संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय १३

अर्बुदखण्डम् - अध्याय १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम्॥
अंबरीषस्य राजर्षेरैशान्यां पापनाशनम् ॥१॥
यत्र स्वयं हृषीकेशः काले च कलिसंज्ञके॥
तस्य वाक्यादृतस्तीर्थे स्वयं हि परितिष्ठति ॥२॥
पुरासीत्पृथिवीपालो ह्यंबरीषो युगे कृते॥
हरिमाराधयामास तपस्तेपे सुदुष्करम् ॥३॥
तस्मिंस्तीर्थे स राजेन्द्रो मितभक्षो जितेन्द्रियः॥
सहस्रमेकं वर्षाणां तत आसीत्फलाशनः ॥४॥
सहस्रे द्वे ततो राजञ्छीर्णपर्णाशनोऽभवत्॥
सहस्रे द्वे ततो भूयो जलाहारो बभूव ह ॥५॥
सहस्रत्रितयं राजन्वायुभक्षो बभूव ह॥
चिन्तयन्पुंडरीकाक्षं मानसे श्रद्धयान्वितः ॥६॥
दश वर्षसहस्रान्ते ततश्च नृपसत्तम॥
तुतोष भगवान्विष्णुस्तस्यासौ दर्शनं ददौ ॥७॥
कृत्वा देवपते रूपमारुह्यैरावतं गजम्॥
अब्रवीद्वरदोऽस्मीति अंबरीषं नराधिपम् ॥८॥
॥ इंद्र उवाच ॥
वरं वरय भद्रं ते राजन्यन्मनसीप्सितम्॥
त्वां दृष्ट्वा भक्तिसंयुक्तमागतोऽहमसंशयम् ॥९ ॥
॥ अंबरीष उवाच ॥
मुक्तिं दातुमशक्तोसि त्वं च वृत्रनिषूदन॥
तव प्रसादाद्देवेश त्रैलोक्यं मम वर्त्तते॥
स्वागतं गच्छ देवेश न वरो रोचते मम ॥१०॥
सर्वथा दास्यते मह्यं वरं तुष्टश्चतुर्भुजः॥
तदाहं प्रतिगृह्णामि गच्छ देव नमोस्तु ते ॥११॥
॥ इन्द्र उवाच ॥
वरं वरय राजर्षे यत्ते मनसि वर्त्तते॥
ब्रह्मविष्णुत्रिनेत्राणामहमीशो नृपोतम ॥१२॥
अन्येषां चैव देवानां त्रैलोक्यस्याप्यहं विभुः॥
वरं वरय तस्मात्त्वं प्रसादान्मे सुदुर्ल्लभम् ॥१३॥
प्रसन्ने मयि राजेन्द्र प्रसन्नाः सर्वदेवताः॥
कुरु मे वचनं राजन्गृह्यतां वरमुत्तमम् ॥१४॥
॥ अंबरीष उवाच ॥
राजा त्वं सर्वदेवानां त्रैलोक्यस्य तथेश्वरः॥
सप्तद्वीपवती राजा अहं वृत्रनिषूदन ॥१५॥
हषीकेशस्य सद्भक्तं विद्धि मां तात निश्चयम्॥
आगतश्च हृषीकेशो वरं दास्यत्यसंशयम् ॥१६॥
॥ इन्द्र उवाच ॥
ददतो मम भूपाल न गृह्णासि वरं यदि॥
वज्रं त्वां प्रेरयिष्यामि वधाय कृतनिश्चयः ॥१७॥
एवमुक्त्वा सहस्राक्षः सृक्किणी परिलेलिहन्॥
कुलिशं भ्रामयामास गृहीत्वा दक्षिणे करे ॥१८॥
तस्येवं भ्राम्यमाणस्य महोत्पाता बभूविरे॥
ततः पर्वतशृंगाणि विशीर्णानि समंततः ॥१९॥
आवृतं गगन मेघैर्विधुन्वानैर्महीं तदा॥
न किंचिद्दृश्यते तत्र सर्वं संतमसावृतम् ॥२०॥
एतस्मिन्नेव काले तु स राजा हरिवत्सलः॥
निमील्य लोचने स्वीये समाधिस्थो बभूव ह ॥२१॥
ततस्तुष्टो जगन्नाथ साक्षात्प्रत्यक्षतां गतः॥
ऐरावतः स गरुडस्तत्क्षणात्समजायत ॥२२॥
तमुवाच हृषीकेशो मेघगंभीरया गिरा॥
ध्यानस्थितं नृपश्रेष्ठं शंख चक्रगदाधरः ॥२३ ॥
श्रीभगवानुवाच ॥
परितुष्टोऽस्मि ते वत्सानन्यभक्त जनेश्वर॥
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम् ॥२४ ॥
॥ अंबरीष उवाच ॥
यदि प्रसन्नो भगवन्यदि देयो वरो मम॥
संसाराब्धेस्तारणाय वरदो भव मे हरे ॥२५॥
॥ पुलस्त्य उवाच ॥
अथाह भगवान्विष्णुरंबरीषं जनाधिपम्॥
ज्ञानयोगं सुविस्तीर्णं संसारक्षयकारणम् ॥२६॥
यस्मिञ्जाते नरः सद्यः संसारान्मुच्यते नृप॥
श्रुत्वा स नृपतिः सम्यक्प्रणम्योवाच केशवम् ॥२७॥
॥ अंबरीष उवाच ॥
भगवन्यस्त्वया प्रोक्तो योगोऽयं मम विस्तरात्॥
दुर्ज्ञेयः स नृणां देव विशेषाच्च कलौ युगे ॥२८॥
अपि चेत्सुप्रसन्नोऽसि क्रियायोगं ब्रवीहि मे॥
लोकानां तारणार्थाय शंखचक्रगदाधर ॥२९॥
॥ पुलस्त्य उवाच ॥
ततस्तस्मै नरेन्द्राय क्रियायोगं जनार्द्दनः॥
यथायोग्यं नृपश्रेष्ठ कथयामास केशवः ॥३०॥
तं श्रुत्वा तुष्टहृदयोंऽबरीषो वाक्यमब्रवीत् ॥३१॥
॥ अंबरीष उवाच ॥
यदि तुष्टोऽसि भगवन्रूपेणानेन माधव॥
ममाश्रमे त्वं देवेश सदा सन्निहितो भव ॥३२॥
यतस्त्वत्प्रतिमामेकामर्चयामि विधानतः॥
पूजयिष्यंति लोकास्त्वां शंखचक्रगदाधरम् ॥३३॥
॥ पुलस्त्य उवाच ॥
तथोक्तो माधवेनासौ चकार हरिमंदिरम्॥
प्रतिमां पूजयामास गन्धपुष्पानुलेपनैः ॥३४॥
ततः कालेन महता भगवान्विष्णुमंदिरे॥
तेनैव वपुषा प्राप्तः सपुत्रः सहबांधवः ॥३५॥
अद्यापि भगवान्विष्णुः सत्यवाक्येन भूपतेः॥
सदा संनिहितो विष्णुस्तस्मिन्नवसरे कलौ ॥३६॥
तदारभ्य महाराज क्रियायोगो धरातले॥
प्रवृत्तः प्रतिमाकारः काले च कलिसंज्ञके ॥३७॥
यस्तं पूजयते भक्त्या हृषीकेशे नृपार्बुदे॥
स याति विष्णुसालोक्यं प्रसादाच्च हरेर्नृप ॥३८॥
एकादश्यां महाराज जागरं यः सदा नृप॥
करिष्यति निराहारो हृषीकेशाग्रतः स्थितः॥
स यास्यति परं स्थानं दुर्ल्लभं त्रिदशैरपि ॥ ३९॥
यत्पुण्यं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे॥
तत्फलं लभते मर्त्त्यो हृषीकेशस्य दर्शनात् ॥४०॥
शुक्ले वा यदि वा कृष्णे संप्राप्ते हरिवासरे॥
यः पश्यति हृषीकेशमश्वमेधफलं लभेत् ॥४१॥
तस्मात्सर्वप्रयत्नेन पूजयेत्तु विधानतः॥
यस्तत्र चतुरो मासन्सम्यग्व्रतपरायणः॥
अभ्यर्चयेद्धृषीकेशं न स भूयोऽभिजायते ॥४२॥
एकः सर्वाणि तीर्थानि करोति नृपसत्तम॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ४३॥
 एको दानानि सर्वाणि ब्राह्मणेभ्यः प्रयच्छति॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥४४॥
एकः कन्यासहस्रं तु प्रदद्याच्च यथाविधि॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥४५॥
सूर्यग्रहे कुरुक्षेत्रे दद्याद्दानमनुत्तमम्॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥४६॥
अग्निष्टोमादिभिर्यज्ञैर्यजत्येकः सदक्षिणैः॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥४७॥
एको हिमालयं गत्वा त्यजति स्व कलेवरम्॥
पश्यत्यन्यो हषीकेशं चातुर्मास्यं समाहितः॥४८॥
एकस्तु भृगुपातेन त्यजेद्देहं सुतीर्थके॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥४९॥
एकः प्रायोपवेशेन प्राणांस्त्यजति मानवः॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥५०॥
ब्रह्मज्ञानं वदत्येकः श्रुत्वा ज्ञानवि शारदः॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥५१॥
गयाश्राद्धं करोत्येकः पितृपक्षे नृपोत्तम॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥५२॥
चांद्रायणसहस्रं च करोत्येकः समाहितः॥
पश्यत्यन्यो हृषीकेशं चातुमास्यं समाहितः ॥५३॥
व्रतं तपः सहस्राब्दमेकः सम्यक्चरेन्नरः॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥५४॥
एकस्तु चतुरो वेदान्सम्यक्पठति ब्राह्मणः॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥५५॥
बहुना किमिहोक्तेन शृणु संक्षेपतो नृप॥
एकतस्तु भवेत्सर्वमेकतो हरिदर्शनम् ॥५६॥
तस्मात्सर्वप्रयत्नेन स्थातव्यं हरिसंनिधौ॥
अम्बरीषस्य राजर्षेः स्थानके पापनाशने ॥५७॥
एकतस्तु हृषीकेश एकतः कर्णिकेश्वरः॥
तयोर्मर्त्या मृता ये च मानवा नृपसत्तम ॥५८॥
अपि कृत्वा महत्पापं गच्छंति हरिसन्निधौ॥
हृषीकेशं समालोक्य सद्यो मुक्तिमवाप्नुयात् ॥५९॥
पुष्पमेकं हृषीकेशे यश्चारोपयते नृप॥
सुखसौभाग्यसंयुक्त इह लोके परत्र च ॥६०॥
हृषीकेशस्य यो भक्त्या करिष्यत्यनुलेपनम्॥
स यास्यति परं स्थानं जरामरणवर्जितम् ॥६१॥
संमार्जनं च तस्याग्रे यः करोति समाहितः॥
यावत्यो रेणवस्तत्र तावद्वर्षशतानि सः॥
मोदते विष्णुलोकस्थो नात्र कार्या विचारणा ॥६२॥
कार्तिके शुक्लपक्षे च एकादश्यां नृपोत्तम॥
दीपमारोपयेद्यश्च हृषीकेशाग्रतो नृप ॥६३॥
यथायथा प्रकाशेत पापं जन्मांतरार्जितम्॥
तथातथा व्रजेन्नाशं तस्य कायादशेषतः ॥६४॥
पंचामृतेन यः पूजां हृषीकेशे करिष्यति॥
दध्ना क्षीरेण वा यस्तु न स भूयोऽभिजायते ॥६५॥
तस्मात्सर्वप्रयत्नेन हृषीकेशं समर्चयेत्॥
संसारबंधतो राजन्मुक्तिमाप्नोति मानवः ॥६६॥
हृषीकेशे विशेषेण कर्त्तव्यं पूजनं सदा ॥६७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे हृषीकेशमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : January 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP