संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ११ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ११ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता दन्तवक्त्र-करूषविजयम् Translation - भाषांतर तदा श्रीकृष्णपुत्राणामष्टादश महारथाः ॥सक्षतं कारयामासुर्दन्तवक्त्रं महाबलम् ॥१॥दंतवक्त्रोऽतिशुशुभे स क्षतो रक्तधारया ॥लाक्षयेव यथा सौधं प्रहारं नानुचिंतयन् ॥२॥कृतवर्मा च बाणौघैस्तं जघान रणांगणे ॥युयुधानश्च खड्गेन शक्त्याक्रूरो महाबलम् ॥३॥सारणस्तं कुठारेणाहनत्तं रोहिणीसुतः ॥दंतवक्त्रोऽपि गदया युयुधानं तताड ह ॥४॥करेण कृतवर्माणमक्रूरं स्वांघ्रिणाहनत् ॥सारणं भुजवेगेन कारूषो रणदुर्मदः ॥५॥अक्रूरः कृतवर्मा च युयुधानोऽथ सारणः ॥निपेतुर्मूर्छिता भूमौ मरुता पादपा इव ॥६॥ततो गदां समादाय सांबो जांबवतीसुतः ॥गदोपरि गदां नीत्वा गदया तं तताड ह ॥७॥दंतवक्रो गदां त्यक्त्वा सांबं जांबवतीसुतम् ॥गृहीत्वा पातयामास भुजाभ्यां रणमंडले ॥८॥सांबस्तदा समुत्थाय गृहीत्वा पादयोश्च तम् ॥अपोथयद्भूमिपृष्ठे तदद्भुतमिवाभवत् ॥९॥दंतवक्रः समुत्थाय साट्टहासं तदाकरोत् ॥ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥१०॥पताकाढ्येन दिव्येन सहस्रादित्यवर्चसा ॥सहस्रहययुक्तेन प्रद्युम्नं धन्विनां वरम् ॥दंतवक्त्रोऽपि तं वीक्ष्य प्राहेदं परुषं वचः ॥११॥दन्तवक्त्र उवाच -यूयं च यादवाः सर्वे वृष्णयो ह्यंधकादयः ॥अल्पसत्वा जनास्तुच्छा विद्रुता युद्धभीरवः ॥१२॥ययातिशापसंभ्रष्टा भ्रष्टराज्या गतत्रपाः ॥एकोऽहं बहवो युयं युष्माभिश्च कृतं मृधम् ॥१३॥अधर्मवर्तिभिस्तुच्छैर्धर्मशास्त्रविलोपिभिः ॥पूर्वं पिता ते श्रीकृष्णो नन्दस्य पशुरक्षकः ॥१४॥गोपालोच्छिष्टभोजी च सोऽद्य वै यादवेश्वरः ॥हय्यंगवीनदध्याज्यदुग्धतक्रादिकं रसम् ॥१५॥चोरयामास गोपीनां रसिको रासमंडले ॥जरासंधभयात्सोऽपि समुद्रं शरणं गतः ॥१६॥सोऽद्यैव यदुनाथोऽभूद्यो भीरुः कालसंमुखे ॥तेन दत्तं स्वल्पराज्यमुग्रसेनः समेत्य सः ॥१७॥करिष्यत्यल्पसारार्थे राजसूयं क्रतूत्तमम् ॥दुरत्यया कालगतिर्जातं चित्रमहो जगत् ॥अध्यास्ते सिंहशार्दूलं शृगालो ह्यतिदुर्बलः ॥१८॥श्रीप्रद्युम्न उवाच -पुरा वै कुंडिनपुरे यदूनां बलमूर्जितम् ॥त्वया दृष्टं न किं त्वत्र पश्याद्यैव विनिंदक ॥१९॥युष्मान्संबंधिनो ज्ञात्वा नेच्छे युद्धम् करूषप ॥बलात्त्वं युद्धमाकार्षीर्धर्मशास्त्रं त्वया कृतम् ॥२०॥नंदो द्रोणो वसुः साक्षाज्जातो गोपकुलेऽपि सः ॥गोपाला ये च गोलोके कृष्णरोमसमुद्भवाः ॥२१॥राधारोमोद्भवा गोप्यस्ताश्च सर्वा इहागताः ॥काश्चित्पुण्यैः कृतैः पूर्वैः प्राप्ताः कृष्णं वरैः परैः ॥२२॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ॥२३॥यस्मिन्सर्वाणि तेजांसि विलीयंते स्वतेजसि ॥तं वदंति परे साक्षात्परिपूर्णतमः स्वयम् ॥२४॥उग्रसेनोऽथ राजेंद्रो मरुतो नाम यः पुरा ॥श्रीकृष्णस्य वरेणासौ यादवेंद्रो बभूव ह ॥२५॥निरंकुशो महामूर्खो विनिन्दसि महद्गुणम् ॥स न प्रार्थयते किंचिद्यथा सिंहः शिवारुतम् ॥२६।श्रीनारद उवाच -एवं वचस्तदा श्रुत्वा दंतवक्त्रो मदोत्कटः ॥गदां गुर्वीं समादाय प्राद्रवत्तद्रथोपरि ॥२७॥गदया पातयामास सहस्रं घोटकान्नदन् ॥घोटका दुद्रुवुः सर्वे दृष्ट्वा रूपं भयंकरम् ॥२८॥प्रद्युम्नोऽपि गदां नीत्वा तं तताड दृढं हृदि ॥तत्प्रहारेण दैत्येद्रः किंचिद्व्याकुलमानसः ॥२९॥तयोश्च गदया युद्धं घोररूपं बभूव ह ॥गदाभ्यां प्रहरंतौ द्वौ मर्दयंतौ परस्परम् ॥३०॥दंतवक्त्रो भुजाभ्यां तं गृहीत्वा श्रीहरेः सुतम् ॥भूमौ निपातयामास सिंहः सिंहमिवौजसा ॥३१॥प्रद्युम्नोऽपि समुत्थाय गृहीत्वा भुजयोर्बलात् ॥भ्रामयित्वा भुजाभ्यां तं पातयामास भूतले ॥३२॥प्रद्युम्नस्य प्रहारेण सोऽपतद्रुधिरं वमन् ॥चूर्णितास्थिः खिन्नगात्रो मूर्छितो विह्वलाकृतिः ॥गिरिन्द्र इव भूपृष्ठे रेजे शक्रायुधाहतः ॥तत्प्रहारेण वसुधा चचाल सजलाभवत् ॥३४॥विचेलुर्दिग्गजास्ताराः समुद्राश्च चकंपिरे ॥पातशब्देन राजेन्द्र त्रिलोकी बधिरीकृता ॥३५॥तदैव कारूषापतिर्महात्माश्रीवृद्धशर्मा श्रुतदेवया च ॥राज्ञ्या महारंगपुराद्यदूनांसमाययौ सुंदरसंधिकारी ॥३६॥दत्वा बलिं मैथिल शंबरारयेसुतं गृहीत्वा कृतसंधिरग्रतः ॥तथा यदूनां प्रवरैः प्रपूजितःपुनर्महारंगपुरं समाययौ ॥३७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे दंतवक्त्रयुद्धे करुषदेशविजयो नामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP