संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १२ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता प्रद्युम्नस्य अगस्त्यात् उपदेशप्रार्थना Translation - भाषांतर श्रीनारद उवाच -अर्णवं दक्षिणं स्नात्वा प्रद्युम्नो यादवाधिपः ॥उशीनरांस्ततो जेतुमाजगाम बलैः सह ॥१॥कोटिशः कोटिशो गावो यत्र देशे चरंति हि ॥गोपालमंडलैर्युक्ता व्रजंत्यो भव्यमूर्तयः ॥२॥औशीनराः क्षीरपाना गौरवर्णा मनोहराः ॥हय्यंगवीनमादाय ते ययुः कार्ष्णिसंमुखे ॥३॥तैः पूजितः शम्बरारिर्ददौ तेभ्यो महाधनम् ॥गजान् रथान् हयान् रत्नवस्त्रभूषादि हर्षितः ॥४॥चंपावती नाम पुरी मणिरत्नसमन्विता ॥विराजते यत्र नृपैः सर्पैर्भोगवती यथा ॥५॥चंपावतीपतिर्वीरो नाम्ना हेमांगदो नृपः ॥नीत्वा बलिं समेत्याशु श्रीकार्ष्णिं प्रणनाम ह ॥६॥तस्मै तुष्टः शंबरारिर्मालां किंजल्किनीं ददौ ॥सहस्रदलशोभाढ्यं पद्मं दिव्यं ददौ पुनः ॥७॥अथ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥विदर्भान्प्रययौ धन्वी दुंदुभीन्नादयन्मुहुः ॥८॥भीष्मकः कुंडिनपतिरागतं रुक्मिणीसुतम् ॥आनीय पूजयामास ससैन्यं बहुभिर्धनैः ॥९॥मातामहं ततो नत्वा रुक्मिणीनंदनो बली ॥कुंतदेशांश्च दरदान्प्रययौ यादवेश्वरः ॥१०॥मलयाचलपाटीरवायुभिः परिसेवितः ॥श्रीखंडकेतकीपुष्पगंधाक्ते मलयाचले ॥११॥अगस्त्यं मुनिशार्दूलं पीताब्धिं स ददर्श ह ॥कृतांजलिपुटः कार्ष्णिर्नमस्कृत्य महामुनिम् ॥स्थितोऽभूदुटजे साक्षादाशीर्भिरभिनंदितः ॥१२॥श्रीप्रद्युम्न उवाच -दृश्यं पदार्थ तु जगत्सत्यवद्वर्तते कथम् ॥मुक्तो ब्रह्मांशको भूत्वा बद्ध्यतेऽयं कथं गुणैः ॥१३॥एतत्प्रश्नं मम ब्रूहि नितरां मुनिसत्तम ॥त्वं सर्वविद्दिव्यचक्षुः सर्वब्रह्मविदां वरः ॥१४॥अगस्त्य उवाच -त्वं साक्षात्कृष्णचंद्रस्य परिपूर्णतमस्य च ॥पुत्रोऽसि पृच्छसे मां वै लीलामात्रमिदं वचः ॥१५॥लोकसंग्रहमेवार्थं कुर्वन्देवो हरिर्यथा ॥तथा नृणां च कल्याणं कुर्वन्विचरसि प्रभो ॥१६॥यथा सत्यस्य सूर्यस्य बिंबं वारिषु सत्यवत् ॥दृश्यते सत्यवद्दृश्यं प्रधानपरयोस्तथा ॥१७॥काचे मुखं गुणे सर्पं सैकते जीवनं यथा ॥तथायं सन्देहगुणैर्बद्ध्यते प्रेक्षता स्वयम् ॥१८॥प्रद्युम्न उवाच -कथं न बद्ध्यते देही येनोपायेन तद्वद ॥वैराग्येण दृढेनापि ब्रूहि ब्रह्मविदां वर ॥१९॥अगस्त्य उवाच -विवेकं यः समाश्रित्य भजेद्ब्रह्म सनातनम् ॥मनोमयं जगन्मत्त्वा स व्रजेत्परमं पदम् ॥२०॥जन्ममृत्यू शोकमोहौ जराबालयुवादयः ॥अहं मदो व्याधिभयं दुःखं शोकः क्षुधा रतिः ॥२१॥आधिर्भयं तस्य राजन्न भवेत कदाचन ॥आत्मा निरीहो ह्यतनुः सर्वतश्चानहंकृतिः ॥शुद्धो गुणाश्रयः साक्षात्परो निष्कल आत्मदृक् ॥२२॥ज्ञानात्मकः सदा पूर्णो विदितो यो मुनीश्वरैः ॥तं ब्रह्म परमात्मनं ज्ञात्वायं विचरेत्सुखी ॥२३॥अस्मिञ्छयाने जागर्ति सर्वं पश्यति यः पुमान् ॥नायं तं वेत्ति पश्यंतं न पश्यति कदाचन ॥२४॥नभोऽग्निपवनाः कोष्ठकाष्ठप्रोद्गतरेणुभिः ॥न सज्जंते गुणैर्ब्रह्म वर्णश्च स्फटिको यथा॥२५॥लक्षणाभिर्ध्वनिव्यंग्यैर्ज्ञायते न कदाचन ॥कुतस्तु लौकिकैर्वाक्यैस्तस्मै श्रीब्रह्मणे नमः ॥२६॥केचित्कर्म वदंत्येनं केचित्कालं तथाऽपरे ॥कर्तारं योगमपरे सांख्यं ब्रह्म वदंति कम् ॥२७॥केचित्तं परमात्मानं वासुदेवं वदंति के ॥प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ॥२८॥विचार्य तद्ब्रह्म परं निःसंगो विचरेदिह ॥यथांभसा प्रचलता तरवोऽपि चला इव ॥२९॥चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥तथा गुणानां भ्रमणो भ्रमता मनसा यतः ॥३०॥भ्राम्यमाणः सदा राजन्करेणालातचक्रवत् ॥करिष्यामि करोमीति ममेदं तव चाब्रुवन् ॥त्वमहं च सुखी दुःखी सदाज्ञानविमोहितः ॥३१॥सत्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ॥तैरिदं जगदाव्याप्तमोतप्रोतपटं यथा ॥३२॥ऊर्ध्वं गच्छंति सत्वस्था मध्ये तिष्ठंति राजसाः ॥जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः ॥३३॥अंधकारे गुणात्कार्ष्णे सर्पबुद्धिर्भवेद्यथा ॥आरान्मरीचिकां वारि तथेदं मन्यते जगत् ॥३४॥गतागतं सुखं विद्धि यथा मंडलवर्तिनाम् ॥तथा नॄणां च तद्दुःखं यथा नरकवासिनाम् ॥घनावलिर्देहगुणा अहोरात्रमृतेर्यथा ॥३५॥यथा सार्थं तथा दृश्यं न किंचित्सर्वदैव हि ॥पक्षे जाते यथा नीडात्पारे याते यथोडुपात् ॥३६॥ज्ञाने प्राप्ते तथा लोकाद्दर्पणात्किं प्रयोजनम् ॥तथा मार्गं निधायाशु विचरेत्समदृङ्मुनिः ॥३७॥यथेन्दुरुदपात्रेषु यथाऽग्निः काष्ठसंचये ॥तथैको भगवान्साक्षात्परमात्मा व्यवस्थितः ॥३८॥घटे मठे यथाऽऽकाशो वर्ततेऽन्तर्बहिर्महान् ॥तथा परात्मा निर्लिप्तो देहिषु स्वकृतेषु च ॥३९॥यः कृष्णभक्तः शांतात्मा ज्ञाननिष्ठो विरागवान् ॥तं न स्पृशंतीह गुणाः कानीव बिसिनीदलम् ॥४०॥ज्ञानी सदानंदमयो बालवद्विचरेत्तनुम् ॥न पश्यति धृतं वासो मदिरामदमत्तवत् ॥४१॥सूर्योदये यथा वस्तु गृहे राजन् प्रदृश्यते ॥दूरीकृत्य तथाज्ञानं साक्षात्तत्त्वं ततो बृहत् ॥४२॥यथेन्द्रियं पृथग्द्वारैरर्थो बहुगुणाश्रयः ॥नानेयते तथा ब्रह्म वाचिभिः शास्त्रवर्त्मभिः ॥४३॥परं पदं वदंत्येतत्केचिद्वै वैष्णवं नृप ॥केचिद्वै व्याप्य वैकुंठं शांतं केऽपि ततः परम् ॥४४॥कैवल्यं तद्ब्रह्म केचित्परमं धाम चाव्ययम् ॥अक्षरं च परां काष्ठां गोलोकं प्रकृतेः परम् ॥४५॥केचिन्निकुंजं विशदं वदन्तीह पुराविदः ॥ज्ञानवैराग्यभक्तिभ्यः प्राप्नोतीह न चान्यतः ॥४६॥श्रीकृष्णचण्द्रस्य हरेः परस्यकैवल्यनाथस्य परात्परस्य ॥व्रजेत्पदं श्रीपुरुषोत्तमस्ययत्प्राप्य भक्तो न निवर्ततेऽथ ॥४७॥श्रीनारद उवाच -इति भागवतं ज्ञानं श्रुत्वा कार्ष्णिर्महामुनिम् ॥अगस्त्यं पूजयामास भक्त्या नत्वा कृतांजलिः ॥४८॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे उशीनरविदर्भकुंतदरददेशविजये अगस्त्यकार्ष्णिज्ञानप्रस्तावो नाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP