अर्बुदखण्डम् - अध्याय ५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
अर्बुदस्य च माहात्म्यं विस्तरेण वदस्व नः॥
कौतुकं सूत नो जातं कथयस्व यथा शुभम् ॥१॥
॥ सूत उवाच ॥
पुरासीच्च ऋषिश्रेष्ठः पुलस्त्यो भगवान्मुनिः॥
ययातेश्च गृहे यातस्तं नत्वा चाब्रवीन्नृपः॥ २ ॥
। ययातिरुवाच ॥
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्यजीवितम्॥
कथयस्व प्रसादेन कथामर्बुदसंभवाम् ॥३॥
अर्बुदाख्यो नगो नाम विख्यातो यो धरातले॥
तस्य यात्राक्रमं ब्रूहि तत्फलं द्विजसत्तम ॥४॥
सर्वं विस्तरतो ब्रूहि तीर्थयात्रापरायण॥
तस्माद्वद मुनिश्रेष्ठ येन यात्रां करोम्यहम्॥५॥
॥ पुलस्त्य उवाच ॥
बहुधर्ममयो राजन्नर्बुदः पर्वतोत्तमः॥
अशक्तो विस्तराद्वक्तुमपि वर्षशतैरपि ॥६॥
संक्षेपादेव वक्ष्यामि तीर्थमुख्यानि ते तथा॥
नागतीर्थं तु तत्राद्यं सर्वकामप्रदं नृणाम् ॥७॥
नारीणां च विशेषेण पुत्रसौभाग्यदायकम्॥
शृणु राजन्पुरावृत्तं यतोऽत्याश्चर्यमुत्तमम्॥ ८॥
गौतमी ब्राह्मणी नाम्ना सती साध्वी पतिव्रता॥
बालवैधव्यसंप्राप्ता तीर्थयात्रापरायणा ॥९॥
अर्बुदं सा च संप्राप्ता नागतीर्थं विवेश ह॥
तस्मिञ्जले निमग्ना सा स्नातुमभ्याययौ पुरा ॥१०॥
नायका पुत्रसंयुक्ता तत्तीर्थं समुपागता॥
शुश्रूषां सा तस्तस्याश्चक्रे नानाविधां नृप ॥११॥
सर्वोपकरणैर्दर्भैः सुमनोभिः पृथग्विधैः॥
अथ सा चिंतयामास गौतमी पुत्रदुःखिता ॥१२॥
धन्योऽयं तनयो ह्यस्याः शुश्रूषां कुरुते सदा॥
पुत्रयुक्ता त्वियं धन्या धिगहं पुत्रवर्जिता ॥१३॥
अहं भर्त्रा वियुक्ता च पुत्रहीना सुदुःखिता॥
अथ सा निर्गता तस्मात्सलिलान्नृपसत्तम॥१४॥
विनाऽपि भर्तृसंयोगात्सद्यो गर्भवती ह्यभूत्॥
सा गर्भलक्षणैर्युक्ता सुजनव्रीडयाऽन्विता ॥१५॥
चकार मरणे बुद्धिं ज्वालयामास पावकम् ॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥१६॥
॥ वागुवाच ॥
नो त्वं गौतमि चित्याग्नौ प्रवेशं कर्तुमर्हसि॥
दोषो नास्ति तवात्रार्थे तीर्थस्यास्य प्रभावतः ॥१७॥
यो यद्वांछति चित्ते च जलमध्ये स्थितो नरः॥
चिन्तितं च तदाप्नोति नारी वा नात्र संशयः ॥१८॥
त्वया तस्याः सुतं दृष्ट्वा पुत्रवांछा कृता हृदि॥
तव गर्भगतो नूनं पुत्रः पुत्रि भविष्यति ॥१९॥
तस्माद्विरम भद्रं ते निर्दोषासि पतिव्रते॥
विरराम ततः साध्वी गौतमी मरणान्नृप ॥२०॥
श्रुत्वाऽऽकाशगतां वाणीं देवदूतेन भाषिताम्॥
दृष्ट्वा पतिं विना गर्भं वाक्यमेत दुवाच ह ॥२१॥
अहो तीर्थप्रभावोऽयमपूर्वः प्रतिभाति मे॥
यत्र संजायते गर्भः स्त्रीणां शुक्ररजोविना ॥२२॥
नाहं कुत्रापि यास्यामि मुक्त्वेदं तीर्थमुत्तमम्॥
एवमुक्त्वा ततः साध्वी तत्रैव न्यवसत्सदा॥२३॥
पुत्रं वै जनयामास सर्वलक्षणलक्षितम्॥
तत्र पार्थिवशार्दूल कृष्णपक्षे ऽश्विनस्य च॥२४॥
यः पुनः कुरुते श्राद्धं तस्य वंशो न नश्यति॥
न प्रेतो जायते राजन्वंशे तस्य कदाचन॥२५॥
यः पुमान्कामरहितः स्नानं तत्र समाचरेत्॥
श्राद्धं च पार्थिवश्रेष्ठ तस्य लोकाः सनातनाः॥२६॥
या स्त्री पुष्पफलान्येव तीर्थे चास्मिन्विसर्जयेत्॥
सा स्यात्पुत्रवती धन्या सौभाग्यं च प्रपद्यते ॥२७॥
निष्कामा स्वर्गमाप्नोति दुष्प्राप्यं त्रिदशैरपि॥
तस्मात्सर्वप्रयत्नेन यात्रां तस्य समाचरेत् ॥२८॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागतीर्थमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥५ ॥
N/A
References : N/A
Last Updated : January 17, 2025

TOP