संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ६२

अर्बुदखण्डम् - अध्याय ६२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्यस्य उवाच ॥
ततः कटेश्वरं गच्छेल्लिंगं गौरीविनिर्मितम्॥
तथा गंगेश्वरं चान्यद्गङ्गया निर्मितं स्वयम् ॥१॥
पुरा समभवद्युद्धमुमायाः सह गंगया॥
सौभाग्यं प्रति राजेन्द्र ततो गौरीत्यभाषत ॥२॥
यया संपूजितः शंभुः शीघ्रं यास्यति दर्शनम्॥
सा सौभाग्यवती नूनभावयोः संभविष्यति ॥३॥
एवमुक्ता ततो गंगा सत्वरैत्यात्र पर्वते॥
लिंगमन्वेषयामास चिरकालादवाप सा ॥४॥
दृष्ट्वा गौर्याथ कटकं पर्वतस्य मनोहरम्॥
लिंगाकारं महाराज पूजयामास सा तदा ॥५॥
सम्यक्छ्रद्धासमोपेता ततस्तुष्टो महेश्वरः॥
प्रददौ दर्शनं तस्या वरदोऽस्मीति चाब्रवीत् ॥६॥
॥ गौर्युवाच ॥
सापत्न्यजेर्ष्यया देव मया लिंगं प्रकल्पितम्॥
तस्मात्कटेश्वराख्या च लोके चास्य भविष्यति ॥७॥
या नारी पतिना मुक्ता सपत्नीदुःखदुःखिता॥
अस्य संदर्शनादेव सा भविष्यति विज्वरा॥
सुतसौभाग्यसंपन्ना भर्तृप्राणसमा तथा ॥८॥
गंगयाराधितो देव एवमेव वरं ददौ॥
तस्माल्लिंगद्वयं तच्च द्रष्टव्यं मनुजाधिप ॥९॥
विशेषतश्च नारीभिः सपत्नीदोषहानिदम्॥
सुखसौभाग्यदं नित्यं तथाऽभीष्टप्रदं नृणाम् ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कटेश्वरगंगेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP