अर्बुदखण्डम् - अध्याय १५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततः शुक्रेश्वरं गच्छेच्छुक्रेण स्थापितं पुरा॥
यं दृष्ट्वा मानवः सद्यः सर्वपापैः प्रमुच्यते ॥१॥
दृष्ट्वा दैत्यान्पुरा देवैर्निर्जितान्नृपसत्तम॥
चिन्तयामास मेधावी भार्गवस्तान्प्रति द्विजः ॥२॥
कथं दैत्याः सुराञ्जित्वा प्राप्स्यंति च महायशः॥
आराध्य शंकरं सिद्धिं गच्छामि मनसेप्सितम् ॥३॥
एवं स निश्चयं कृत्वा गतोऽर्बुदमथाचलम्॥
भूमे विवरमासाद्य तपस्तेपे सुदारुणम् ॥४॥
शिवलिंगं प्रतिष्ठाप्य धूपगंधानुलेपनैः॥
अनिशं पूजयामास श्रद्धया परयान्वितः ॥५॥
ततो वर्षसहस्रांते तुतोष भगवाञ्छिवः॥
तस्य संदर्शनं दत्त्वा वाक्यमेतदुवाच ह ॥६॥
॥ श्रीमहादेव उवाच ॥
परितुष्टोऽस्मि ते विप्र भक्त्या तव द्विजोत्तम॥
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम् ॥७॥
॥ शुक्र उवाच ॥
यदि तुष्टो महादेव विद्यां देहि महेश्वर॥
यया जीवंति संप्राप्ता मृत्युं संख्येपि जंतवः ॥८॥
॥ पुलस्त्य उवाच ॥
प्रदाय वै शिवस्तस्मै तां विद्यां नृपसत्तम॥
अब्रवीच्च पुनः शुक्रं वरमन्यं वृणीष्व मे ॥९॥
॥ शुक्र उवाच ॥
एतत्कार्तिकमासस्य शुक्लाष्टम्यां तु यः स्पृशेत्॥
ततो लिंगं पूजयेच्च यः पुमाञ्छ्रद्धयान्वितः॥१०॥
अल्पमृत्युभयं तस्य मा भूत्तव प्रसादतः॥
इष्टान्कामानवाप्नोतु इहलोके परत्र च ॥११॥
॥ पुलस्त्य उवाच ॥
एवमस्त्विति स प्रोच्य तत्रैवांतरधीयत॥
शुक्रोपि दानवान्संख्ये हतान्देवैरनेकशः॥१२॥
विद्यायाश्च प्रभावेन जीवयामास तान्मुनिः॥
तस्याग्रेऽस्मिन्महाकुण्डं निर्मलं पापनाशनम् ॥१३॥
तत्र स्नातो नरः सम्यक्पातकैश्च प्रमुच्यते॥
तत्र श्राद्धेन राजेंद्र तुष्टा यांति पितामहाः ॥१४॥
तर्पिताः सलिलेनैव किं पुनः पिंडदानतः॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥१५॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे शुक्रेश्वरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : January 21, 2025

TOP