संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय १

अर्बुदखण्डम् - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ व्यास उवाच ॥
ॐनमोनंताय सूक्ष्माय ज्ञानगम्याय वेधसे॥
शुद्धाय विश्वरूपाय देवदेवाय शंभवे ॥१॥
॥ ऋषय ऊचुः ॥
कथितो वंशविस्तारो भवता सोमसूर्ययोः॥
मन्वंतराणि सर्वाणि सृष्टिश्चैव पृथग्विधा ॥२॥
अधुना श्रोतुमिच्छामस्तीर्थमाहात्म्यमुत्तमम्॥
कानि तीर्थानि पुण्यानि भूतलेऽस्मिन्महामते ॥३॥
॥ सूत उवाच ॥
नाना तीर्थानि लोकेऽस्मिन्येषां संख्या न विद्यते॥
तिस्रः कोट्योऽर्द्धकोटिश्च तेषां संख्या कृता पुरा ॥४॥
क्षेत्राणि सरितश्चैव पर्वताश्च नदा स्तथा॥
ऋषीणां तपसो वीर्यान्माहात्म्यं परमं गताः ॥५॥
तेषां मध्येऽर्बुदोनाम सर्वपापहरोऽनघः॥
अस्पृष्टः कलिदोषेण वसिष्ठस्य प्रभावतः ॥६॥
पुनंति सर्वतीर्थानि स्नानदानादिकैर्यथा॥
अर्बुदो दर्शनादेव सर्वपापहरो नृणाम् ॥७॥
॥ ऋषय ऊचुः ॥
किं प्रमाणोऽर्बुदो नाम कस्मिन्देशे व्यवस्थितः॥
कथं वासिष्ठमाहात्म्यात्प्रथितो धरणीतले ॥८॥
कानि तीर्थानि मुख्यानि ह्यर्बुदे संति पर्वते॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः ॥९॥
॥ सूत उवाच ॥
अहं च संप्रवक्ष्यामि कथां पापप्रणाशिनीम्॥
अर्बुदस्य द्विजश्रेष्ठा माहात्म्यं च यथा श्रुतम् ॥१०॥
वसिष्ठो नाम देवर्षिः पितामहसमुद्भवः॥
स पूर्वं भूतलं प्राप्तस्तपस्तेपे सुदारुणम् ॥११॥
नियतो नियताहारः सर्वभूतहिते रतः॥
वर्षास्वाकाशवासी च हेमंते सलिलाशयः ॥१२॥
पंचाग्निसाधको ग्रीष्मे जपहोमपरायणः॥
केनचित्त्वथ कालेन तस्य धेनुः पयस्विनी॥
नंदिनीति सुविख्याता सा वै कामदुघा शुभा ॥१३॥
सा कदाचिद्धरापृष्ठे भ्रममाणा तृणाशया॥
पतिता दारुणे श्वभ्रे अगाधे तिमिरावृते ॥१४॥
एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः॥
अस्तं गतो न संप्राप्ता नंदिनी मुनिसत्तमाः ॥१५॥
तस्याः क्षीरेण नित्यं स सायं प्रातर्द्विजो मुनिः॥
करोति होममग्नौ हि सुसमिद्धे जितव्रतः ॥१६॥
अथ चिंतापरो विप्रः प्रायश्चित्तभयाद्ध्रुवम्॥
वीक्षांचक्रे वने तस्मिन्समेषु विषमेषु च ॥१७॥
स तच्छ्वभ्रमथासाद्य भूंभारावमथाशृणोत्॥
तां प्रोवाच मुनिश्रेष्ठः कथं त्वं पतिता शुभे ॥१८॥
अहं होमस्य चोद्वेगान्निःसृतस्त्वामवेक्षितुम्॥
साऽब्रवीद्भक्षमाणाहं विप्रर्षे तृणवांछया ॥१९॥
पतितात्र विभो त्राहि कृच्छ्रादस्मात्सुदुःसहात्॥
तस्यास्तद्वचनं श्रुत्वा स मुनिर्ध्यान मास्थितः ॥२०॥
सरस्वतीं समादध्यौ नदीं त्रैलोक्यपावनीम्॥
सा ध्याता मनसा तेन मुनिना तत्र तत्क्षणात् ॥२१॥
श्वभ्रं तत्पूरयामास समंताद्विमलैर्जलैः॥
परिपूर्णं ततः श्वभ्रे निष्क्रांता नंदिनी तदा ॥२२॥
संहृष्टा मुनिना सार्द्धं ययावाश्रमसम्मुखम् ॥२३॥
स दृष्ट्वा श्वभ्रमध्यं तं गंभीरं च महामुनिः॥
चिंतयामास मेधावी श्वभ्रस्यैव प्रपूरणे ॥२४॥
तस्य चिंतयतो विप्रा बुद्धिरेषोदपद्यत॥
आनीय पर्वतं मुक्त्वा श्वभ्रमेतत्प्रपूर्यते॥
तस्माद्गच्छाम्यहं शीघ्रं हिमवन्तं नगोत्तमम् ॥२५॥
स एव पर्वतं चात्र प्रेषयिष्यति भूधरः॥
येन स्यात्परिपूर्णं च श्वभ्रमेतन्महात्मना ॥२६॥
ततो जगाम स मुनिर्हिमवन्तं नगोत्तमम्॥
दृष्ट्वा वसिष्ठमायांतं हिम वान्हृष्टमानसः॥
अर्घ्यपाद्यादिसंस्कारैः संपूज्य इदमब्रवीत् ॥२७॥
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्य जीवितम्॥
यद्भवान्मे गृहे प्राप्तः पूज्यः सर्वदिवौकसाम् ॥२८॥
ब्रूहि कार्यं मुनिश्रेष्ठ अपि जीवितमात्मनः॥
नूनं तुभ्यं प्रदास्यामि नियोगो दीयतां मम॥२९॥
॥वसिष्ठ उवाच॥
ममाश्रमस्य सांनिध्ये श्वभ्रमस्ति सुदारुणम्॥
अगाधं नन्दिनी तत्र पतिता धेनुरुत्तमा ॥३०॥
यत्नादाकर्षिता तस्माद्भूयः पतनजाद्भयात्॥
तवांतिकमनुप्राप्तो नान्यो योग्यो महीपतिः ॥३१॥
तस्मात्कञ्चिन्नगश्रेष्ठं तत्र प्रेषय भूधरम्॥
येन तत्पूर्यते श्वभ्रं भृशं प्रेषय तादृशम् ॥३२॥
॥ हिमवानुवाच ॥
किंप्रमाणं मुने श्वभ्रं विस्तारायामतो वद॥
तत्प्रमाणं नगं कंचित्प्रेषयामि विचिंत्य च ॥३३॥
॥ वसिष्ठ उवाच ॥
द्विसहस्रं तु दैर्घ्येण विस्तरेण त्रिसहस्रकम्॥
न संख्या विद्यतेऽधस्तात्तस्य पर्वतसत्तम ॥३४॥
॥ हिमवानुवाच ॥
कथं तेन प्रमाणेन सञ्जातो विवरो महान्॥
अभूत्कौतूहलं तेन सर्वं विस्तरतो वद ॥३५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाश्रमसमीपवर्ति विवरवृत्तान्तोपक्रमवर्णनंनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : January 14, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP