संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय २१

अर्बुदखण्डम् - अध्याय २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच॥
ततो गच्छेन्नृपश्रेष्ठ पिण्डोदकमनुत्तमम्॥
तीर्थं यत्र तपस्तप्तं पिण्डोदकद्विजातिना ॥१॥
पुरा पिण्डोदकोनाम ब्राह्मणोऽभून्महामते॥
मन्दप्रज्ञोऽल्पमेधावी सोपाध्यायेन पाठितः ॥२॥
अशक्तोऽध्ययनं कर्तुं जाड्यभावान्महीपते॥
स वैराग्यं परं गत्वा संप्राप्तो गिरिगह्वरे ॥३॥
एतस्मिन्नेव कालेतु तत्रैव च सरस्वती॥
वीणाविनोदसंयुक्ता विविक्ते तमुपस्थिता ॥४॥
तं दृष्ट्वा ब्राह्मणं खिन्नं वैराग्येण समन्वितम्॥
कृपाविष्टा महादेवी वाक्यमेतदुवाच ह ॥५॥
॥ सरस्वत्युवाच ॥
कस्मात्त्वं खिद्यसे विप्र विरक्त इव भाससे॥
कस्मान्न हृष्यसि हृदा कस्मादत्र त्वमागतः॥
वद शीघ्रं महाभाग तवांतिके वसाम्यहम् ॥६॥
॥ पिण्डोदक उवाच ॥
अहं वैराग्यमापन्न उपाध्यायतिरस्कृतः॥
ज्ञानहीनो महाभागे मृत्युं वांछामि सांप्रतम् ॥७॥
न मे सरस्वती देवी जिह्वाग्रे परिवर्तते॥
कारणं नान्यदस्तीह मृत्योर्मम वरानने ॥
दृष्टोऽकस्मात्त्वया चाहं ततो यास्यामि चान्यतः॥
मरणं हि मम श्रेयो मूकभावान्न जीवितम् ॥९॥
॥ सरस्वत्युवाच॥.॥
अहं सरस्वती देवी सदास्मिन्वरपर्वते॥
निशासुखे त्रयोदश्यां करोमि वसतिं द्विज॥
तस्मात्त्वं प्रार्थय वरं यदभीष्टं सुदुर्लभम् ॥१०॥
॥ पिण्डोदक उवाच ॥
प्रसादात्तव वै वाणि सर्वज्ञत्वं ममेप्सितम्॥
एतत्तीर्थं तु मन्नाम्ना ख्यातिं यातु शुचिस्मिते ॥११॥
॥ सरस्वत्युवाच ॥
अद्यप्रभृति सर्वज्ञो ह्यत्र लोके भविष्यसि॥
नाम्ना तव तथा तीर्थमेतत्ख्यातिं प्रयास्यति॥१२॥
निशामुखे त्रयोदश्यां योऽत्र स्नानं करिष्यति॥
भविष्यति स सर्वज्ञो यद्यपि स्यात्सुमन्दधीः ॥१३॥
अत्र मे सततं वासो भविष्यति द्विजोत्तम॥
यस्मात्तस्मात्सदा स्नानं कर्तव्यं सुसमाहितैः ॥१४॥
एवमुक्त्वा ततो देवी तत्रैवांतरधीयत॥
पिण्डोदको हि सर्वज्ञो भूत्वाथ स्वगृहं ययौ॥
व्यस्मापयज्जनान्सर्वांस्तत्तीर्थस्य समाश्रयात् ॥१५॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिण्डोदकतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : February 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP