संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १६ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता जनकोपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -दुंदुभीन्नादयंस्तस्मात्प्रद्युम्नो यदुनंदनः ॥मैथिलानाययौ राजंस्तव देशान् सुखावृतान् ॥१॥सुवर्णसौधैरत्युच्चैः सघटै राजितां पुरीम् ॥मिथिलां वीक्ष्य तामारादुद्धवं प्राह माधवः ॥२॥प्रद्युम्न उवाच -कस्यैषा नगरी मंत्रिन् दृष्ययते सांप्रतं मया ॥राजते बहुसौधैश्च पुरी भोगवती यथा ॥३॥उद्धव उवाच -जनकस्य पुरी ह्येषा मिथिला नाम मानद ॥मिथिलेंद्रो धृतिस्तस्यां महाभागवतः कविः ॥४॥सर्वधर्मभृतां श्रेष्ठः श्रीकृष्णेष्टो हरिप्रियः ॥बहुलाश्वस्तस्य सुत आबाल्याद्भक्तिकृद्धरेः ॥५॥तस्मै स्वं दर्शनं दातुं भगवानागमिष्यति ॥बहुलाश्वं राजपुत्रं श्रुतदेवं द्विजं तथा ॥६॥स्मरत्यलं द्वारकायां श्रीकृष्णो भगवान् हरिः ॥जेतुं न शक्यो देवेंद्रैर्मनुजैश्च कुतः प्रभो ॥धृतिः परमया भक्त्या श्रीकृष्णवशकारकः ॥७॥श्रीनारद उवाच -तच्छ्रुत्वा भगवान् कार्ष्णिरुद्धवेन समन्वितः ॥स्वशिष्यमुद्धवं कृत्वा धृतिं द्रष्टुं समाययौ ॥८॥भक्तेरेव परीक्षां हि कर्तुं तस्य नृपस्य च ॥ददर्श मिथिलां कार्ष्णिरुद्धवेन समन्वितः ॥९॥चर्मशस्त्रधृता वीरा मालातिलकशोभिताः ॥जपन्तः कृष्णनामानि सर्वे वै यत्र मालया ॥१०॥लिखितानि च नामानि द्वारि द्वारि हरेर्नृणाम् ॥तथा श्रीकृष्णचित्राणि लिखितानि शुभानि च ॥११॥कुड्ये कुड्ये गृहाणां च गदापद्मानि मानद ॥दशावतारचित्राणि शंखचक्राणि यत्र वै ॥१२॥तुलसीमंदिराणीत्थं प्राङ्गणे च गृहे गृहे ॥एवं पश्यन्स सौधानि मिथिलायां जनान् बहून् ॥१३॥मालातिलकसंयुक्तान् सर्वान्भक्तान्ददर्श ह ॥तिलकैर्द्वादशाख्यैश्च युक्त्यैः कुंकुमजैर्वृतान् ॥१४॥गोपीचंदनमुद्राभिश्चर्चिताञ्छांतविग्रहान् ॥ऊर्ध्वपुंड्रधरान् विप्रान् हरिमंदिरचित्रितान् ॥१५॥गदां मुद्रां ललाटे च ऊर्ध्वं वा हरिनामतः ॥चक्रं शङ्खं च कमलं कूर्मं मत्स्यं भुजद्वये ॥१६॥दधतश्च धनुर्बाणं मूर्ध्नि श्रीनंदकं हृदि ॥मुसलं च हलं राजन्नथ कार्ष्णिर्ददश ह ॥१७॥यस्या वीथ्यां भागवतं केचिच्छृण्वंति मानवाः ॥इतिहासं भारतं च हरिवंशं तथापरे ॥१८॥सनत्कुमारवासिष्ठयाज्ञवल्क्यपराशराः ॥गर्गपौलस्त्यधर्मादिसंहिताः के पठंति वै ॥१९॥ब्राह्मं पाद्मं वैष्णवं च शैवं लैंगं सगारुडम् ॥नारदीयं भागवतमाग्नेयं स्कंदसंज्ञितम् ॥२०॥भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ॥वाराहमात्सकौर्माणि ब्रह्माण्डाख्यं तथैव च ॥२१॥वीथ्यां वीथ्यां स्म शृण्वन्ति जनाः सर्वे गृहे गृहे ॥वाल्मीकिकाव्यं केचिद्वै श्रीरामचरितामृतम् ॥२२॥स्मृतीः पठन्ति केचिद्वै केचिद्वेदत्रयीं द्विजाः ॥केचित्कुर्वंति यज्ञं वै वैष्णवं मंगलायनम् ॥२३॥राधाकृष्णेति कृष्णेति के वदन्ति मुहुर्मुहुः ॥केचिन्नृत्यंति गायंति हरिकीर्तनतत्पराः ॥२४॥मृदंगतालवादित्रैः कांस्यवीणामनोहरैः ॥मंदिरे मंदिरे विष्णोः कीर्तनं श्रूयते जनैः ॥२५॥नवलक्षणसंयुक्तां भक्तिं यां प्रेमलक्षणाम् ॥कुर्वंति मैथिला राजन् मिथिलायां गृहे गृहे ॥२६॥एवं तु नगरीं दृष्ट्वा प्रद्युम्नो भगवान्हरिः ॥राजद्वारं समेत्याशु मैथिलेशं ददर्श ह ॥२७॥मैथिलेशसभायां तु वेदव्यासः शुको मुनिः ॥याज्ञवल्क्यो वसिष्ठश्च गौतमोऽहं बृहस्पतिः ॥२८॥अन्ये च मुनयस्तत्र वेदमूर्तिधरा इव ॥दृश्यन्ते धर्मवक्तारो हरिनिष्ठा इतस्ततः ॥ २९॥मैथिलेंद्रो धृतिस्तत्र भक्तिभावनताननः ॥बलस्य पादुकापूजां कुरुते विधिवन्नृप ॥३०॥जपन्मुक्तिकरं नाम श्रीकृष्णबलदेवयोः ॥दृष्ट्वोत्थाय नमश्चक्रे सशिष्यं ब्रह्मचारिणम् ॥३१॥तं पूजयित्वा विधिवत् पाद्याद्यैर्मैथिलेश्वरः ॥कृतांजलिपुटो राजा तदग्रे च स्थितोऽभवत् ॥३२॥जनक उवाच -अद्य मे सपलं जन्म मंदिरं विशदीकृतम् ॥देवर्षिपितरः सर्वे संतुष्टा आगते त्वयि ॥३३॥निर्विकल्पाः समदृशस्त्वादृशाः साधवः क्षितौ ॥निःश्रेयसाय भगवन्दीनानां विचरंति हि ॥३४॥ब्रह्मचार्युवाच -धन्योऽसि राजशार्दूल धन्या ते मिथिलापुरी ॥धन्याः प्रजाश्च ते सर्वा विष्णुभक्तिसमन्विताः ॥३५॥जनक उवाच -ममेयं नगरी नास्ति न प्रजा न गृहं धनम्॥कलत्रपुत्रपौत्रादि सर्वं कृष्णस्य चैव हि ॥३६॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥असंख्यब्रह्मांडपतिर्गोलोके धाम्नि राजते ॥३७॥वासुदेवः संकर्षणः प्रद्युम्नः पुरुषः स्वयम् ॥अनिरुद्धस्तथा चैकश्चतुर्व्यूहोऽभवत् क्षितौ ॥३८॥कायेन मनसा वाचा बुद्ध्या वाचेंद्रियैः कृतम् ॥तस्मै समर्पितं शौक्ल्यं मया ब्रह्मन्महामुने ॥३९॥ब्रह्मचार्युवाच -हे वैदेह महाभाग विष्णुभक्तिमतां वर ॥त्वद्भक्त्या तोषितः कृष्णस्तवैकत्वं प्रदास्यति ॥४०॥जनक उवाच -दासोऽहं कृष्णभक्तानां त्वादृशानां महात्मनाम् ॥मुक्तिं नेच्छामि हे ब्रह्मन्नेकतां हेतुवर्जितः ॥४१॥ब्रह्मचार्युवाच -करोष्यहैतुकीं भक्तिं राजंस्त्वं हेतुवर्जितः ॥निर्गुणैर्भक्तिभावैश्च प्रेमलक्षणसंयुतः ॥४२॥प्रद्युम्नो भगवान्साक्षाद्दिग्जयार्थं विनिर्गतः ॥नायातस्तव गेहेषु संदेहो मे महानभूत् ॥४३॥जनक उवाच -प्रद्युम्नो भगवान्साक्षादंतर्यामी हरिः स्वयम् ॥सर्वगः सर्वविच्छश्वदत्र नास्ति च किं प्रभो ॥४४॥ब्रह्मचार्युवाच -ज्ञानदृष्ट्यापि चेत्कार्ष्णिं मन्यसेऽत्र निरंतरम् ॥तर्हि दर्शय तं देवं प्रह्लाद इव दिव्यदृक् ॥४५॥श्रीनारद उवाच -एतच्छ्रुत्वा तदा राजा महाभागवतो धृतिः ॥अश्रुपूर्णमुखो भूत्वा प्राह गद्गदया गिरा ॥४६॥जनक उवाच -यदि मे श्रीहरेर्भक्तिरनिमित्ता कृता भुवि ॥तर्हि कार्ष्णिर्हरेः पुत्रः प्रादुर्भूयान्ममाग्रतः ॥४७॥यदि श्रीकृष्णभक्तानां दासोऽहं यदि तत्कृपा ॥सर्वत्र यदि तद्भावस्तर्हि भूयान्मनोरथः ॥४८॥श्रीनारद उवाच -प्रादुर्बभूवाशु तदैव कार्ष्णि-र्विसृज्य सद्यः किल वर्णरूपम् ॥पश्यत्सु सर्वेषु जनेषु शिष्यःस गद्गदोऽभूद्धरिभक्तिनिष्ठः ॥४९॥घनप्रभं पद्मदलायतेक्षणंप्रलंबबाहुं जगतां मनोहरम् ॥पीतांबरं नीलगुडालकालिभीःस्वलंकृतं श्रीमुखपद्ममंडलम् ॥५०॥शीतर्तुबालार्ककिरीटकुंडलंकाच्यंगदस्फूर्जितदिव्यविग्रहम् ॥विलोक्य तं कृष्णसुतं कृतांजलि-र्ननाम साष्टांगमलं धृतिर्नृपः ॥५१॥जनक उवाच -अहोऽतिधन्यं मम भूरि भाग्यंदत्तं त्वया मे निजदर्शनं हि ॥जातोऽद्य कायाधवतुल्य आरा-द्गृहं कृतार्थोऽस्मि कुलेन भूमन् ॥५२॥श्रीप्रद्युम्न उवाच -धन्यस्त्वं नृपशार्दूल भक्तस्त्वं मत्प्रभाववित् ॥भक्तिभावपरीक्षार्थं प्राप्तोऽहं तव सांप्रतम् ॥५३॥अद्यैव मम सारूप्यं भूयात्ते मैथिलेश्वर ॥बलमायुर्यशःकीर्तिरिह लोके भवत्वलम् ॥५४॥श्रीनारद उवाच -तव पित्रा च धृतिना पूजितः पश्यतां सताम् ॥प्रययौ शिबिरान् राजन् प्रद्युम्नो भक्तवत्सलः ॥५५॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे जनकोपाख्यानं नाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP