संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय २९

अर्बुदखण्डम् - अध्याय २९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पौलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ कपिलातीर्थमुत्तमम्॥
यत्र स्नातो नरः सम्यङ्मुच्यते सर्वकिल्बिषैः ॥१॥
पुराऽभून्नृपतिर्नाम सुप्रभः परवीरहा॥
नित्यं च मृगयाशीलो मृगाणामहिते रतः ॥२॥
न तथा स्त्रीषु नो भोगे नाश्वयाने न वारणे॥
तस्याभूदनुरागश्च यथा मृगविमर्द्दने ॥३॥
स कदाचिन्नृपश्रेष्ठ मृगासक्तोऽर्बुदं गतः॥
अपश्यत्सानुदेशे च मृगीं शिशुसमावृताम् ॥४॥
स्तनं धयन्तीं सुस्निग्धां शिशोः क्षीरानुरागिणः॥
सा तेन विद्धा बाणेन सहसा नतपर्वणा ॥५॥
अथ सा पार्थिवं दृष्ट्वा प्रगृहीतशरासनम्॥
द्वितीयं योजयानं च मृगी बाणं सुनिर्मलम् ॥६॥
ततः सा कोपसन्तप्ता भूपालं प्रत्यभाषत॥
नायं धर्मः स्मृतः क्षात्त्रो यस्त्वयाद्य निषेवितः॥७॥
शयानो मैथुनासक्तः स्तनपो व्याधिपीडितः॥
न हंतव्यो मृगो राजन्मृगी च शिशुना वृता ॥८॥
तदद्य मरणं जातं मम सर्वं नृपाधम॥
तव बाणं समासाद्य पुत्रस्य च मया विना ॥९॥
यस्मादहमधर्मेण हता भूमिपते त्वया॥
तस्मादत्रैव सानौ त्वं रौद्रव्याघ्रो भविष्यसि॥ १०॥
॥ पुलस्त्य उवाच ॥
तच्छ्रुत्वा सुमहत्पापं स नृपो भयसंकुलम्॥
तां वै प्रसादयामास प्राणशेषां तदा मृगीम् ॥११॥
अविवेकान्मया भद्रे हता त्वं निर्घृणेन च॥
कुरु शापविमोक्षं त्वं तस्माद्दीनस्य सन्मृगि ॥१२॥
॥ मृग्युवाच ॥
यदा तु कपिलां नाम द्रक्ष्यसे त्वं पयस्विनीम्॥
धेनुं तया समालापात्प्रकृतिं यास्यसे पुनः ॥१३॥
एवमुक्त्वा मृगी राजाग्रतः प्राणैर्व्ययुज्यत॥
पीडिता शरघातेन पुत्रस्नेहाद्विशेषतः ॥१४॥
अथाऽसौ पार्थिवः सद्यो रौद्रास्यः समजायत॥
व्याघ्रो दशकरालश्च तीक्ष्णदन्तनखस्तथा॥
भक्षयामास तां सेनामात्मीयां क्रोधमूर्च्छितः ॥१५॥
ततस्ते सैनिका राजन्हतशेषाः सुदुःखिताः॥
स्वगृहाणि ययुस्तत्र यथा वृत्तं जने पुरे ॥१६॥
निवेदयन्तो वृत्तांतं चत्वरेषु त्रिकेषु च॥
यथा वै व्याघ्रतां प्राप्तः स राजाऽर्बुदपर्वते ॥१७॥
तच्छ्रुत्वा वचनं तस्य पुत्रं भूरिपराक्रमम्॥
राज्येऽभिषेचयामासु नाम्ना ख्यातं महौजसम् ॥१८॥
कस्यचित्त्वथ कालस्य तस्मिन्सानौ नृपोत्तम॥
तृषार्तं गोकुलं प्राप्तं गोपगोपीसमाकुलम् ॥१९॥
तत्रैका गौः परिभ्रष्टा स्वयूथात्तृणतृष्णया॥
कपिलेति च विख्याता स्वयूथस्याग्रगामिनी॥ ॥२०॥
अच्छिन्नाग्रतृणं या तु सदा भक्षयते नृप॥
अथ सा गह्वरं प्राप्ता गिरेः शून्यं भयंकरम् ॥२१॥
तत्राससाद तां व्याघ्रो दंष्ट्रोत्कटमुखावहः॥
सा तं दृष्टवती पापं त्रासमाप मृगीव हि ॥२२॥
स्मरंती गोकुले बद्धं स्वसुतं क्षीरपायिनम्॥
दुःखेन रुदतीं तां स दृष्ट्वोवाच मृगाधिपः ॥२३॥
॥ व्याघ्र उवाच ॥
किं वृथा रुद्यते धेनो मां प्राप्य न हि जीवितम्॥
विद्यते कस्यचिन्मूर्खे स्मरेष्टां देवतां ततः ॥२४ ॥
॥ कपिलोवाच ॥
स्वजीवितभयाद्व्याघ्र न रोदिमि कथंचन॥
पुत्रो मे बालको गोष्ठ्यां क्षीरपायी प्रतीक्षते ॥२५॥
नाद्यापि स तृणा न्यत्ति तेनाहं शोकविक्लवा॥
रोद्मि व्याघ्र सुतस्नेहात्सत्येनात्मानमालभे ॥२६॥
पाययित्वा सुतं बालं दृष्ट्वा पृष्ट्वा जनं स्वकम्॥
पुनः प्रत्यागमिष्यामि यदि त्वं मन्यसे विभो ॥२७॥
॥ व्याघ्र उवाच ॥
गत्वा स्वसुतसांनिध्यं दृष्ट्वात्मीयं च गोकुलम्॥
पुनरागमनं यत्ते न च तच्छ्रद्दधाम्यहम् ॥२८॥
भयान्मां भाषसे चैवं नास्ति प्राणसमं भयम्॥
तस्मात्प्राणभयान्न त्वमागमिष्यसि धेनुके ॥२९॥
॥ कपिलो वाच ॥
शपथैरागमिष्यामि सत्यमेतच्छृणुष्व मे॥
प्रत्ययो यदि ते भूयान्मां मुञ्च त्वं मृगाधिप ॥३०॥
॥ व्याघ्र उवाच ॥
ब्रूहि ताञ्छपथान्भद्रे समागच्छसि यैः पुनः॥
ततोऽहं प्रत्ययं गत्वा मोचयिष्यामि वा न वा ॥३१॥
॥ कपिलोवाच ॥
वेदाध्ययनसंपन्नं ब्राह्मणं वंचयेत्तु यः॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३२॥
गुरुद्रोहरतानां च यत्पापं जायते नृणाम्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३३॥
यत्पापं ब्राह्मणं हत्वा गां च हत्वा प्रजायते॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३४॥
मित्रद्रोहे च यत्पापं यत्पापं गुरुवंचके॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३५॥
यो गां स्पृशति पादेन ब्राह्मणं पावकं तथा॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३६॥
कूपारामतडागानां यो भंगं कुरुत नरः॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३७॥
कृतघ्नस्य च यत्पापं सूचकस्य च यद्भवेत्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३८॥
मद्यमांसरतानां च यत्पापं जायते नृणाम्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥३९॥
राजपैशुन्यकर्तॄणां यत्पापं जायते नृणाम्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥४०॥
वेदविक्रयकर्तॄणां यत्पापं संप्रजायते॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥४१॥
दीयमानं द्विजातीनां निवारयति योऽल्पधीः॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥४२॥
विश्वस्तघातकानां च यत्पापं समुदाहृतम्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥४३॥
द्विजद्वेषरतानां हि यत्पापं जायते नृणाम्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥४४॥
परवादरतानां च पापं यच्च दुरात्मनाम्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४५॥
रात्रौ ये पापकर्माणो भक्षंति दधिसक्तुकान्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥४६॥
वृंताकं मूलकं श्वेतं रक्तं येऽश्नंति गृंजनम्॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥४७॥
॥ पुलस्त्य उवाच ॥
स तस्याः शपथाञ्छ्रुत्वा विस्मयोत्फुल्ललोचनः॥
प्रत्ययं च तदा गत्वा व्याघ्रो वाक्यमथाब्रवीत् ॥४८॥
॥ व्याघ्र उवाच ॥
गच्छ त्वं गोकुले भद्रे पुनरागमनं कुरु॥
न चैतदवगंतव्यं यदयं वञ्चितो मया ॥४९॥
कपिले गच्छ पश्य त्वं तनयं सुतवत्सले॥
पाययित्वा स्तनं पूर्णमवघ्राय च मूर्धनि ॥५०॥
मातरं भ्रातरं दृष्ट्वा सखीः स्वजनवबांधवान्॥
सत्यमेवाग्रतः कृत्वा नान्यथा कर्तुमर्हसि ॥५१॥
॥ पुलस्त्य उवाच ॥
साऽनुज्ञाता मृगेन्द्रेण कपिला पुत्रवत्सला॥
अश्रुपूर्णमुखी दीना प्रस्थिता गोकुलं प्रति ॥५२॥
वेपमाना भयोद्विग्ना शोकसागरमध्यगा॥
करिणीव हि रौद्रेण हरिणा सा बलीयसा॥
ततः स्वगोकुलं प्राप्ता रभमाणा मुहुर्मुहुः ॥५३॥
तस्याः शब्दं ततः श्रुत्वा ज्ञात्वा वत्सः स्वमातरम्॥
सम्मुखः प्रययौ तूर्णमूर्द्ध्वपुच्छः प्रहर्षितः ॥५४॥
अकालागमनं तस्या रौद्रं भंभारवं तथा॥
दृष्ट्वा श्रुत्वा च वत्सोऽसौ शंकितः परिपृच्छति ॥५५॥
॥ वत्स उवाच ॥
न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यमे॥
किमर्थमन्यवेलायां समायाता वदस्व मे ॥५६॥
॥ कपिलोवाच ॥
पिब पुत्र स्तनं पश्चात्कारणं चापि मे शृणु॥
आगताऽहं तव स्नेहात्कुरु तृप्तिं यथेप्सिताम्॥५७॥
अपश्चिममिदं पुत्र दुर्लभं मातृदर्शनम्॥
मयाऽद्य पुत्र गंतव्यं शपथैरागता यतः॥५८॥
व्याघ्रस्य कामरूपस्य दातव्यं जीवितं मया॥
तेनाहं शपथैर्मुक्ता कारणात्तव पुत्रक ॥५९॥
मयाऽद्य तत्र गंतव्यं मृगराजसमीपतः॥
यदा च शपथैः पुत्र दास्यामि च कलेवरम्॥६०॥
॥ वत्स उवाच ॥
अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि॥
श्लाघ्यं हि मरणं मेऽद्य त्वया सह न संशयः॥६१॥
एकाकिनाऽपि मर्त्तव्यं यस्मान्मया त्वया विना॥
यदि मां सहितं तत्र त्वया व्याघ्रो वधिष्यति॥६२॥
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति॥
तस्मादवश्यं यास्यामि त्वया सह न संशयः ॥६३॥
अथवाऽत्रैव तिष्ठ त्वं शपथाः संतु मे तव॥
तव स्थाने प्रयास्यामि मातस्त्वं यदि मन्यसे ॥६४॥
जनन्या विप्रयुक्तस्य जीवितं न हि मे प्रियम्॥
नास्ति मातृसमः कश्चिद्बालानां क्षीरजीविनाम् ॥६५॥
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः॥
ये मातृनिरताः पुत्रास्ते यांति परमां गतिम् ॥६६॥
॥ कपिलोवाच ॥
ममैव विहितो मृत्युर्न ते पुत्रक सांप्रतम्॥
न चायमन्यभूतानां मृत्युः स्यादन्यमृत्युतः ॥६७॥
अपश्चिममिदं पुत्र मातुः सन्देशमुत्तमम्॥
शृणुष्वावहितो भूत्वा परिणामसुखावहम् ॥६८॥
वने चर सदा वत्स अप्रमादपरो भव॥
प्रमादात्सर्वभूतानि विनश्यंति न संशयः ॥६९॥
न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित्॥
लोभाद्विनाशो जंतूनामिह लोके परत्र च ॥७०॥
समुद्रमटवीं युद्धं विशंते लोभमोहिताः॥
लोभादि कार्यमत्युग्रं कुर्वंति त्याज्य एव सः ॥७१॥
लोभात्प्रमादादाश्वासात्पुरुषो बाध्यते त्रिभिः॥
तस्माल्लोभो न कर्त्तव्यो न प्रमादो न विश्वसेत् ॥७२॥
आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः॥
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छेभ्यस्तस्करादितः॥७३॥
तिर्यग्भ्यः पापयोनिभ्यः सदा विचरता वने॥
न च शोकस्त्वया कार्यः सर्वेषां मरणं धुवम् ॥७४॥
अस्माकं प्रतिवाचं च शृणु शोकविनाशिनीम्॥
यथा हि पथिकः कश्चिच्छायार्थी वृक्षमास्थितः॥
विश्रान्तश्च पुनर्याति तद्वद्भूतसमागमः ॥७५॥
॥ पुलस्त्य उवाच ॥
एवं संभाष्य तं वत्समवघ्राय च मूर्द्धनि॥
स्वमातरं सखीवर्गं ततो द्रष्टुं समागता ॥७६॥
अब्रवीच्च ततो वाक्यं पुत्रशोकेन दुःखिता॥
अंबाः शृणुत मे वाक्यमपश्चिममिदं स्फुटम् ॥७७॥
अनाथमबलं दीनं फेनपं मम पुत्रकम्॥
मातृशोकाभिसंतप्तं सर्वास्तं पालयिष्यथ ॥७८॥
भाविनीनामयं पुत्रः सांप्रतं च विशेषतः॥
स्नपनीयः पायितव्यः पोष्यः पाल्यः स्वपुत्रवत् ॥७९॥
चरंतं विषमे स्थाने चरंतं परगोकुले॥
अकार्येषु प्रवर्तंतं हे सख्यो वारयिष्यथ ॥८०॥
क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात्॥
यत्राऽसौ तिष्ठते व्याघ्रो मुक्ताऽहं येन सांप्रतम् ॥८१॥
सर्वास्ता वचनं श्रुत्वा तस्याः शोकसमन्विताः॥
विषादं परमं गत्वा वाक्यमूचुः सुदुःखिताः॥ ८२॥
कपिले नैव गंतव्यं न ते दोषो भविष्यति॥
प्राणात्यये न दोषोऽस्ति संपराये च दारुणे॥ ८३॥
अत्र गाथा पुरा गीता मुनिभिर्धर्मवादिभिः॥
प्राणात्यये समुत्पन्ने शपथे नास्ति पातकम्॥ ८४॥
कपिलोवाच॥
प्राणिनां प्राण रक्षार्थं वदाम्येवानृतं वचः॥
नात्मार्थमुपयुञ्जामि स्वल्पमप्यनृतं क्वचित् ॥८५॥
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥८६॥
तस्मान्नानृतमात्मानं करिष्ये जीविताशया॥
आज्ञापयतु मामार्या यास्ये यत्र मृगाधिपः ॥८७॥
॥ वयस्या ऊचुः ॥
कपिले त्वं नमस्कार्या सर्वैरपि सुरासुरैः॥
यत्त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान् ॥८८॥
अवश्यं न च ते भावी मृत्युः सत्यात्कथंचन॥
प्रमाणं यदि सत्यं हि व्रज पंथाः शिवोऽस्तु ते ॥८९॥
॥ पुलस्त्य उवाच ॥
एवमुक्ता च कपिला गता यत्र मृगाधिपः॥
अथासौ कपिलां दृष्ट्वा विस्मयोत्फुल्ललोचनः॥
अब्रवीत्प्रश्रितं वाक्यं हर्षगद्गदया गिरा ॥९०॥
॥ व्याघ्र उवाच ॥
स्वागतं तव कल्याणि कपिले सत्यवादिनि॥
नहि सत्यवतां किंचिदशुभं विद्यते क्वचित् ॥९१॥
त्वयोक्तं कपिले पूर्वं शपथैरागमाय च॥
तेन मे कौतुकं जातं याताऽऽगच्छेत्पुनः कथम् ॥९२॥
तस्माद्गच्छ मया मुक्ता यत्राऽसौ तनयस्तव॥
तिष्ठते गोकुले बद्धः क्षीरपायी सुदुःखितः॥९३॥
॥ पुलस्त्य उवाच ॥
एतस्मिन्नेव काले तु स राजा प्रकृतिं गतः॥
मृगीशापेन निर्मुक्तो दिव्यरूपवपुर्धरः॥
ततोऽब्रवीत्प्रहृष्टात्मा कपिलां सत्यवादिनीम् ॥९४॥
॥ राजोवाच ॥
प्रसादात्तव मुक्तोऽहं शापादस्मात्सुदारुणात्॥
किं ते प्रियं करोम्यद्य धेनुके ब्रूहि सत्वरम् ॥९५॥
॥ कपिलोवाच ॥
कृतकृत्याऽस्मि राजेन्द यत्त्वं मुक्तोऽसि किल्बिषात्॥
पिपासा बाधतेत्यर्थं सांप्रतं जलमानयम् ॥९६॥
नैवानृतं विजानीहि सत्यमेतन्मयोदितम् ॥९७॥
॥ पुलस्त्य उवाच ॥
अथासौ पार्थिवो हस्ते चापमादाय सत्वरम्॥
सज्यं कृत्वा शरं गृह्य जघान धरणीतलम् ॥९८॥
ततः सलिलमुत्तस्थौ निर्मलं शीतलं शुभम्॥
तत्र सा कपिला स्नात्वा वितृषा समपद्यत ॥९९॥
एतस्मिन्नन्तरे धर्मः स्वयं तत्र समागतः॥
अब्रवीत्कपिलां हृष्टो वरं वरय शोभने॥१००॥
तव सत्येन तुष्टोऽहं नास्ति ते सदृशी क्वचित्॥
त्रैलोक्ये सकले धेनुर्न भविष्यति वै शुभे ॥१०१॥
॥ कपिलोवाच ॥
प्रसादात्तव गच्छेय सह राज्ञा सगोकुला॥
सुप्रभेण पदं दिव्यं जरामरणवर्जितम्॥ १०२॥
मन्नाम्ना ख्यातिमायातु पुण्यमेतज्जलाशयम्॥
सर्वपापहरं नृणां सर्वकामप्रदं तथा ॥१०३॥
॥ धर्म उवाच ॥
येऽत्र स्नानं करिष्यंति सुपुण्ये सलिले शुभे॥
चतुर्द्दश्यां विशेषेण ते यास्यंति परां गतिम् ॥१०४॥
तव नाम्ना सुपुण्यं हि तीर्थमेतद्भविष्यति॥
दर्शमुद्दिश्य मर्त्यस्तु प्राप्स्यते गोसहस्रकम्॥
स्नानाल्लक्षगुणं दानात्पुण्यं चैव तथाऽक्षयम् ॥१०५॥
येऽत्र श्राद्धं करिष्यंति मानवाः सुसमाहिताः॥
सर्वदानफलं तेषां भुक्तिमुक्ती महात्मनाम् ॥१०६॥
अपि कीटपतंगा ये तृषार्ताः सलिले शुभे॥
मज्जयिष्यति यास्यंति तेऽपि स्थानं दिवौकसाम्॥ १०७॥
किं पुनर्भक्तिसंयुक्ता मानवाः सत्यवादिनः॥
मनस्विनो महाभागाः श्रद्धावंतो विचक्षणाः ॥१०८॥
॥ पुलस्त्य उवाच ॥
एतस्मिन्नेव काले तु विमानानि सहस्रशः॥
समायातानि राजेंद्र कपिलायाः प्रभावतः ॥१०९॥
तान्यारुह्याथ कपिला गोपगोकुलसंकुला॥
सुप्रभेण समायुक्ता तत्पदं परमं गता ॥११०॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत्॥
श्राद्धं चैवात्मनः शक्त्या दानं पार्थिवसत्तम ॥ १११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कपिलातीर्थमाहात्म्यवर्णनंनामैकोनत्रिंशोऽध्यायः॥२९॥

N/A

References : N/A
Last Updated : February 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP