अर्बुदखण्डम् - अध्याय ३९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ययातिरुवाच ॥
यत्त्वया कीर्तितं ब्रह्मन्पूर्वं देवैः प्रसादितः॥
लिंगं संस्थापयामास स्थिररूपो महेश्वरः ॥१॥
कस्मात्तत्पातितं लिंगं वालखिल्यैर्महात्मभिः॥
कस्मात्तत्राचलो जातो देवदेवो महेश्वरः ॥२॥
एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि॥
तस्मिन्दृष्टे च किं पुण्यं नराणां तत्र जायते ॥३॥
॥ पुलस्त्य उवाच ॥
महेश्वरस्य माहात्म्यं शृणु पार्थिवसत्तम॥
अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम् ॥४॥
यदा पञ्चत्वमापन्ना सती सत्यपराक्रमा॥
अपमानेन दक्षस्य यज्ञे न च निमंत्रिता ॥५॥
तदा कामो द्रुतं गृह्य पुष्पचापं तमभ्यगात्॥
कन्दर्प्पं सहसा दृष्ट्वा सन्धितेषुं सुदुर्जयम् ॥६॥
आपतन्तं भयात्तस्य प्रणष्टस्त्रिपुरांतकः॥
स तदा भ्रममाणश्च इतश्चेतश्च पार्थिव ॥७॥
वालखिल्याश्रमं प्राप्तः पुण्यं सद्वृक्षशोभितम्॥
स तत्र भगवांस्तेषां दारैर्दृष्टः सुरूपवान् ॥८॥
दिग्वासाः सुप्रियालापस्ततस्ताः काममोहिताः॥
त्यक्त्वा पुत्रगृहाद्यं च सर्वास्तत्पृष्ठसंस्थिताः॥
बभूवुश्चानिशं राजन्मां भजस्वेति चाब्रुवन् ॥९॥
चक्रुरालिंगनं काश्चिच्चुम्बनं च तथापराः॥
अन्यास्तस्य हि लिंगं तत्स्पृशंति च मुहुर्मुहुः ॥१०॥
स चापि भगवाञ्छम्भुर्निष्कामः परमेश्वरः॥
जगद्व्याप्तिं समाश्रित्य सर्वप्राणिषु वर्तते ॥११॥
स चापि भगवाच्छंभुस्तासां सरति प्राङ्मुखः॥
भ्रांतस्तत्राश्रमे तेषां दारान्कामेन पीडयन् ॥१२॥
अथ ते मुनयो दृष्ट्वा विकृतिं दारसंभवाम्॥
अजानन्तो महादेवं रुष्टास्तस्य महात्मनः ॥१३॥
ददुः शापं सुसंतप्ताः कलत्रार्थे परंतप॥
पततां पततां लिङ्गमेतत्ते पापकृत्तम ॥१४॥
विडम्बयसि नो दारानजस्रं चास्य दर्शनात्॥
ततश्चैवापतल्लिंगं तत्क्षणात्तत्पुरद्विषः ॥१५॥
ब्रह्मवाक्येन राजर्षे चकम्पे वसुधा ततः॥
शीर्णानि गिरिशृंगाणि चुक्षुभुर्मकरालयाः ॥१६॥
ततो देवगणाः सर्वे भयत्रस्ता नराधिप॥
अकाले प्रलयं मत्वा त्रैलोक्ये पर्यवस्थितम् ॥१७॥
तत पितामहं जग्मु स्तस्मै सर्वं न्यवेदयन्॥
प्रलयस्येव चिह्नानि दृश्यन्ते परमेश्वर ॥१८॥
किं निमित्तं सुरश्रेष्ठ न जानीमो वयं प्रभो॥
तेषां तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥१९॥
अब्रवीत्पातितं लिंगं वालखिल्यैः पिनाकिनः॥
तेनैते दारुणोत्पाताः संजाता भयसूचकाः ॥२०॥
तस्मान्मया समायुक्ताः सर्वे तत्र दिवौकसः॥
व्रजंतु येन तल्लिंगं स्थाने संस्थापयेच्छिवः ॥२१॥
यावन्नो जायते लोके प्रलयोऽ कालसंभवः॥
एवं संमंत्र्य ते सर्वे ततोऽर्बुदमुपाययुः ॥२२॥
वालखिल्याश्रमे यत्र तल्लिंगं निपपात ह॥
तुष्टुवुर्विविधैः सूक्तैर्वेदोक्तैर्विनयान्विताः ॥२३॥
॥ देवा ऊचुः ॥
नमस्ते देवदेवेश भक्तानां चाभयंकर॥
नमस्ते सर्ववासाय सर्वयज्ञमयाय च ॥२४॥
सर्वेश्वराय देवाय परमज्योतिषे नमः॥
नमः स्फुटतर ज्ञानगम्याय वेधसे ॥२५॥
त्र्यंबकाय च भीमाय पिनाकवरपाणये॥
त्वयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥२६॥
संसारे विबुधश्रेष्ठ जगत्स्थावरजंगमम्॥
न तदस्ति त्रिलोकेऽस्मिन्सुसूक्ष्ममपि शंकर॥
यत्त्वया न प्रभो व्याप्तं सृष्टिसंहारकारणात् ॥२७॥
पृथिव्यादीनि भूतानि त्वया सृष्टानि कामतः॥
यास्यंति तानि भूयोऽपि तव काये जगत्पते ॥२८॥
प्रसीद भगवंस्तस्माल्लिंगमेतत्सुरेश्वर॥
स्थाने स्थापय भद्रं ते यावन्न स्यात्प्रजाक्षयः ॥२९॥
॥ श्रीभगवानुवाच ॥
निर्विकारस्य मल्लिंगं वालखिल्यैः प्रपातितम्॥
कथं भूयः प्रगृह्णामि यावच्छुद्धिर्न जायते ॥३०॥
शक्तोऽहं वालखिल्यानां निग्रहं कर्त्तुमञ्जसा॥
किन्तु मे ब्राह्मणा मान्याः पूज्याश्च सुरसत्तमाः ॥३१॥
अचलं लिंगमेतद्धि नोद्धर्त्तुं शक्यते विभो॥
एक एवात्र निर्दिष्ट उपायो नापरः स्मृतः ॥३२॥
यदि मे त्वं पुरा लिंगं पूजयेथाः पितामह॥
ततो देवगणाः सर्वे ततो विप्रास्ततोऽपरे ॥३३॥
ततो नौ शांतिमागच्छेज्जगत्स्थावरजंगमम् ॥३४॥
॥ पुलस्त्य उवाच ॥
एवमुक्तः स भगवाञ्छंकरेण नृपोत्तम॥
ततस्तं पूजयामास ब्रह्मा पूर्वं सुभक्तितः ॥३५॥
ब्रह्मणोऽनन्तरं विष्णुस्ततः शक्र स्ततोऽपरे॥
वालखिल्यादयो विप्रा मन्त्रैश्च शतरुद्रियैः ॥३६॥
ततस्ते दारुणोत्पाता उपशांताश्च तत्क्षणात्॥
अभवत्सुमुखो लोको वृत्तो गन्धवहो मृदुः ॥३७॥
अथोवाच महादेवः सर्वांस्तांस्त्रिदशालयान्॥
वृणुध्वं सुवरं सर्वे मत्तो यन्मनसीप्सितम् ॥३८॥
॥ देवा ऊचुः ॥
तव लिंगस्य संस्पर्शादपि पापकृतो नराः॥
स्वर्गं यास्यंति देवेश नाशं यास्यति किल्बिषम्॥
व्रतदानानि सर्वाणि तीर्थयात्रायुतानि च ॥३९॥
तस्माद्वज्रेण देवेन्द्रस्तवैतल्लिंगमुत्तमम्॥
छादयिष्यति सर्वत्र यदि त्वं मन्यसे प्रभो ॥४०॥
॥ श्रीभगवानुवाच ॥
अभिप्रायो ममाप्येष वर्तते हृदि पद्मज॥
एवं करोतु देवेन्द्रः सर्वधर्मविवृद्धये ॥४१॥
पुलस्त्य उवाच ॥
ततः संछादयामास वज्रेण त्रिदशाधिपः॥
तल्लिंगं सर्वमर्त्यानां यथाऽदृश्यं व्यजायत ॥४२॥
अद्यापि वज्रसंस्पर्शात्तत्सान्निध्यं गतो नरः॥
आजन्ममरणात्पापान्मुच्यते नात्र संशयः ॥४३॥
माहात्म्यं कीर्तितं यस्मात्तल्लिंगे शंकरेण तु॥
वस्त्रेणाच्छादितं चैव शक्रेणैव धरातले ॥४४॥
ततःप्रभृति लिंगस्य मर्त्त्ये पूजा व्यजायत॥
पुरासीच्छंकरः पूज्यो यथान्ये त्रिदशालयाः ॥४५॥
एवमेतत्पुरावृत्तमर्बुदे पर्वतोत्तमे॥
लिंगस्य पतनात्पूजां यन्मां त्वं परि पृच्छसि ॥४६॥
फाल्गुनान्तचतुर्द्दश्यां नैवेद्यं नूतनैर्यवैः॥
यो ददात्यचलेशाय स भूयो नेह जायते ॥४७॥
ब्राह्मणान्भोजयेद्यस्तु भक्त्या तस्मिन्नवैर्यवैः॥
यवसंख्याप्रमाणानि युगानि दिवि मोदते ॥४८॥
तत्र दानं प्रशंसन्ति सक्तूनां मुनिसत्तमाः॥
नूतनानां महाराज यतः प्रोक्तं पुरारिणा ॥४९॥
किं दानैर्विविधैर्दत्तैः किं यज्ञैश्च सुविस्तरैः॥
किं तीर्थैर्विविधैहोमैस्तपोभिः किं च कष्टदैः ॥५०॥
फाल्गुनान्तचतुर्द्दश्यां सुमहेश्वरसन्निधौ॥
धर्माण्येतानि सर्वाणि कलां नार्हंति षोडशीम् ॥५१॥
शृणु राजन्पुरा वृत्तं तत्राश्चर्यं यदुत्तमम्॥
कश्चित्पापसमाचारः कुष्ठी क्षामतनुर्नरः ॥५२॥
भिक्षार्थमागतस्तत्र लोकैरन्यैः समन्वितः॥
तेन भिक्षार्जितं तत्र सक्तूनां कुडवं नृप ॥५३॥
ततो रोग परिक्लेशाद्भोजनं न चकार सः॥
दाघार्दितो जले तस्मिन्स्नातो भक्तिविवर्जितः॥
सक्तून्कृत्वोपधाने तान्स च सुप्तो निशागमे ॥५४॥
ततो निद्राभिभूतस्य सारमेयो जहार च॥
भक्षयामास युक्तोऽन्यैः सारमेयैर्बुभुक्षितः ॥५५॥
अथासौ विस्मयाद्राजन्पंचत्वं समुपस्थितः॥
ततो जातिस्मरो जातो विदर्भाधिपतेर्गृहे ॥५६॥
भीमोनाम नृपश्रेष्ठ दमयन्तीपिता हि यः॥
तं प्रभावं हि विज्ञाय सक्तूनां तत्र पर्वते ॥५७॥
फाल्गुनांतचतुर्दश्यां वर्षे वर्षे जगाम सः॥
कृत्वा चैवोपवासं तु रात्रौ जागरणं तथा ॥५८॥
अचलेश्वरसान्निध्ये ददौ सक्तूंस्ततो बहून्॥
सहिरण्यान्द्विजेन्द्राणां पशुपक्षिमृगेषु च ॥५९॥
अथ ते मुनयः सर्वे गालवप्रमुखा नृप॥
पप्रच्छुः कौतुकाविष्टाः सक्तुदानकृते नृपम् ॥६०॥
॥ ऋषय ऊचुः ॥
हस्त्वश्वरथदानानां शक्तिरस्ति तवाद्भुता॥
कस्मात्सक्तून्प्रमुक्त्वा त्वं नान्यद्दातुमिहेच्छसि ॥६१॥
॥ पुलस्त्य उवाच ॥
अथाऽसौ कथयामास पूर्वमेतत्समुद्भवम्॥
सक्तुदानस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥६२॥
पूर्वं भक्त्या विहीनस्य शुना वै सक्तवो हृताः॥
तत्प्रभावादियं प्राप्तिर्मम जाता द्विजोत्तमाः ॥६३॥
सांप्रतं भक्तिद त्तानां किं स्याज्जानामि नो फलम्॥
एतस्मात्कारणाद्दानं सक्तूनां प्रकरोम्यहम्॥
तीर्थेऽस्मिन्भक्तिसंयुक्तः सत्येनात्मानमालभे ॥६४ ॥
॥ पुलस्त्य उवाच ॥
ततस्ते मुनयो हृष्टाः साधुसाध्विति चाब्रुवन्॥
चक्रुश्चैवात्मशक्त्या ते सक्तूनां दानमुत्तमम् ॥६५॥
एष प्रभावो राजर्षे सक्तुदानस्य कीर्त्तितः॥
महेश्वरस्य माहात्म्यं सत्यं चापि प्रकीर्त्तितम् ॥६६॥
यश्चैतच्छृणुयाद्भक्त्या कथ्यमानं द्विजाननात्॥
अहोरात्र कृतात्पापान्मुच्यते नात्र संशयः ॥६७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे शिवलिंग महेश्वरमाहात्म्यवर्णनंपुरःसर सक्तुदानमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP