अर्बुदखण्डम् - अध्याय ३८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
कुंडं तु शिवलिंगाख्यं ततो गच्छेन्महीपते॥
यत्र सा जाह्नवी गुप्ता तिष्ठते भूपसत्तम ॥१॥
तस्यां स्नातो नरः सम्यक्सर्वतीर्थफलं लभेत्॥
मुच्यते पातकात्कृत्स्नादाजन्ममरणांतिकात् ॥२॥
॥ ययाति रुवाच ॥
किमर्थं तत्र सा गुप्ता जाह्नवी तिष्ठते विभो॥
कस्मिन्काले समायाता परं कौतूहलं हि मे ॥३॥
॥ पुलस्त्य उवाच ॥
यदा प्रसादितो देवैर्भगवान्वृषभध्वजः॥
अर्बुदेऽस्मिन्सदा स्थेयमचलेन त्वया विभो ॥४॥
तत्र संस्थापिते लिंगे स्वयं देवेन शंभुना॥
यत्पातितं पुरा लिंगं वालखिल्यैर्महर्षिभिः ॥५॥
अतिकोपसमायुक्तैः कस्मिंश्चित्कारणांतरे॥
तदा देवेन प्रतिज्ञातं सर्वेषां त्रिदिवौकसाम् ॥६॥
अचले तु मयात्रैव स्थातव्यं नात्र संशयः॥
ततः कालेन महता वसतस्तस्य तत्र च ॥७॥
अचलेश्वररूपस्य गंगा चित्ते व्यजायत॥
कथं नित्यं तया सार्द्धं भविष्यति समागमः ॥८॥
अथ जानाति नो गौरी मानिनी परमेश्वरी॥
तस्यैवं चिन्तयानस्य बहुशो नृपसत्तम ॥९॥
उपायं सुमहद्ध्यात्वा जाह्नवीसंगसंभवम्॥
तेनादिष्टा गणाः सर्वे नंदिभृङ्गिपुरःसराः ॥१०॥
अभिप्रायोऽस्ति मे कश्चिज्जलाश्रयव्रतोद्भवः॥
क्रियतामुत्तमं कुण्डमस्मिन्पर्वतरोधसि ॥११॥
तत्राहं जलमध्यस्थः स्थास्यामि जलतत्परः॥
तच्छ्रुत्वा त्वरितं चक्रुर्गणाः कुण्डमनेकशः ॥१२॥
स्वच्छोदकसमाकीर्णं सुतीर्थं सुसुखावहम्॥
ततो गौरीमनुज्ञाप्य जाह्नवीसंगलालसः ॥१३॥
व्रतव्याजेन देवेशो विवेश तदनन्तरम्॥
चिन्तयामास तत्रस्थो गंगां त्रैलोक्यपाविनीम् ॥१४॥
सा ध्याता तत्क्षणात्तत्र शिवेन सह संगता॥
एवं स भगवांस्तत्र जाह्नवीं भजते सदा ॥१५॥
व्रतव्याजेन राजेन्द्र न तु गौरी व्यजानत॥
कस्यचित्त्वथ कालस्य नारदो भगवान्मुनिः॥
कैवल्यज्ञानसंपन्नस्तत्रायातः परिभ्रमन् ॥१६॥
स तु दृष्ट्वा महादेवं जलस्थं व्रतधारिणम्॥
कामजैरिंगितैर्युक्तं तत्राऽसौ विस्मयान्वितः ॥१७॥
वक्त्रनेत्रविकारोऽयं किमस्य व्रतधारिणः॥
ईदृक्कामसमायुक्तस्ततो ध्यानस्थितो मुनिः ॥१८॥
अथाऽपश्यद्ध्यानदृष्ट्या गंगासक्तं महेश्वरम्॥
गौर्या भयेन सव्याजं ततो विस्मयमागतः ॥१९॥
तदा स कथयामास सर्वं हरविचेष्टितम् ॥२०॥
ततो देवी त्वरायुक्ता ययौ यत्र महेश्वरः॥
आताम्रनयना रोषाद्वेपमाना मुहुर्मुहुः ॥२१॥
तां दृष्ट्वा कोपसंयुक्तां समायातां महेश्वरीम्॥
उवाच जाह्नवी भीता ज्ञात्वा दिव्येन चक्षुषा ॥२२॥
आवयोः संगमे देवी नारदेन निवेदिता॥
सेयं रुष्टा समायाति कुरुष्व यदनन्तरम् ॥२३॥
॥ श्रीमहादेव उवाच ॥
कर्त्तव्यं जाह्नवि श्रेयः पुरो गत्वा नगात्मजाम्॥
अत्यर्थं मानिनी ह्येषा साम्ना च वशवर्तिनी ॥२४॥
तत्क्षणाज्जायते साध्वी तस्मात्सामपरा भव॥
नो चेच्छापं मया सार्धं तव दास्यत्यसंशयम् ॥२५॥
एवमुक्ता च रुद्रेण जाह्नवी नृपसत्तम॥
कुण्डान्निर्गत्य सा गंगा सम्मुखं प्रययौ तदा ॥२६॥
प्रत्युद्ययौ सलज्जा च कृतांजलिपुरःसरा॥
प्रणम्य शिरसा चेयं ततः प्राह स्वलंकृता ॥२७॥
पुराऽहं तव कांतेन निपतन्ती नभस्तलात्॥
धृता देवि तवा प्येतद्विदितं नृपतेः कृते ॥२८॥
भगीरथाभिधानस्य ततः स्नेहो व्यवर्धत॥
आवयोस्तव भीत्या च नाभूत्क्वापि समागमः ॥२९॥
अधुना तव वाक्येन जानेऽहं न सुरेश्वरि॥
समाहूताऽस्मि रुद्रेण किं वा स्वच्छन्दतः शुभे ॥३०॥
त्रैलोक्यस्य प्रभुरयं तन्निष्क्रम्य कथञ्चन॥
तस्मादत्रैव संप्राप्ता सत्यमेतन्मयोदितम् ॥३१॥
॥ पुलस्त्य उपाच ॥
तस्यास्तद्वचनं श्रुत्वा ततो देवी प्रहर्षिता॥
प्रोवाच मधुरं वाक्यं सत्यमेतत्त्व योदितम् ॥३२॥
तस्माद्वरय भद्रं ते वरं मत्तो यथेप्सितम्॥
मुक्त्वैकं पतिधर्म्मत्वे मम कांतं महेश्वरम् ॥३३॥
॥ गंगोवाच ॥
अपि दौर्भाग्ययुक्ताऽहं भार्या जाताऽस्मि शूलिनः॥
तस्मादेकं दिनं देहि क्रीडनार्थमनेन तु ॥३४॥
चैत्रशुक्लत्रयोदश्यामहोरात्रं सुरेश्वरि॥
शिवकुंडं तथास्त्वेतन्मया यस्मात्समावृतम् ॥३५॥
शिवगंगाभिधानं च तस्मात्कुण्डं धरातले॥
ख्यातिं यातु प्रसादेन तव पर्वतनंदिनि ॥३६॥
॥ पुलस्त्य उवाच ॥
एवमस्त्विति सा देवी प्रोच्य गंगां महानदीम्॥
ततो विसर्जयामास तामालिंग्य मुहुर्मुहुः ॥३७॥
गतायामथ गंगायामधोवक्त्रं सुलज्जितम्॥
पाणौ गृह्य ययौ रुद्रं भ्रममाणा गृहं प्रति ॥३८॥
एवमेतत्पुरावृत्तं तस्मिन्कुण्डे नराधिप॥
तस्मात्सर्वप्रयत्नेन चतुर्द्दश्यां समाहितः ॥३९॥
शुक्लायां चैत्रमासे तु स्नानं तत्र समाचरेत्॥
सांनिध्याद्देवदेवस्य गंगायाश्च नृपोत्तम ॥४०॥
यत्र संक्षयमायाति सर्वं तत्राशुभं कृतम्॥
तत्र यो वृषभं दद्याद्ब्राह्मणाय नृपोत्तम॥
तद्रोमसंख्ययास्वर्गे स पुमान्वसति ध्रुवम् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे शिवगंगाकुण्डोत्पत्तिमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः ॥३८ ॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP