संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ५०

अर्बुदखण्डम् - अध्याय ५०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
कोटितीर्थं ततो गच्छेत्सर्वपातकनाशनम्॥
तीर्थानां यत्र संजाता कोटिः पार्थिव हेलया ॥१॥
यदा स्यात्कलिकालस्तु रौद्रो राजन्महीतले॥
म्लेच्छभूता जनाः सर्वे तत्स्पर्शात्तीर्थविप्लवः ॥२॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां भूमिवासिनाम्॥
तेषां कोटिस्ततोऽवात्सीत्पर्वतेऽर्बुदसंज्ञके ॥३॥
पुष्करे च तथा कोटिः कुरुक्षेत्रे च पार्थिव॥
वाराणस्यामर्धकोटिः स्तुता देवैः सवासवैः॥
राजन्नेतानि रक्षंति सर्वे देवाः सवासवाः ॥४॥
यदा यदा भयार्त्तानि म्लेच्छस्पर्शात्समंततः॥
स्थानेष्वेतेषु तिष्ठंति तीर्थान्युक्तेषु सत्वरम् ॥५॥
कोटितीर्थानि त्रीण्येव तत्र जातानि भूतले॥
अर्ध कोटिसमेतानि सर्वपापहराणि च ॥६॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्॥
कृष्णपक्षे त्रयोदश्यां नभस्ये च विशेषतः ॥७॥
तत्र स्नानादिकं सर्वं जपहोमादिकं च यत्॥
सर्वं कोटिगुणं राजंस्तत्प्रसादादसंशयम् ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कोटितीर्थप्रभाववर्णनंनाम पंचाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP