संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता मरुत्तोपाख्यानम् Translation - भाषांतर श्री भगवानुवाच -नमो भगवते तुभ्यं वासुदेवाय साक्षिणे ॥प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ॥१॥अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥२॥श्रीगर्ग उवाच -इत्थं श्रीकृष्णचरितं मया ते कथितं मुने ॥चतुष्पदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥३॥शौनक उवाच -बहुलाश्वो मैथिलेंद्रः श्रीकृष्णेष्टो हरिप्रियः ॥किं पप्रच्छाथ देवर्षिं तन्मे ब्रूहि तपोधन ॥४॥श्रीगर्ग उवाच -उग्रसेनं यादवेंद्रं श्रीकृष्णेन कृतं मुने ॥श्रुत्वातिविस्मितो राजा नारदं प्राह मैथिलः ॥५॥बहुलाश्व उवाच -को वायं मरुतो राजा केन पुण्येन भूतले ॥यादवेंद्रो महाबुद्धिरुग्रसेनो बभूव ह ॥६॥यस्य श्रीकृष्णचन्द्रोऽपि सहायोऽभूद्धरिः स्वयम् ॥तस्याहो महिमानं मे ब्रूहि देवर्षिसत्तम ॥७॥श्रीनारद उवाच -सूर्यवंशोद्भवो राजा चक्रवर्ती कृते युगे ॥यज्ञं चकार विधिवन्मरुतो यो जगज्जितः ॥८॥महासम्भृतसम्भारैर्हिमाद्रेः पार्श्व उत्तरे ॥संवर्तं मुनिशार्दूलं गुरुं कृत्वा हि दीक्षितः ॥९॥पंचयोजनविस्तीर्णः कुण्डोऽभूद्यस्य चाध्वरे ॥योजनं ब्रह्मकुण्डस्तु गव्यूतिः पंच कुंडकाः ॥१०॥मेखलागर्तविस्तारवेदीभिर्निर्मिता दश ॥सहस्रहस्तमुच्चाङ्गो यज्ञस्तंभो बभौ महान् ॥११॥विंशद्योजनविस्तीर्णः सौवर्णो यज्ञमण्डपः ॥वितानतोरणै रेजे कदलीषंडमण्डितः ॥१२॥ब्रह्मरुद्रादयो देवाः सगणास्तत्र चागताः ॥ऋषयो मुनयः सर्वे तस्य यज्ञं समाययुः ॥१३॥होतारो दश लक्षाणि दश लक्षाणि दीक्षिताः ॥अध्वर्यवः पंचलक्षमुद्गातारस्तथा परे ॥१४॥आहूतास्तत्र विद्वांसश्चतुर्वेदविदो द्विजाः ॥सर्वशास्त्रार्थ तत्वज्ञाः कोटिशोऽन्ये प्रपूजिताः ॥१५॥हस्तिशुण्डासमां धारां भुक्त्वाऽऽज्यस्य हुताशनः ॥अजिर्णं प्राप तद्यज्ञे न चित्रं विद्धि मैथिल ॥१६॥येभ्यो भागं वदन्तीह विश्वेदेवाः सभासदः ॥तेभ्यस्तेभ्यो ददुर्वा ताः परिवेष्टार एव ते ॥१७॥केऽपि जीवास्त्रिलोक्यां तु न बभूवुर्बुभुक्षिताः ॥सर्वे देवास्तु सोमेन ह्यजीर्णत्वमुपागताः ॥१८॥संवर्ताय ददौ राज्यं जंबूद्वीपस्य चाध्वरे ॥गजानां हेमभाराणां नियुतानि चतुर्दश ॥१९॥शतार्बुदं हयानां तु यज्ञांते दक्षिणां नृप ॥कोटिशो नवरत्नानां महार्हाणां महात्मने ॥२०॥हयानां पंचसाहस्रं गजानां शतमेव च ॥शतभारं सुवर्णानां ब्राह्मणे ब्राह्मणे ददौ ॥२१॥जलभोजनपात्राणि हैमानि प्रस्फुरंति च ॥भुक्त्वा तानि विसृज्याशु गतास्तुष्टा द्विजातयः ॥२२॥विप्रत्यक्तैः स्वर्णपात्रैरुच्छिष्टैर्नृप वर्जितैः ॥हिमाद्रिपार्श्वे शैलोऽभूदद्यापि शतयोजनम् ॥२३॥मरुतस्य यथा यज्ञो न तथान्यस्य कर्हिचित् ॥त्रिलोक्यां शृणु राजेन्द्र न भूतो न भविष्यति ॥२४॥यज्ञकुण्डाद्विनिर्गत्य परिपूर्णतमः स्वयम् ॥आत्मानं दर्शयामास मरुताय महात्मने ॥२५॥तमालोक्य हरिं नत्वा कृतांजलिपुटो नृपः ॥गदितुं न समर्थोऽभूद्रोमांची प्रेमविह्वलः ॥२६॥तं प्रेमपूरितं दृष्ट्वा पतितं पादयोर्नतम् ॥उवाच भगवान्साक्षान्मेघगंभीरया गिरा ॥२७॥श्रीभगवनुवाच -राजंस्त्वयाहं विनयेन तोषितोनिष्कारणैर्यज्ञपरैः समर्चितः ॥वरं परं ब्रूहि महामते त्वरंदास्यामि देवैरपि दुर्लभं दिवि ॥२८॥श्रीनारद उवाच -श्रुत्वा तु राजा मरुतः कृतांजलिःप्रदक्षिणीकृत्य हरिं परमेश्वरम् ॥संपुज्य भक्त्या विशदोपचारकै-र्नत्वा भृशं गद्गदया गिराब्रवीत् ॥२९॥मरुत उवाच -न वेद्म्यहं त्वच्चरणारविंदतोवरं परं श्रीपुरुषोत्तमोत्तम ॥समेत्य गंगा तृषितातिदुर्धियःखनंति कूपं हि यथा नरेतराः ॥३०॥तथापि याचे तव वाक्यगौरवा-त्पादारविंदं हृदयारविंदात् ॥कदापि मे मा व्रजतु व्रजेश्वरमूलं चतुर्णां विदुरर्थसंपदाम् ॥३१॥श्रीभगवानुवाच -धन्यऽस्ति राजंस्तव निर्मला मतिःप्रलोभितस्यापि वरैर्न कामभृत् ॥तथापि मत्तो वरयेप्सितं वरं विनाफलं भक्तसुखान्न मे सुखम् ॥३२॥मरुत उवाच -देयं यदा मे वरमीप्सितं प्रभोवैकुण्ठलोकं कुरुताद्धरातले ॥रक्ष स्थितं मां निजभक्तवत्सलतस्मिन्पुरे भक्तजनैः परैः सह ॥३३॥श्रीभगवानुवाच -अस्मिन्मनौ देवमनोरथाब्धिंगतेषु विंशेषु युगेषु चाष्टौ ॥गत्वाथ नाकं धरणीं समेत्यमया हि गोवत्सपदं करिष्यसि ॥३४॥श्रीनारद उवाच -इत्युक्त्वा भगवान्साक्षात्तत्रैवांतरधीयत ॥सोऽयं तु मरुतो राजा ह्युग्रसेनो बभूव ह ॥३५॥तं यज्ञं कारयामास राजसूयं हरिः स्वयम् ॥किं दुर्लभं त्रिलोक्यां तु भक्तानां मैथिलेश्वर ॥३६॥मरुतस्यापि चरितं यः शृणोति नृपोत्तम ॥तस्य ज्ञानं सवैराग्यं भक्तियुक्तं प्रजायते ॥३७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीमरुतोपाख्यानं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP