संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्| अध्याय ९ प्रभासखण्डे अर्बुदखण्डम् विषयानुक्रमणिका अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अर्बुदखण्डम् - अध्याय ९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९ Translation - भाषांतर ॥ पुलस्त्य उवाच ॥ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम्॥केदारमिति विख्यातं सर्वपापहरं नृणाम् ॥१॥यत्र मन्दाकिनी पुण्या सरस्वत्या समागता॥तत्र स्नातो नरो राजन्मुच्यते सर्वकिल्बिषैः ॥२॥शृणु राजन्यथावृत्तमितिहास पुरातनम्॥ऋषिभिर्बहुधा गीतमर्बुदे पर्वतोत्तमे ॥३॥अजपालो नृपश्रेष्ठः सूर्यवंशसमुद्भवः॥सप्तद्वीपवतीं पृथ्वीं स पाति नात्र संशयः ॥४॥न हस्तिनो न पादाता न चाश्वास्तस्य भूपतेः॥न रथाश्च महाराज न कोशाश्च तथाविधाः ॥५॥न गृह्णाति करं राजन्प्रजाभ्योथाधिकं नृप॥राज्यं स ईदृशं चक्रे सर्वलोकहिते रतः॥६॥जातापराधो भूपृष्ठे जायते चेत्कथंचन॥तं गत्वा निग्रहं तस्य चक्रुः शस्त्राणि तत्क्षणात् ॥७॥एवमस्य नरेन्द्रस्य वर्त्तमानस्य भूतले॥सुखेन रमते लोको राज्ये निहतकंटके ॥८॥कामं वर्षति पर्जन्यः सस्यानि रसवंति च॥गावः प्रभूतदुग्धाश्च विद्यमाने नराधिपे ॥९॥केनचित्त्वथ कालेन वसिष्ठो भगवान्मुनिः॥तीर्थयात्राप्रसंगेन तस्य गेहमुपागतः ॥१०॥तं दृष्ट्वा पूजयामास शास्त्रदृष्टेन वर्त्मना॥प्रत्युत्थानाभिवादाभ्यामर्घ्यपाद्यादिभिस्तथा ॥११॥एवं संपूजितस्तेन भक्त्या परमया नृप॥सुखोपविष्टो विश्रांतो वसिष्ठो मुनिसत्तमः॥राजर्षीणां कथाश्चक्रे देवर्षीणां तथैव च ॥ ॥१२॥ततः कथावसाने तु कस्मिंश्चिन्नृपसत्तम॥पप्रच्छ विनयोपेतस्तं मुनिं शंसितव्रतम् ॥१३॥॥ अजपाल उवाच ॥अतीतानागतं विप्र वर्त्तमानं तथैव च॥त्वं वेत्सि सकलं ब्रह्मंस्तपश्चर्याप्रभावतः ॥१४॥कौतुकं हृदि मे जातं वर्त्तते मुनिपुंगव॥प्रसादः क्रियतां मह्यं कथयस्व प्रसादतः ॥१५॥॥ वसिष्ठ उवाच॥ब्रूहि पार्थिवशार्दूल यत्ते मनसि वर्त्तते॥कथयिष्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम् ॥१६॥॥ राजोवाच ॥केन कर्मविपाकेन ममैतद्राज्यमुत्तमम्॥निष्कण्टकं सदा क्षेमं सर्वकामसमन्वितम् ॥१७॥न दीनो न च दुःखार्त्तो व्याधिग्रस्तो न कोऽपि च॥विद्यते मम राज्ये च न दरिद्रो महामुने ॥१८॥नारीयं मम साध्वी च प्राणेभ्योऽपि गरीयसी॥मच्चित्ता मद्गतप्राणा नित्यं मम हिते रता॥अनया चिंतितं ब्रह्मन्सर्वं विस्तरतो वद ॥१९॥किं दानस्य प्रभावेन व्रतयागस्य वा मुने॥तपसो वा मुनिश्रेष्ठ व्रतस्य नियमस्य च ॥२०॥जन्मान्तरकृतं पुण्यं परं कौतूहलं हि मे॥कथयस्व प्रसादेन विस्तरेण द्विजोत्तम ॥२१ ॥॥ वसिष्ठ उवाच ॥शृणु सर्वं महीपाल विस्तरेण च कथ्यते॥न च मन्युस्त्वया कार्यो न च व्रीडा महामते ॥२२॥अन्यदेहांतरे राजञ्छूद्रजातिसमुद्भवः॥शूद्रजातिरियं साध्वी तव पत्नी ह्यभूत्पुरा ॥२३॥केनचित्त्वथ कालेन दुर्भिक्षे समुपस्थिते॥अन्नक्षयान्महाराज सर्व लोकः क्षुधार्दितः ॥२४॥ततस्त्वं भार्यया सार्द्धमन्यदेशांतरे गतः॥समारुह्य च कृच्छ्रेण कस्मिंश्चिद्गिरिनिर्झरे ॥२५॥त्वया दृष्टं मनोहारि शुभं पंकजकाननम्॥तत्र स्नात्वा पयः पीत्वा पितृदेवाः प्रतर्पिताः ॥२६॥मनसा चिंतितं ह्येतत्पद्मान्यादाय करोम्यहम्॥विक्रयं येन चाहारो भवेन्मम च सर्वथा ॥२७॥ततः पद्मानि भूरीणि गृहीत्वा भार्यया सह॥गतो यत्र जनो भूरि गतः पार्थिवसत्तम ॥२८॥न केऽपि प्रति गृह्णंति लोका दुर्भिक्षपीडिताः॥भ्रमितस्त्वं च सर्वत्र श्रांतो वैराग्यमागतः ॥२९॥ततो दिनावसाने तु गुहामेकां समाश्रितः॥भूमौ पद्मानि निक्षिप्य क्षुधाविष्टः प्रसुप्तवान्॥ ३०॥एतस्मिन्नेव काले तु कर्णयोस्ते समागतः॥पठतां द्विजमुख्यानां ध्वनिर्वेदपुराणयोः ॥३१॥तं श्रुत्वा सहसोत्थाय ज्ञात्वा जागरणं ततः॥पद्मान्यादाय तत्रैव सभार्यः शिवमंदिरे ॥३२॥तत्र नागवती वेश्या शिवरात्रिपरायणा॥केदारे परया भक्त्या करोति निशि जागरम् ॥३३॥तस्याः पार्श्वे स्थिता दासी त्वया पृष्टा नरेश्वर॥देवस्य पुरतो बाले किमर्थं रात्रिजागरम् ॥३४॥तयोक्तं शिवरात्र्यां वै वेश्येयं वरवर्णिनी॥कुरुते नागवती नाम रात्रौ भक्त्या च जागरम् ॥३५॥यः श्रद्धाभक्तिसंयुक्तः कुरुते रात्रिजागरम्॥पूजयित्वा महादेवं स याति परमं पदम्॥ ३६॥कृत्वोपवासं पद्मैर्य्यः पूजयेत्त्र्यंबकं नरः॥स याति रुद्रसालोक्यं सेव्यमानो ऽप्सरोगणैः ॥३७॥सकामो लभते कामान्देवैरपि सुदुर्ल्लभान्॥स त्वं पद्मानि मे देहि कांचनं च पलत्रयम्॥एतेषां मूल्यमादाय प्राणाधारं समाचर ॥३८॥ततस्त्वं भार्यया चोक्तो गृह्यमाणे च कांचने॥न ग्राह्यं मूल्यमेतेषां त्वया नाथ कथंचन ॥३९॥उपवासो बलाज्जातो ह्यन्नाभावाद्वयोरपि॥पद्मैरेभिर्हरः पूज्यो द्वाभ्यामेवाद्य निश्चयम् ॥४०॥इदं त्वयाऽद्य कर्त्तव्यं त्याज्यमस्यास्तु कांचनम्॥भार्याया वचनं श्रुत्वा तैः पद्मैः पूजितः शिवः॥४१॥श्रद्धया च सभार्येण जागरं च शिवाग्रतः॥कृतं त्वया महाराज भार्यया शिवमंदिरे॥४२॥पुराणश्रवणं जातं तत्र पार्थिवसत्तम॥शिवरात्र्यां महाराज पद्मैस्तु पूजितः शिवः॥४३॥केदारस्याग्रतो भक्त्या रात्रौ जागरणं तथा॥कृतं त्वया महाराज एकाग्रेण च चेतसा॥४४॥ततःप्रभाते संजाते भिक्षां कृत्वा च पारणा॥कृता त्वया महाराज शिवाग्रे सह भार्यया॥४४॥ततः कालांतरेणैव कालधर्मं गतो भवान्॥भार्येयं च त्वया सार्धं संप्रविष्टा हुताशनम्॥४६॥ततो जाता महाराज दशार्णाधिपतेः सुता॥वैदेहे नगरे राजा जातस्त्वं पार्थिवोत्तम ॥४७॥अजपाल इति ख्यातो नाम्ना च धरणीतले॥सर्वेषां प्राणिनां त्वं च वल्लभो नृपसत्तम ॥४८॥एतस्मात्कारणाज्जाता भार्येयं प्राणसंमता॥भूयोऽपि तव संजाता यन्मां त्वं परिपृच्छसि॥४९॥तस्य देवस्य माहात्म्यात्केदारस्य महीपतेः॥राज्यं ते सुखदं नृणां तथा निहतकण्टकम् ॥५०॥प्राप्तं त्वया महाराज केदारस्य प्रसादतः॥येन त्वं सैन्यहीनोऽपि पृथिवीं परिरक्षसि ॥५१॥॥ पुलस्त्य उवाच ॥तस्य तद्वचनं श्रुत्वा स राजा विस्मयान्वितः॥गमनाय मतिं चक्रे केदारं प्रति भूमिपः ॥५२॥स गत्वा पर्वते रम्ये पूजयित्वा च तं विभुम्॥शिवरात्रिपरः सम्यग्वर्षेवर्षे बभूव ह ॥५३॥पुत्रं राज्ये च संस्थाप्य ततोऽर्बुदमथागमत्॥प्राप्तो मुक्तिं ततो भूयः सभार्यस्तत्प्रभावतः ॥५४॥एतत्ते सर्वमाख्यातं केदारस्य महीपते॥माहात्म्यं शुभदं नृणां सर्व पापप्रणाशनम् ॥५५॥माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी॥शिवरात्रिरिति ख्याता भूतलेऽस्मिन्महामते ॥५६॥तस्यां तु सर्वथा राजन्यात्रां तस्य समाचरेत्॥केदारस्य महाराज प्रकुर्यात्पूजनं नृप ॥५७॥माघकृष्णचतुर्दश्यां यः कुर्यात्तत्र जागरम्॥कृतोपवासो नृपते शिवलोकं स गच्छति ॥५८॥स्नात्वा गंगासरस्वत्योः संगमे सर्वकामदे॥ये प्रपश्यन्ति केदारं ते यास्यंति परां गतिम् ॥५९॥कुण्डे केदारसंज्ञे यः प्रपिबेद्विमलं जलम्॥सप्तपूर्वान्सप्त परान्पूर्वजांस्तारयेत्तु सः ॥६०॥यश्चैतच्छृणुयान्नित्यं भक्त्या परमया नृप॥सोऽपि पापैर्विमुच्येत केदारस्य प्रभावतः ॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे केदारमाहात्म्यवर्णनं नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : January 17, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP