संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ३

अर्बुदखण्डम् - अध्याय ३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
श्रुत्वा हिमाचलो वाक्यं वसिष्ठस्य महात्मनः॥
चिन्तयामास तत्कार्यं विवरस्य प्रपूरणे॥१॥
चिरं विचार्य तमृषिमिदमाह नगोत्तमः॥
क उपायो नगानां वै तत्र गंतुं वदस्व मे॥२॥
पक्षच्छेदस्तु शक्रेण सर्वेषां च पुरा कृतः॥
तस्मादस्य मुनिश्रेष्ठ कार्यस्य पश्य निश्चयम्॥३॥
॥ वसिष्ठ उवाच ॥
अस्त्युपायो नगानां तु तत्र नेतुं महानग॥
तवायं तनयस्तत्र विख्यातो नंदिवर्द्धनः॥४॥
तस्यार्बुद इति ख्पातो वयस्यः परमं प्रियः॥
नागः प्राणभृतां श्रेष्ठः खेचरोऽपि च वीर्यवान्॥५॥
स वा ऊर्ध्वगतिः क्षिप्रं क्षणान्नेष्यत्यसंशयः॥
लीलया सर्वकृत्येषु तं विदित्वाऽहमागतः॥६॥
आदेशो दीयतामस्य दुःखं कर्तुं च नार्हसि॥
अवश्यं यदि भक्तोऽसि तत्र प्रेषय सत्वरम्॥७॥
॥सूत उवाच॥
वसिष्ठस्य वचः श्रुत्वा हिमवान्पुत्रवत्सलः॥
दुःखेन महताऽऽविष्टश्चिंतयामास भूधरः॥८॥
मैनाकस्तनयोऽस्माकं प्रविष्टः सागरे भयात्॥
ज्येष्ठं तु सर्वथा चाथ वसिष्ठो नेतुमागतः॥
किं कृत्यमधुनाऽस्माकं कथं श्रेयो भविष्यति ॥९॥
इतः शापभयं तीव्रमितो दुःखं च पुत्रजम्॥
वरं पुत्रवियोगोऽस्तु न शापो द्विजसंभवः ॥१०॥
स एवं निश्चयं कृत्वा नंदिवर्धनमुक्तवान्॥
गच्छ त्वं पुत्र मे वाक्याद्वसिष्ठस्याश्रमं प्रति ॥११॥
तत्रास्ति विवरो रौद्रस्तं प्रपूरय सत्वरम्॥
अर्बुदं नागमादाय मित्रं प्राणभृतां वरम् ॥१२॥
॥ नंदिवर्द्धन उवाच ॥
पापीयान्स विभो देशः फलमूलैर्विवर्जितः॥
पालाशैः खादिरैराढ्यो धवैः शाल्मलिभिस्तथा ॥१३॥
सुनिष्ठुरैर्नृपशुभिर्भिल्लैश्च विविधैरपि॥
नद्यो वहंति नो तत्र दुष्टा लोकाश्च वासिनः॥
नार्होऽहं पर्वतश्रेष्ठ तत्र गंतुं कथंचन ॥१४॥
अथोवाच वसिष्ठस्तं संत्रस्तं नंदिवर्द्धनम्॥
मा भीः कार्या त्वया तत्र देशे दौष्ट्यात्कथंचन ॥१५॥
तव मूर्ध्नि सदा वासो मम तत्र भविष्यति॥
तीर्थानि सरितो देवाः पुण्यान्यायतनानि च ॥१६॥
वृक्षाश्च विविधाकाराः पत्रपुष्पफलान्विताः॥
सदा तत्र भविष्यंति मृगाश्च विहगाः शुभाः ॥१७॥
अहमेवानयिष्यामि तवार्थे च महेश्वरम्॥
तदा स्थास्यंति वै तत्र सर्वे देवाः सवासवाः ॥ १८॥
॥ सूत उवाच ॥
वसिष्ठस्य वचः श्रुत्व संहृष्टो नंदिवर्द्धनः॥
अर्बुदं नागमासाद्य वाक्यमेतदुवाच ह ॥१९॥
तत्र यावोऽद्य भद्रं ते वयस्य विनयान्वित॥
एतत्कार्यमहं मन्ये सांप्रतं द्विजसंभवम् ॥२०॥
॥ अर्बुद उवाच ॥
अहं तत्रागमिष्यामि स्नेहात्ते पर्वतात्मज॥
तत्रैव च वसिष्यामि त्वया सार्द्धमसंशयम्॥ २१॥
किं त्वहं प्रणयाद्भ्रातर्वक्ष्यामि यद्वचः शृषु॥
प्रणयान्नान्यथा कार्यं यद्यहं तव संमतः ॥२२॥
मन्नाम्ना ख्यातिमायातु नान्यत्किंचिद्वृणोम्यहम्॥
ततः सोऽपि प्रतिज्ञाय आरूढस्तस्य चोपरि॥
प्रणम्य पितरौ चैव प्रतस्थे मुनिना सह ॥२३॥
दिव्यैर्वृक्षैः शुभैः पूर्णैर्नदीनिर्झरसंकुलैः॥
मधुरैर्विहगैर्युक्तो मृगैः सौम्यैः समन्वितः ॥२४॥
मुक्तोऽर्बुदेन तत्रैव विवरे मुनिवाक्यतः॥
समस्तस्तत्रानासाग्रं गतः पर्वतसत्तमः ॥२५॥
विमुक्तो विवरे तस्मिन्नर्बुदेन महात्मना॥
परिपूर्णे महारौद्रे संतुष्टो मुनिपुंगवः ॥२६॥
ब्रवीच्चार्बुदं नागं वरं वरय सुव्रत॥
परितुष्टोऽस्मि ते भद्र कर्मणानेन पन्नग ॥२७॥
॥ अर्बुद उवाच ॥
एष एव वरोऽस्माकं यत्त्वं तुष्टो महामुने॥
अवश्यं यदि दातव्यं तच्छृणुष्व द्विजोत्तम ॥२८॥
यच्चैतच्छिखरे ह्यस्मिन्निर्झरं निर्मलोदकम्॥
नागतीर्थमिति ख्यातिं भूतले यातु सर्वतः ॥२९॥
अत्रैवाहं वसिष्यामि मित्रस्नेहात्सदा मुने॥
तत्र स्नात्वा दिवं यातु मानवस्त्वत्प्रसादतः ॥३०॥
अपि वंध्या च या नारी स्नानमात्रं समाचरेत्॥
सा स्यात्पुत्रवती विप्र सुखसौभाग्यसंयुता ॥३१॥
॥ वसिष्ठ उवाच ॥
या वंध्यास्मिञ्जले पूर्णे स्नानमात्रं करिष्यति॥
सापि पुत्रमवाप्नोति सर्वलक्षणलक्षितम् ॥३२॥
नभसः शुक्लपंचम्यां फलैः पूजां करोति च॥
अपि वर्षशता नारी सा भविष्यति पुत्रिणी ॥३३॥
येऽत्र स्नानं करिष्यंति ह्यस्मिंस्तीर्थे च भक्तितः॥
यास्यंति ते परं स्थानं जरामरणवर्जितम् ॥३४॥
श्राद्धं चात्र करिष्यंति पंचम्यां ये समाहिताः॥
मासे नभसि तीर्थस्य फलं तेषां भविष्यति ॥३५॥
॥ सूत उवाच ॥
एवं दत्त्वा वरं तस्य वसिष्ठो भगवान्मुनिः॥
नंदिवर्द्धनमभ्येत्य वाक्यमेतदुवाच ह ॥३६॥
वरं च व्रियतां वत्स परितुष्टोऽस्मि तेऽनघ॥
विनयात्सौहृदात्सर्वं दास्यामि यत्सुदुर्ल्लभम्॥ ३७॥
॥ नंदिवर्द्धन उवाच ॥
तवास्तु वचनं सत्यं पूर्वोक्तं मुनिसत्तम॥
सांनिध्यं जायतामत्र अवश्यं तव सर्वदा ॥३८॥
यथाहमर्बुदेत्येवं ख्यातिं गच्छामि भूतले॥
प्रसादाच्चैव ते भूयादेतन्मे मनसि स्थितम् ॥३९॥
॥ सूत उवाच ॥
एवमस्त्विति तं प्रोच्य वसिष्ठो भगवान्मुनिः॥
चक्रे स्वमाश्रमं तत्र तस्य वाक्येन नोदितः ॥४०॥
पनसैश्चंपकैराम्रैः प्रियंगुबिल्वदाडिमैः॥
नानापक्षिसमायुक्तो देवगन्धर्वसेवितः ॥४१॥
तस्थौ तत्र मुनिश्रेष्ठो ह्यरुंधत्या समन्वितः॥
गोमतीमानयामास तपसा मुनिसत्तमः ॥४२॥
यस्यां स्नात्वा दिवं यांति अतिपापकृतो नराः॥
माघमासे विशेषेण मकरस्थे दिवाकरे ॥४३॥
येत्र स्नानं करिष्यंति ते यास्यंति परां गतिम्॥४४॥
माघमासे विशेषेण तिलदानं करोति यः॥
तिलसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः ॥४५॥
बहुना किमिहोक्तेन स्तानमात्रं समाचरेत् ॥४६॥
वसिष्ठस्य मुखं दृष्ट्वा पुनर्जन्म न विद्यते॥
अरुंधती पूजनीया पूजनीया विशेषतः ॥४७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाज्ञया नन्दिवर्धनपर्वतेन विवरपूरणवर्णनंनाम तृतीयोऽध्यायः॥३॥

N/A

References : N/A
Last Updated : January 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP