संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४७ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शक्रसखासहितं प्रद्युम्नस्य युद्धम् Translation - भाषांतर श्रीनारद उवाच -प्रद्युम्नोऽथ महावीरो नादयन् जयदुन्दुभिम् ॥यदुभिः सैनिकैः सार्द्धं मधुधारातटं ययौ ॥१॥सुवर्णाद्रितटीभूते वने वैश्रवसे शुभे ॥सुवर्णवर्णहंसाढ्ये कांचनीलतिकावृते ॥२॥हेमावतीषु द्रोणीषु देवदुर्गासु मैथिल ॥दानवानामगम्यासु गंगावेत्रवतीषु च ॥३॥दानवेभ्यः प्रभीतानां क्वचित्स्वर्गात्पलायिनाम् ॥अष्टानां लोकपालानां निधयो यत्र संति हि ॥४॥तत्र शक्रसखो देव आधिपत्याभिरक्षकः ॥श्रुत्वाऽऽगतं च प्रद्युम्नं युद्धं कर्तुं मनो दधे ॥५॥प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥पप्रच्छ दृष्टमार्गैश्च जनैस्तस्य पुरं ययौ ॥६॥नत्वा देवं शक्रसखं सभायामुद्धवः प्रभुः ॥प्रद्युम्नकथितं प्राह विस्तरान्मंत्रिणां वरः ॥७॥उद्धव उवाच -उग्रसेनो यादवेंद्रो द्वारकेशो नृपेश्वरः ॥जंबूद्वीपनृपान् जित्वा राजसूयं करिष्यति ॥८॥तेन प्रणोदितो जेतुं रुक्मिणीनंदनो बली ॥जित्वा स भारतादीनि खंडानि स्वस्य तेजसा ॥९॥अद्यैवेलावृतं प्राप्तो जेतुं कार्ष्णिर्महाबलः ॥तस्मै यच्छ बलिं शीघ्रं कुलकौशलहेतवे ॥न चेद्युद्धं हि भवता राजन्सर्वविदां वर ॥१०॥शक्रसख उवाच -शृणु दूत सदा देवैः पूजितोऽहं नरैः किमु ॥सिद्धोऽहं वै महावीरो नागलक्षसमो बले ॥११॥अष्टानां लोकपालानामाधिपत्याभिरक्षकः ॥कुबेर इव कोशाढ्यः पुरंदर इवोद्भटः ॥१२॥उग्रसेनेन दातव्यं मह्यं चोपायनं परम् ॥पुरा तस्मै न दास्यामि यदुराजाय भूभृते ॥१३॥उद्धव उवाच -यथा तिरस्कृतिं प्राप्तः कुबेरो यदुतेजसा ॥यथा शृङ्गारतिलकश्चैत्रदेशाधिपो बली ॥१४॥शुभांगो हरिवर्षेश उत्तरेशो गुणाकरः ॥यथा दैत्यसखो राजा लंकेशो राक्षसेश्वरः ।१५॥संवत्सरः केतुमालः शकुन्याद्या महासुराः ॥तथाभूतस्त्वं हि राजन् बलिं तस्मै प्रदास्यसि ॥१६॥श्रीनारद उवाच -इत्युद्धववचः श्रुत्वा क्रुद्धः शक्रसखो बली ॥उद्धवं प्रत्युवाचाथ शृणु भागवतोत्तम ॥१७॥यावद्बलिं प्रदस्यामि तावत्त्वं संस्थितो भव ॥अन्यथा ते गतिर्नास्ति सत्यं सत्यं महामते ॥१८॥उद्धव उवाच -वयं तु मंत्रिप्रवराः पूर्णज्ञानप्रदा वराः ॥मच्छिक्षणं न मन्यंते तेषां नो मंगलं भवेत् ॥१९॥श्रीनारद उवाच -एवं स दृष्टरोधेन रोधयामास चोद्धवम् ॥उद्धवं नागतं राजन् यदूनामनुशोचताम् ॥२०॥दिनानि कतिचित्तत्र व्यतीयुस्तमपश्यताम् ॥मन्मुखात्तदुपाकर्ण्य प्रद्युम्नो भगवान्हरिः ॥२१॥जेतुं शक्रसखं प्रागात्त्रिपुरं त्र्यम्बको यथा ॥यदुभिर्भ्रातृभिः सार्द्धं स सैन्यपरिवारितः ॥२२॥सुवर्णाद्रिगुहाद्वारात्संप्राप्तो मकरध्वजः ॥वीरकोदण्डटंकारैर्दुन्दुभिध्वनिमिश्रितैः ॥२३॥अश्वहेषैर्हस्तिनादैर्विनेदुश्च दिशो दश ॥सैन्यपादरजोभिश्च युयुधे यादवैः सह ॥२४॥बभूव तुमुलं युद्धं छादितं व्योममंडलम् ॥वीक्ष्य सर्वे मेरुदेवा भयं प्रापुर्नृपेश्वर ॥२५॥अथ शक्रसखः क्रुद्धो रथारूढो महाबलः ॥अक्षौहिणीभिर्दशभिर्युयुधे यादवैः सह ॥२६॥बभूव तुमुलं युद्धं देवानां यदुभिः सह ॥प्राकृतप्रलये राजन्नुदधीनां ध्वनिर्यथा ॥२७॥शस्त्रांधकारे संजाते सारणो रोहिणीसुतः ॥बलदेवानुजो वीरो दंशितो गजसंस्थितः ॥२८॥सर्वेषामग्रतः प्राप्तो धनुष्टंकारयन्मुहुः ॥तद्बलं पोथयामास बाणैः कोदंडनिर्गतैः ॥२९॥श्रीसारणस्य बाणौघैः केचिद्वीरा द्विधाकृताः ॥तिर्यग्भूता रथा युद्धे निपेतुः पादपा इव ॥३०॥गजानां भिन्नकुंभानां मौक्तिकान्यपतंस्तदा ।बाणान्धकारे संजाते रात्रौ तारागणा इव ॥३१॥संछिद्यमानैरश्वैश्च वीरैर्नागै रणांगणम् ॥बभौ भूतगणैर्युक्तं यथाऽऽक्रीडमुमापतेः ॥३२॥सारणस्य बलं दृष्ट्वा सर्वे देवाः पलायिताः ॥संछिन्नभिन्नकोदंडा अभितः शीर्णकंचुकाः ॥३३॥पलायमानं स्वबलं दृष्ट्वा शक्रसखो बली ॥धनुष्टंकारयन्प्राप्तो जगर्ज घनवद्बलात् ॥३४॥अर्जुनं दशभिर्बाणैर्विंशत्या भानुमेव च ॥सांबं बाणशतैर्युद्धेऽनिरुद्धं च शतैः शरैः ॥३५॥द्विशतैश्च गदं वीरं सहस्रैः सारणं तथा ॥तताड समरे वीरो धन्वी शक्रसखो बली ॥३६॥तद्बाणैः सरथा वीरा बभ्रमुर्घटिकाद्वयम् ॥चक्रवत्कुंभकारस्य तदद्भूतमिवाभवत् ॥३७॥हयाश्च पंचतां प्राप्ताः श्लथद्बंधा रथा भ्रमात् ॥रथिनः खिन्नमनसः सूत मूर्च्छां गता मृधे ॥३८॥स चान्यं रथमारुह्य धनुष्टंकारयन्बलात् ॥धनुः शक्रसखस्यापि चिच्छेद दशभीः शरैः ॥३९॥द्वाभ्यां सूतं शतैरश्वान्सहस्रैस्तद्रथं शरैः ॥चूर्णयामास राजेन्द्र सांबो जांबवतीसुतः ॥४०॥स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥नागेंद्रं मत्तमारुह्य शूलं जग्राह रोषतः ॥४१॥विव्याध सांबं शूलेन हृदि शक्रसखो बली ॥तेन घातेन सांबोऽपि किंचिद्व्याकुलमानसः ॥४२॥योजने पादविक्षेपं कज्जलाद्रिसमप्रभम् ॥चतुर्योजनमुच्चांगं योजनार्द्धरदद्वयम् ॥४३॥महच्चीत्कारं कुर्वंतं त्रिशूण्डादंडमंडलैः ॥श्रृंखले पातयंतं तं चतुर्योजनविस्तृतैः ॥४४॥गजान् वीरान्मर्दयंतं रथानश्वानितस्ततः ॥दंतैः पादैर्घातयंतं कालांतकयमोपमम् ॥४५॥आगतं वीक्ष्य नागेंद्रं शत्रुणा नोदितं परम् ॥विचरंतं मृधाद्भीता यदुसेना विदुद्रुवुः ॥४६॥गदो गदां समादाय बलदेवानुजो बली ॥जघान तद्गजं कुंभे गदया वज्रकल्पया ॥४७॥तद्घातभिन्नकुंभो हि गजो युद्धे पपात ह ॥छिन्नपक्षो यथा शैलस्तदद्भुतमिवाभवत् ॥४८॥अथ शक्रसखो यावद्गदां जग्राह रोषतः ॥तावत्तताड गदया गदः शक्रसखं हृदि ॥४९॥तेन घातेन सगजो पतितो मूर्छितोऽभवत् ॥पुनरुत्थाय स गदं भुजाभ्यां जगृहे मृधे ॥५०॥गदशक्रसखौ युद्धे युयुधाते परस्परम् ॥रंगे मल्लाविव वन्ये वन्यौ तौ वारणाविव ।५१॥भुजाभ्यां तं समुत्थाप्य बलदेवानुजो बली ॥चिक्षेप तत्पुरे वीरं बलात्तं शतयोजनम् ॥५२॥तदा जयजयारावो यदुसैन्ये बभूव ह ॥जयदुन्दुभयो नेदुः प्रशशंसुर्मुहुर्जनाः ॥५३॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे शक्रसखयुद्धं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP