संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ५३

अर्बुदखण्डम् - अध्याय ५३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेद्ब्रह्मपदं तीर्थं त्रैलोक्यविश्रुतम्॥
यत्र पूर्वं पदं न्यस्तं ब्रह्मणा लोककारिणा ॥१॥
पुरा ब्रह्मादयो देवास्तत्र सर्वे समाहिताः॥
अर्बुदे पर्वते रम्य ऋषयश्च सुनिर्मलाः ॥२॥
अचलेश्वरयात्रायां सुभक्त्या भाविता नृप॥
अथ ते मुनयः सर्वे प्रोचुर्देवं पितामहम् ॥३॥
॥ ऋषय ऊचुः ॥
प्रभूतनियमैर्होमैर्व्रतस्नानैश्च नित्यशः॥
उपवासैश्च निर्विण्णा वयं सर्वे पितामह ॥४॥
तस्मात्सदुपदेशं त्वं किंचिद्दातुमिहार्हसि॥
तरामो येन देवेश दुर्गं संसारसागरम् ॥५॥
अयाचितोपचारैश्च जपहोमैः सुदुष्करैः॥
मन्त्रैर्व्रतैस्तथा दानैः स्वर्गप्राप्तिं वदस्व नः ॥६॥
तेषां तद्वचनं श्रुत्वा तदा देवः कृपान्वितः॥
चिंतयामास सुचिरमिह किंचित्प्रहस्य च॥७॥
ततः स्वकं पदं त्यक्त्वा रम्ये पर्वतरोधसि॥
अथोवाच मुनीन्सर्वान्ब्रह्मा संश्लक्ष्णया गिरा ॥८॥
॥ ब्रह्मोवाच ॥
एतन्महापदं रम्यं सर्वपातकनाशनम्॥
स्पृशंतु ऋषयः सर्वे ततो यास्यथ सद्गतिम् ॥९॥
विना स्नानेन दानेन व्रतहोमजपादिभिः॥
हितार्थं सर्वलोकानां मया न्यस्तं पदं शुभम्॥१०॥
अस्मिन्पदे मया न्यस्ते यांति लोकाः सहस्रशः॥
स्पृशंतु ऋषयः सर्वे देवाश्चापि पदं मम ॥११॥
एकैवात्र प्रकर्त्तव्या श्रद्धा वाऽव्यभिचारिणी॥
यश्च श्रद्धान्वितः सम्यक्पदमेतन्मुनीश्वराः ॥१२॥
पूजयिष्यति संप्राप्ते कार्तिके पूर्णिमादिने॥
तोयैः फलैश्च विविधैर्गंधमाल्यानुलेपनैः ॥१३॥
ब्राह्मणान्भोजयित्वा तु मिष्टान्नेन स्वशक्तितः॥
स यास्यति न सन्देहो मम लोकं सुदुर्लभम् ॥१४॥
॥ पुलस्त्य उवाच ॥
ततो मुनिगणाः सर्वे सम्यक्छ्रद्धासमन्विताः॥
पूजयित्वा पदं तत्र ब्रह्मलोकं समागताः ॥१५॥
तस्मात्सर्वप्रयत्नेन पदं पूज्यं नरोत्तम॥
पितामहपदं सम्यक्छ्रद्धया स्वर्गदायकम्॥ १६॥
अन्यत्कौतूहलं राजन्महद्दृष्टं महाद्भुतम्॥
पदस्य तस्य यच्छ्रुत्वा जायते विस्मयो महान् ॥१७॥
आयामविस्तरेणाऽपि प्राप्ते कृतयुगे नृप॥
न संख्या जायते राजञ्छुक्लवर्णस्य मानवैः ॥१८॥
ततस्त्रेतायुगे प्राप्ते रक्तवर्णं प्रदृश्यते॥
सुव्यक्तं संख्यया युक्तं सर्वलोकनमस्कृतम् ॥१९॥
द्वापरे कपिलं तच्च लघुमात्रं प्रदृश्यते॥
कलौ कृष्णं सुसूक्ष्मं च रम्ये पर्वतरोधसि ॥२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३ ॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP