संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय २०

अर्बुदखण्डम् - अध्याय २०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेत चंद्रेशं प्रभासं नृपसत्तम॥
प्रभा तत्र पुरा प्राप्ता चंद्रेण सुमहात्मना ॥१॥
दक्षस्य कन्यका राजन्सप्तविंशतिसंख्यया॥
ऊढाश्चंद्रेण ताः सर्वा अश्विनीप्रमुखाः पुरा ॥२॥
तासां मध्ये च रोहिण्या सह रेमे स नित्यदा॥
त्यक्ताः सर्वाश्च चंद्रेण दक्षकन्याः सुदुःखिताः॥
गत्वा स्वपितरं नत्वा प्राहुरस्राविलेक्षणाः ॥३॥
वयं त्यक्ताः प्रजानाथ निर्दोषाः पतिना ततः॥
शरणं त्वामनुप्राप्ता दुःखेन महतान्विताः ॥४॥
गतिर्भव सुरश्रेष्ठ सर्वेषां त्वं हितं कुरु॥
अस्माकमुपदिश्यैनं चंद्रं च रोहिणीरतम् ॥५॥
॥ पुलस्त्य उवाच ॥
स तासां वचनं श्रुत्वा गतो यत्र निशाकरः॥
अब्रवीच्च समं पश्य सर्वासु तनयासु मे ॥६॥
अथ व्रीडासमायुक्तश्चंद्रस्तं प्रत्यभाषत॥
तव वाक्यं करिष्यामि दक्ष गच्छ नमोस्तु ते ॥७॥
गते दक्षे ततो भूयश्चंद्रमा रोहिणीरतः॥
त्यक्त्वा च कन्यकाः सर्वाः प्रजापतिसमुद्भवाः ॥८॥
अथ गत्वा पुनः सर्वा दक्षमूचुः सुदुःखिताः॥
न कृतं तव वाक्यं वै चंद्रेणैव दुरात्मना ॥९॥
दौर्भाग्यदुःखसंतप्ता मरिष्याम न संशयः॥
अनेन जीवितेनापि मरणं निश्चयं भवेत् ॥१०॥
॥ पुलस्त्य उवाच ॥
अथ रोषसमायुक्तो दक्षो गत्वाऽब्रवीद्विधुम्॥
मम वाक्यं त्वया चंद्र यस्मात्पाप कृतं न हि ॥११॥
क्षयमेष्यसि तस्मात्त्वं यक्ष्मणा नास्ति संशयः॥
एवं दत्त्वा ततः शापं गतो दक्षः स्वमालयम् ॥१२॥
यक्ष्मणा व्यापितश्चंद्रः क्षयं याति दिनेदिने॥
क्षीणो द्युतिविहीनस्तु चिंतयामास चंद्रमाः ॥१३॥
कि कर्त्तव्यं मया तत्र ह्यस्मिञ्छापे सुदारुणे॥
अथ किं पूजयिष्यामि सर्वकामप्रदं शिवम् ॥१४॥
स एवं निश्चयं कृत्वा गतोर्बुदमथाचलम्॥
तपस्तेपे जितक्रोधो जपहोमपरायणः ॥१५॥
तस्मै तुष्टो महादेवो वर्षाणामयुते गते॥
अब्रवीद्वरदोऽस्मीति ततोऽस्मै दर्शनं ददौ ॥१६॥
॥ ईश्वर उवाच ॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते॥
तव दास्याम्यहं चंद्र यद्यपि स्यात्सुदुर्ल्लभम्॥ १७॥
॥ चंद्र उवाच॥
व्याधिक्षयं सुरश्रेष्ठ कुरु मे त्रिपुरांतक॥
यक्ष्मणा व्यापितो देहो ममायं च जगत्पते ॥१८॥
॥ ईश्वर उवाच ॥
दक्षशापेन ते चंद्र यक्ष्मा काये व्यवस्थितः॥
न शक्तो ह्यन्यथा कर्तुं शापस्तस्य महात्मनः॥१९॥
तस्मात्त्वं तस्य ताः सर्वाः कन्यका मम वाक्यतः॥
निशाकर समं पश्य तव व्याधिर्गमिष्यति ॥२०॥
कृष्णे क्षयश्च ते चंद्र शुक्ले वृद्धिर्भविष्यति॥
वरं वरय भद्रं ते अन्यमिष्टं सुदुर्ल्लभम्॥२१॥
॥ चंद्र उवाच ॥
चंद्रग्रहे नरो योऽत्र सोमवारे च शंकर॥
भक्त्या स्नानं करोत्येव स यातु परमां गतिम् ॥२२॥
पिण्डदानेन देवेश स्वर्गं गच्छंतु पूर्वजाः॥
प्रसादात्तव देवेश तीर्थं भवतु मुक्तिदम् ॥२३॥
॥ ईश्वर उवाच ॥
भविष्यंति नरोऽत्रैव विपाप्मानो निशाकर॥
यस्मात्प्रभा त्वया प्राप्ता तीर्थेऽस्मिन्विमलोदके॥ २४॥
प्रभासतीर्थं विख्यातं तस्मादेतद्भविष्यति॥
यत्र सोमग्रहे प्राप्ते सोमवारे विशेषतः ॥२५॥
करिष्यंति नराः स्नानं ते यास्यंति परां गतिम्॥
येऽत्र श्राद्धं करिष्यंति पिंडदानं तथा नराः ॥ २६॥
गयाश्राद्धसमं पुण्यं तेषां चंद्र भविष्यति॥
तथा दानं प्रकर्तव्यं सोम लोकैर्ग्रहे तव ॥२७॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा विरूपाक्षस्तत्रैवांतरधीयत॥
चन्द्रोऽपि बुभुजे सर्वाः पत्नीश्च दक्षसंभवाः ॥२८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चंद्रप्रभासतीर्थमाहात्म्यवर्णनंनाम विंशोऽध्यायः ॥२० ॥

N/A

References : N/A
Last Updated : February 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP