति सुगर्भिताः॥भविष्यति क्रमाद्वर्णसंकरश्च सुराधिप ॥२८॥एकाकारा भविष्यंति सर्ववर्णाश्रमाश्च वै॥नाशं यास्यंति यज्ञाश्च कुलधर्मः सनातनः ॥२९॥व्यर्थानि तत्र तीर्थानि म्लेच्छस्पृष्टानि सर्वशः॥भविष्यंति सुरश्रेष्ठ प्रभावरहितानि च ॥३०॥एतच्छ्रुत्वा ततो वाक्यं ब्रह्मणोऽव्यक्तजन्मनः॥तत्र स्थितानि तीर्थानि ब्रह्माणमिदमब्रुवन् ॥ ३१॥॥ तीर्थान्यूचुः ॥कथं वयं भविष्यामः संप्राप्ते दारुणे कलौ॥स्थानं नो ब्रूहि देवेश स्थातव्यं च सदैव हि ॥३२॥॥ ब्रह्मोवाच ॥अर्बुदः पर्वतश्रेष्ठः कलिस्तत्र न विद्यते॥अतस्तत्र च गंतव्यं तीर्थैरायतनैः सह ॥३३॥अपि कृत्वा महत्पापमर्बुदं प्रेक्षते तु यः॥कलिदोषविनिर्मुक्तः स यास्यति परां गतिम्॥३४॥॥ पुलस्त्य उवाच ॥एवमुक्त्वा चतुर्वक्त्रो ब्रह्मलोकं गतो नृप॥ततः सर्वाणि तीर्थानि गतानि च कलौ युगे ॥३५॥भूमावर्बुदशैलेन्द्रे संस्थितानि कलेर्भयात्॥गंगा सरस्वती चैव यमुना पुष्कराणि च ॥३६॥कुरुक्षेत्रं प्रभासं च ब्रह्मावर्तं तथैव च॥तिस्रःकोट्योऽर्द्धकोटिश्च यानि तीर्थानि भूतले ॥३७॥तेषां वासश्च सञ्जातः पर्वतेऽर्बुदसंज्ञिके॥एवं तत्र समापन्ना गंगा चैव सरस्वती ॥३८॥तत्र शांता नराः सम्यक्परं निर्वाणमाप्नुयुः॥श्राद्धं कृत्वा महाराज स्वर्गे यांति च पूर्वजाः ॥३९॥शृणु तत्राभवत्पूर्वं यदाश्चर्यं महामते॥ऋषिर्मंकणकोनाम सरस्वत्यास्तटे स्थितः ॥४०॥तपस्तेपे सुधर्मात्मा कामक्रोधविवर्जितः॥तस्यैवं वर्तमानस्य क्षुतमासीत्कदाचन ॥४१॥पित्तं प्रपतितं तत्र तच्च रक्तमयं बभौ॥तद्दृष्ट्वाऽतीव हृष्टः स मंकणर्षिर्बभूव ह ॥४२॥सिद्धोऽहमिति विज्ञाय ततो नृत्यं चकार सः॥तस्यैवं वर्तमानस्य जगत्स्थावरजंगमम् ॥४३॥तत्र संक्षोभमापन्नं सागरा अपि चुक्षुभुः॥गृहकृत्यानि संत्यज्य सर्वे विस्मयमा गताः ॥४४॥तस्यैवं नृत्यमानस्य सर्वे लोका नृपोत्तम॥ननृतुः पार्थिवश्रेष्ठ प्रभावात्तस्य सन्मुनेः ॥४५॥ततो देवगणाः सर्वे गत्वा कामनिषूदनम्॥यथाऽयं नृत्यते नैव तथा कुरु महेश्वर॥४६॥अथ ब्राह्मणरूपेण शंभुनोक्तो द्विजोत्तमः॥त्वया ब्रह्मंस्तपस्तप्तमधुना नृत्यते कथम् ॥ ४७॥॥ मंकण उवाच ॥किं न पश्यसि हे ब्रह्मन्रक्तं पित्तं च मे स्थितम्॥संजातं सिद्धिमापन्नो रक्तं पित्तं यतो मम ॥४८॥एतस्मात्कारणाद्धर्षाद्द्विज नृत्यं करोम्यहम्॥एवमुक्तस्ततस्तेन देवदेवो महेश्वरः ॥४९॥तर्जन्या ताडयामास स्वांगुष्ठं नृपसत्तम॥ततोंगुष्ठाद्विनिष्क्रांतं भस्म वै बिसपांडुरम् ॥५०॥ततो मंकणकं प्राह पश्य विप्र करान्मम॥शुभ्रं भस्म विनिष्क्रांतं पश्य मे द्विज कौतुकम् ॥५१ ॥॥ पुलस्त्य उवाच ॥तद्दृष्ट्वा विस्मितो विप्रो ज्ञात्वा तं वृषभध्वजम्॥जानुभ्यामवनिं गत्वा वाक्यमेतदुवाच ह॥५२॥॥ मंकण उवाच ॥नूनं भवान्महादेवः साक्षाद्दृष्टः प्रसीद मे॥निश्चितं त्वं मया ज्ञात एतन्मे हृदि वर्तते ॥५३॥नान्यस्यायं प्रभावश्च त्वया यो मे प्रदर्शितः॥मां समुद्धर देवेश कृपां कृत्वा महेश्वर ॥५४॥॥ श्रीमहादेव उवाच ॥सम्यग्ज्ञातोऽस्मि विप्रेन्द्र त्वयाऽहं नात्र संशयः॥वरं वरय भद्रं ते नृत्याधिक्यं यतः कृतम् ॥५५॥॥ मंकण उवाच ॥येऽत्र स्नानं प्रकुर्वंति सरस्वत्यां समाहिताः॥त्वत्प्रसादात्फलं तेषां राजसूयाश्वमेधयोः ॥५६॥॥ श्रीमहादेव उवाच ॥येऽत्र स्नानं करिष्यंति सरस्वत्यां समाहिताः॥ते यास्यंति परं स्थानं जरामरणवर्जितम् ॥५७॥अत्र गंगासरस्वत्योः संगमे लोकविश्रुते॥श्राद्धं कुर्युर्द्विजश्रेष्ठ ते यास्यंति परां गतिम् ॥५८॥सुवर्णं येऽत्र दास्यंति यथाशक्त्या द्विजोत्तमे॥सर्व पापविनिर्मुक्तास्ते यास्यन्ति परां गतिम् ॥५९॥इत्युक्त्वांतर्दधे राजन्देवदेवो महेश्वरः ॥६०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डेऽर्बुदाचले कलियुगपभावात्सर्वतीर्थागमनवर्णनंनाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : January 17, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP