संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ३५

अर्बुदखण्डम् - अध्याय ३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम्॥
मामुह्रदमिति ख्यातं तस्मिन्पर्वतरोधसि ॥१॥
तत्र स्नातो नरः सम्यक्छ्रद्धावान्सुसमाहितः॥
मुच्यते पातकैर्घोरैः पूर्वजन्मकृतैरपि ॥२॥
तस्य पश्चिमदिग्भागे लिंगमस्ति महीपते॥
सर्वकामप्रदं नृणां स्थापितं मुद्गलेन तु ॥३॥
स्नात्वा मामुह्रदे पुण्ये यस्तल्लिंगं च पश्यति॥
शुक्लपक्षे चतुर्द्दश्यां फाल्गुने मासि मानवः॥
स प्राप्नोति परं श्रेयः सर्वतीर्थेषु दुर्लभम् ॥४॥
यस्तत्र कुरुते श्राद्धं दक्षिणां मूर्तिमाश्रितः॥
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम्॥ ५॥
तत्र दानं प्रशंसंति नीवाराणां महर्षयः॥
शाकमूलादिभिः श्राद्धं पितॄणां तुष्टिदं नृप ॥६॥
॥ ययातिरुवाच ॥
मामुह्रदमिति विभो कथं नामाऽभवत्पुरा॥
मुद्गलस्याश्रमं ब्रूहि मम सर्वं विधानतः ॥७ ॥
॥ पुलस्त्य उवाच ॥
तत्रस्थस्य पुरा राजन्मुद्गलस्य महात्मनः॥
विमानं वरमादाय देवदूतः समागतः ॥८॥
सोऽब्रवीद्देवराज्ञाहं प्रेषितो मुनिसत्तम॥
तवार्थायाऽऽरुहैनं त्वं विमानं गम्यतां दिवि॥ ९॥
॥ मुद्गल उवाच ॥
स्वर्गस्य ये गुणा दूत ये च दोषा प्रकीर्तिताः॥
तान्मे वद करिष्येऽहं श्रुत्वा वै यत्क्षमं भवेत्॥१०॥
ब्रूहि तान्सकलान्दूत त्वागमिष्याम्यहं ततः ॥११॥
॥ देवदूत उवाच॥
अलमेतेन दर्पेण क्रियतां शक्रजल्पितम्॥
पुण्यैः स्वकैर्द्विजश्रेष्ठ समागच्छेरिदं ततः ॥१२॥
॥ मुद्गल उवाच ॥
अश्रुतैस्तैर्न गच्छेऽहमेतन्मे हृदि निश्चितम्॥
करिष्येऽहं तपो भूरि पूजयिष्ये महेश्वरम् ॥१३॥
॥ दूत उवाच ॥
न शक्तः स्वर्गुणान्वक्तुमपि वर्षशतैरपि॥
संक्षेपात्कथयिष्यामि यदि ते निश्चयः परः ॥१४॥
नंदनादीनि रम्याणि तत्र देववनानि च॥
अनन्यसदृशा भोगाः सदा तृप्तिर्द्विजोत्तम॥४५॥
बुभुक्षा नैव तृष्णा च निद्रालस्ये न च प्रभो॥
रंभाद्यप्सरसो मुख्या गंधर्वास्तुंबरादयः॥
रमयंति नरं तत्र गीतैर्नृत्यैरनेकशः ॥१६॥
एवं च वसते तत्र जनः स्वर्गे तपोधन॥
यावत्पुण्यक्षयस्तावत्पश्चात्पातमवाप्नुयात्॥१७॥
एक एव मुने दोषः स्वर्लोके प्रतिभाति मे॥
स एव पतनाख्यस्तु स्वर्गिणां च भयावहः ॥१८॥
न पुण्यं लभते तत्र कर्तुं विप्र कथंचन॥
कर्मभूमिरियं ब्रह्मन्भोगभूमिस्तु सा स्मृता ॥१९॥
यदत्र क्रियते कर्म शुभं तत्रोप भुज्यते॥
तथा दृष्ट्वा विमानस्थान्भूरिधर्मादिसंयुतान्॥२०॥
बहुतेजोन्वितान्स्वर्गे ह्यल्पपुण्यो द्विजोत्तम॥
पश्चात्तापजदुःखेन स्वर्गस्थो दुःखितः सदा ॥२१॥
न मया सुकृतं भूरि कृतं मर्त्त्ये कथंचन ॥२२॥
तथा च पतमानांश्च दृष्ट्वा चान्यान्सहस्रशः॥
आत्मनश्च महद्दुःखं जायते च तदद्भुतम्॥ २३॥
एतत्ते सर्वमाख्यातं गुणदोषसमुद्भवम्॥
स्वर्गसंचेष्टितं ब्रह्मन्कुरुष्व यदभीप्सितम् ॥२४॥
॥ मुद्गल उवाच ॥
पतनस्य भयं यत्र पुण्यहानिर्न वर्द्धनम्॥
तेन स्वर्गेण मे दूत नैव कार्यं कथंचन॥ २५॥
वाच्यस्त्वया ममादेशाद्देवराजः स्फुटं वचः॥
क्षम्यतामपराधो मे न स्वर्गाय स्पृहा मम॥ २६॥
तत्कर्माऽहं करिष्यामि येन नो पतनाद्भयम्।.
साधयिष्यामि ताँल्लोकान्ये सदा पातवर्जिताः॥ २७॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा नृपश्रेष्ठ मुद्गलः स्वर्गनिःस्पृहः॥
स्थितस्तत्रैव निरतः शिवध्यानपरायणः ॥२८॥
श्रुत्वा दूतोऽपि शक्रस्य तस्य वाक्यं सविस्तरम्॥
कथयामास शक्रस्य तं भूयः सोऽभ्यभाषत ॥२९॥
देवदूताप्रमाणं च विमानं हि त्वया कृतम्॥
न कृतं केन चित्पूर्वं न करिष्यति कश्चन ॥३०॥
तस्मात्तत्र द्रुतं गत्वा बलादानय तं मुनिम्॥
आनयस्वान्यथा शापं तव दास्याम्यसंशयम् ॥३१ ।॥
॥ पुलस्त्य उवाच ॥
शक्रस्य वचनं श्रुत्वा देवदूते भयान्वितः॥
प्रस्थितः सत्वरं तत्र मुद्गलो यत्र तिष्ठति ॥३२॥
मुद्गलोऽपि विमानस्थं पुनर्दृष्ट्वा समागतम्॥
मामुह्रदे प्रविश्याथ वारयामास तं तदा ॥३३॥
स तस्य वचनेनैव स्तंभितो लिखितो यथा॥
चलितुं नैव शक्नोति प्रभावात्तस्य सन्मुनेः ॥३४॥
चिरकालगतं ज्ञात्वा दूतं तु त्रिदशाधिपः॥
स्वयं तत्राययौ कोपादारुह्यैरावणं गजम् ॥३५॥
अथ दृष्ट्वा तदा दूतं स्तंभितं मुद्गलेन तु॥
वधार्थं तूद्यतस्तस्य स वज्रं भ्रामयंस्तदा ॥३६॥
एतस्मिन्नेव काले तु उत्पातास्तत्र दारुणाः॥
अपसव्यं मृगाश्चक्रुः पशवः पक्षिणश्च ये॥
तान्दृष्ट्वा चिन्तयामास मुद्गलो विस्मयान्वितः ॥३७॥
अथ दृष्ट्वांबरगतं वज्रोद्यतकरं हरिम्॥
स्तंभयामास तं सद्यो दृष्टिपातेन मुद्गलः ॥३८॥
तत्र शक्रः स्तुतिं चक्रे भग्नोत्साहो नृपोत्तम॥
मुञ्च मां ब्राह्मणश्रेष्ठ यास्यामि त्रिदशालयम् ॥३९॥
स्वर्गे वा यदि वा मर्त्त्ये तिष्ठ त्वं स्वेच्छया द्विज॥
मया कृतः समुद्योगो हितार्थं ते मुने ह्ययम् ॥४०॥
वरं वरय भद्रं ते नित्यं यो मनसि स्थितः॥
तं ते सर्वं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥४१॥
॥ मुद्गल उवाच ॥
एष एव वरः श्लाघ्यो यत्त्वं दृष्टः सुरेश्वर॥
दर्शनं ते सहस्राक्ष स्वप्नेष्वपि सुदुर्लभम् ॥४२॥
अवश्यं यदि मे देयो वरो वृत्रनिषूदन॥
त्वत्प्रसादेन मे मोक्षो जायतां शीघ्रमेव हि ॥४३॥
मा मु ह्रदं समागत्य दूतः प्रोक्तो मया यतः॥
ततो मामुह्रदमिति ख्यातिं यातु धरातले ॥४४॥
तीर्थमेतत्सहस्राक्ष सर्व पापप्रणाशनम्॥
अत्र स्नात्वा दिवं यांतु त्वत्प्रसादात्सुरेश्वर ॥४५॥
पिण्डदानात्परां प्रीतिं लभंतां पितरोऽत्र हि ॥४६॥
॥ इन्द्र उवाच ॥
मामुह्रदमिति ख्यातं तीर्थमेतद्भविष्यति॥
वरिष्ठं नात्र सन्देहो मत्प्रसादाद्विजोत्तम ॥४७॥
अत्र ये फाल्गुने मासि पौर्णमास्यां समाहिताः॥
करिष्यंति पुनः स्नानं ते यास्यंति परां गतिम् ॥४८॥
पिण्डदानाद्गयातुल्यं लप्स्यंते फलमुत्तमम्॥
पुण्यदानफलं चात्र संख्याहीनं द्विजोत्तम ॥४९॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा ययौ स्वर्गं दूतमादाय वज्रभृत्॥
मुद्गलोऽपि परं ब्रह्म चिंतयन्ह्यनिशं ततः ॥५०॥
शुक्लध्यानपरो भूत्वा मोक्षं प्राप्तस्ततोऽक्षयम् ॥५१॥
अत्र गाथा पुरा गीता नारदेन महात्मना॥
बहुविप्रसमवाये पर्वतेस्मिन्महीपते ॥५२॥
मामु ह्रदे नरः स्नात्वा दृष्ट्वा तं मुद्गलेश्वरम्॥
इह भुक्त्वाऽखिलान्कामानन्ते मुक्तिमवाप्स्यति॥
एतस्मात्कारणाद्राजन्मामुह्रदमिति स्मृतम् ॥५३॥
तत्तीर्थं सर्वतीर्थानां प्रवरं लोकविश्रुतम्॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥५४॥
मोक्षकामो विशेषेण य इच्छेत्परमं पदम्॥
चण्डिकाश्रममासाद्य किं पुनः परितप्यते ॥५५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेऽर्बुदखण्डे मामुह्रदोत्पत्तिवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP