संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४१ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शकुनिदैत्यवधम् Translation - भाषांतर श्रीनारद उवाच -दैत्यान शेषान् समानीय नानायुद्धधरो बली ॥उच्चैःश्रवसमूहाय हयं दिव्य मनोहरम् ॥१॥धनुष्टंकारयन्वीरः शकुनिः क्रोधमूर्च्छितः ॥आययौ संमुखे योद्धुं श्रीकृष्णस्यापि संमुखे ॥२॥पुनः प्राप्तं दैत्यसैन्यं शकुनिं युद्धदुर्मदम् ॥तं वीक्ष्य वृष्णयः सर्वे जगृहुः स्वायुधानि च ॥३॥दैत्यानां यदुभिः सार्द्धं घोरं युद्धं बभूव ह ॥वीरैः संयुयुधुर्वीराः सिंहाः सिंहैरिवाहवे ॥४॥सर्वेषामग्रतः प्राप्तः कोदंडं नादयन्मुहुः ॥शकुनिर्मेघवद्राजन् चक्रे नाराचदुर्दिनम् ॥५॥बाणांधकारे संजाते भगवान् गरुडध्वजः ॥शार्ङ्गी शार्ङ्गेण धनुषा यथेंद्रेण घनो बभौ ॥६॥श्रीकृष्णो भगवान्साक्षाच्छकुनेरसुरस्य च ॥चिच्छेद बाणपटलं बाणेनैकेन लीलया ॥७॥आकृष्य कर्णपर्यंतं कोदंडं शकुनिर्मृधे ॥तताड दशभिर्बाणैः श्रीकृष्णहृदि मैथिल ॥८॥प्रलयाब्धिमहावर्त-भीमसंघर्षनादिनीम् ॥धनुर्ज्यां शकुनैः शौरिश्चिच्छेद दशभिः शरैः ॥९॥मायावी शकुनिर्दैत्यः शतरुपी बभूव ह ॥युयोध हरिणा युद्धे सर्वेषां पश्यतां नृप ॥१०॥सहस्राणि स्वरूपाणि धृत्वा साक्षाद्धरिः स्वयम् ॥युयुधे तेन दैत्येन तदद्भुतनिवाभवत् ॥११॥मयदैत्येन रचितं त्रिशूलं ज्वलनप्रभम् ॥भ्रामयित्वाथ हरये प्राहिणोद्दैत्यराड् बली ॥१२॥ततः क्रुद्धो महाबाहुः परिपूर्णतमो हरिः ॥चिच्छेद तं तीक्ष्णतुंडं पन्नगं गरुडो यथा ॥१३॥ततः क्रुद्धो महाबाहुर्गदां चिक्षेप मूर्द्धनि ॥हयात्तं पातयामास गदया वज्रकल्पया ॥१४॥गदाप्रहारव्यथितः क्षणं मूर्च्छां गतोऽसुरः ॥गृहीत्वा स्वां गदां युद्धे युयुधे माधवेन वै ॥१५॥तयोर्युद्धमभूद्घोरं गदाभ्यां रणमंडले ॥अभुच्चटचटारावो वज्रनिष्पेषवत्किल ॥१६॥श्रीकृष्णगदया तस्य चूर्णीभूता गदा भुवि ॥विरेजेऽङ्गारवत्तत्र सर्वेषां पश्यतां मृधे ॥१७॥गिरिदर्यां यथा सिंहौ वने मत्तौ गजावुभौ ॥रणमध्ये तथा तौ द्वौ युयुधाते परस्परम् ॥१८॥श्रीकृष्णं नोदयामास शकुनिः शतयोजनम् ॥हरिस्तं प्रेषयामास सहस्रयोजनं भुवि ॥१९॥गृहीत्वा भुजयोस्तं वै जंघाभ्यां भुवनेश्वरः ॥पातयामास भूपृष्ठे कमंडलुमिवार्भकः ॥२०॥किंचिद्व्यथां गतो दैत्यो गृहीत्वा जारुधिंगिरिम् ॥प्राहिणोच्च दुराचारः शकुनिर्युद्धदुर्मदः ॥२१॥समागतं गिरिं वीक्ष्य भगवान्कमलेक्षणः ॥जयशब्दं प्रकुर्वंतावन्योन्यं ताडयन् गिरिम् ॥२२॥चूर्णयामासतू राजंस्तथा चंद्रावतीं पुरीम् ॥तदा दैत्योऽतिसंक्रुद्धो गृहीत्वा खड्गचर्मणी ॥२३॥आययौ संमुखे राजञ्छ्रीकृष्णस्य महात्मनः ॥शार्ङ्गी शांर्ङ्गं संगृहीत्वाथार्द्धचंद्रमुखं शरम् ॥२४॥संदधे सहसा युद्धे ग्रीष्ममार्तंडसन्निभम् ॥शार्ङ्गमुक्तो दिव्यबाणो द्योतयन्मंडलं दिशाम् ॥२४॥शकुनेर्मस्तकं छित्त्वा भूमिं भित्वा तलं गतः ॥व्यसुर्भूत्वा तदा दैत्यः पतितो रणमण्डले ॥२६॥भूमिस्पर्शात्सजीवोऽभूत्क्षणमात्रेण मैथिल ॥करेणादाय मुंडं स्वं स्वकबंधे निधाय सः ॥२७॥युद्धं कर्तुं समुत्तस्थौ तदद्भुतमिवाभवत् ॥इत्थं कृष्णेन निहतः सप्तवारं महासुरः ॥२८॥भूमिस्पर्शात्सजीवोऽभूद्राहुवत्पुनरुत्थितः ॥एकाकी यादवकुलं संहारं कर्तुमुद्यतः ॥२९॥विवेशाशु महादैत्यो वने वह्निरिव प्रभुः ॥सतुरंगान्महावीरा-न्सशस्त्रानुत्कटान् गजान् ॥३०॥संगृहीत्वा भुजाभ्यां खं प्राक्षिपल्लक्षयोजनम् ॥कांश्चिद्गजान्मुखे धृत्वा स्कन्धयोरुभयोरपि ॥३१॥कक्षयोरुभयोर्दैत्यो बभौ कालाग्निरुद्रवत् ॥पद्भ्यां कराभ्यां दैत्यस्य त्रासं याते महामृधे ॥३२॥हाहाकारो महानासीच्छ्रीकृष्ण्स्य महात्मनः ॥तदैव भगवान्साक्षाच्छ्रीकृष्णो विश्वरक्षकः ॥सुदर्शनास्त्रं प्रायुंक्त साधूनां रक्षणाय वै ॥३३॥तद्धस्तमुक्तं निशितं सुदर्शनंलयार्ककोटिद्युतिमज्ज्वलत्प्रभम् ॥जहार सद्यः शकुनेर्दृढं शिरोयथा च वृत्रस्य पविर्महामृधे ॥३४॥तावद्गृहीत्वा शकुनिं महामृधेचिक्षेप सद्यो मृतमंबरे बलात् ॥उत्क्षेपणं भोः कुरुतेषुभिर्दिवियदून् गिरा श्रीपतिरित्युवाच ॥३५॥श्रीनारद उवाच -इत्थं हरेर्वचः श्रुत्वा सर्वे यादवपुंगवाः ॥अंबरात्प्रपतंतं ते तेडुर्बाणैः स्फुरत्प्रभैः ॥३६॥दैत्यो दीप्तिमतो बाणैरंबरे शतयोजनम् ॥गतः कंदुकवद्राजन्नूर्ध्वं लोकस्य पश्यतः ॥३७॥सांबस्यापि स बाणेन सहस्रं योजने गतः ॥पुनस्तमापतंतं खाञ्जघान त्विषुणार्जुनः ॥३८॥तेन बाणेन दैत्येंद्रो योजनं चायुतं गतः ॥अनिरुद्धस्य बाणेन लक्षयोजनमास्थितः ॥३९॥प्रद्युम्नस्यापि बाणेन नियुतं योजनं गतः ॥पुनस्तमापतंतं खाद्विक्ष्य योगेश्वरेश्वरः ॥४०॥बाणं समादधे तेन गतः खे कोटियोजनम् ॥एवं खे संस्थिते दैत्ये व्यतीते प्रहरद्वये ॥४१॥द्वितीयेनापि बाणेन तं जघान हरिः स्वयम् ॥सबाणस्तं भ्रामयित्वा दिक्षु वै कोटियोजनम् ॥४२॥समुद्रे पातयामास वातः पद्ममिव प्रभुः ॥एवं मृते तदा दैत्ये तज्ज्योतिर्निर्गतं स्फुरत् ॥४३॥सर्वतोऽपि भ्रमद्राजन् श्रीकृष्णे लीनतां गतम् ॥तदा जयजयारावो दिवि भूमाववर्तत ॥४४॥विद्याधर्यश्च गधर्व्यो ननृतुः खे सुखान्विताः ॥जगुः किन्नरगंधर्वास्तुष्टुवुः सिद्धचारणाः ॥४५॥ऋषयो मुनयः सर्वे प्रशशंसुर्हरिं परम् ॥ब्रह्मरुद्रेंद्रसूर्याद्याः सर्वे तत्र समागताः ॥४६॥श्रीकृष्णस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥४७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे शकुनिदैत्यवधो नामैकचत्वारिंशोऽध्यायः ॥४१॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP