संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २० विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कौरव-यादवयुद्धम् Translation - भाषांतर श्रीनारद उवाच -तदैव कौरवाः सर्वे निर्गता दीप्तमन्यवः ॥स्वैः स्वैर्बलैः समायुक्ता योद्धुं प्रद्युम्नसंमुखे ॥१॥विजयध्वजसंयुक्ता रत्नकंबलमण्डिताः ॥गजाः षष्टिसहस्राणि निर्ययुः स्वर्णशृंखलाः ॥२॥प्रलयाब्धिमहावर्तसंघर्षध्वनिकारिणाम् ॥गजाः षष्टिसहस्राणि दुंदुभीनां विनिर्गताः ॥३॥गजा गावो बृहद्भल्ला लोहकंचुकमंडिताः ॥शिरस्रङ्मौलिसंयुक्ता द्विलक्षाणि विनिर्ययुः ॥४॥हेमकंकणकेयूरकिरीटवरकुंडलाः ॥गजस्थाश्च द्विलक्षाणि निर्ययुः स्वर्णकंचुकाः ॥५॥पीतकंचुकसंयुक्तास्तिर्यगुष्णीषशालिनः ॥गजस्थाश्च द्विलक्षाणि संग्रामे लब्धकीर्तयः ॥६॥रक्तांबरधराः केचिद्रक्तभूषणभूषिताः ॥रक्तकंबलसंयुक्तैर्गजैरुच्चैर्विनिर्गताः ॥७॥कृष्णांबरधरा नागैर्हरिद्वस्त्रसमावृताः ॥केचिच्छुक्लांबराः केचिन्निर्ययुः पाटलांबराः ॥८॥रथैश्च देवधिष्ण्याभैर्मृगेंद्रध्वजशोभितैः ॥पतत्पताकैरत्युच्चैर्निर्ययुः कोटिशो नृपाः ॥९॥आंगैर्बांगैः सैंधवैश्च चंचलैस्तुरगैर्नृपाः ॥मनोजवैः स्वर्णभूषैर्निर्ययुः शस्त्रसंवृताः ॥१०॥समंतान्निर्ययुर्वीरा लोहकंचुकण्डीताः ॥विद्याधरसमा राजन्संकुला युद्धशालिनः ॥११॥जगुर्यशः कौरवाणां सूतमागधवन्दिनः ॥भेरीमृदंगैः पटहैरानकैर्युद्धनिःस्वनैः ॥१२॥मृगेन्द्रध्वजसंयुक्तैः शुक्लवाहनियोजितैः ॥व्यजनैर्वज्रदण्डैश्च चामरांदोलराजितैः ॥१३॥चतुर्योजनमात्रेण चंद्रमण्डलचारुणा ॥छत्रेण मण्डिते राजभिर्दत्तेन मनोहरे ॥१४॥दुर्योधनो बभौ सैन्ये महति स्यंदने स्थितः ॥तथाऽन्ये धार्तराष्ट्राश्च स्यन्दने स्यन्दने स्थिताः ॥१५॥चतुर्योजनमात्रैश्च छत्रैर्मुक्ताविलंबिभिः ॥सुरथेनातिभीष्मेण कृपेण गुरुणा सह ॥१६॥बाह्लीककर्णशल्यैश्च सोमदत्तेन धीमता ॥अश्वत्थाम्ना च धौम्येन लक्ष्मणेन धनुष्मता ॥१७॥शकुनिना च वीरेण तथा दुःशासनेन च ॥संजयेन तथा साक्षाद्भूरिणा यज्ञकेतुना ॥१८॥सुयोधनो नृपो रेजे यथा शक्रो मरुद्गणैः ॥इन्द्रप्रस्थात्पांडुपुत्रैः प्रेषितं पृतनाद्वयम् ॥१९॥तदैव चागतं राजन् कौरवाणां सहायकृत् ॥अक्षौहिणीभिः षोडशभिः कुरूणां चलतां तदा ॥२०॥चचाल भूर्दिशो नेदू रजोव्याप्तं नभोऽभवत् ॥तारकेव बभौ सूर्यो गजाश्वरथरेणूभिः ॥२१॥अंधकारोऽभवद्भूमौ देवाः सर्वेऽपि शंकिताः ॥यत्र तत्र गजानां च नोदनाभिश्च भूरुहाः ॥२२॥निपेतुस्तुरगैर्वीरैः क्षणं भूखण्डमण्डलम् ॥सेना कुरूणां वृष्णीनां युयुधुश्च परस्परम् ॥२३॥तीक्ष्णैः शस्त्रैर्यथा सप्त समुद्रास्तरलैर्लये ॥हया हयैरिभाश्चेभै रथिनो रथिभिः सह ॥२४॥श्येनैः श्येना इव क्रव्ये पत्तयः पत्तिभिर्मृधे ॥महामात्यैर्महामात्याः सूताः सूतैर्नृपैर्नृपाः ॥२५॥युयुधुः क्रोधसंयुक्ताः सिंहैः सिंहा इवौजसा ॥खड्गैः कुंतैः शक्तिभिश्च भल्लैः पट्टिशमुद्गरैः ॥२६॥गदाभिर्मुसलैश्चक्रैस्तोमरैर्भिंदिपालकैः ॥शतघ्नीभिर्भुशुण्डीभिः कुठारैश्च स्फुरत्प्रभैः ॥२७॥चिच्छिदुर्बाणपटलैः शिरांसि क्रोधमूर्च्छिताः ॥बाणांधकारे संजाते प्रद्युम्नो धन्विनां वरः ॥२८॥दुर्योधनेन युयुधे धनुष्टंकारयन्मुहुः ॥अनिरुद्धश्च भीष्मेण दीप्तिमांश्च कृपेण वै ॥२९॥भानुर्द्रोणेन सांबास्तु बाह्लीकेन नृपेश्वरः ॥मधुः कर्णेन चायुध्यद्बृहद्भानुः शलेन वै ॥३०॥चित्रभानुर्हरेः पुत्रः सोमदत्तेन धीमता ॥अश्वत्थाम्ना वृकश्चैवारुणो धौम्येन मैथिल ॥३१॥पुष्करो लक्ष्मणेनाशु दुर्योधनसुतेन वै ॥वेदबाहुः कृष्णसुतः शकुनेन महामृधे ॥३२॥दुःशासनेन समरे श्रुतदेवो हरेः सुतः ॥तथा हि युयुधे युद्धे संजयेन सुनंदनः ॥३३॥विदुरेण गदः साक्षात्कृतवर्मा च भूरिणा ॥अक्रूरो युयुधे राजन्नाहवे यज्ञकेतुना ॥३४॥एवं परस्परं युद्धं बभूव तुमुलं महत् ॥कार्ष्णिर्विलोकयामास दुर्योधनबलं महत् ॥३५॥बाणसंधेन वाराहो दंष्ट्रया च यथार्णवम् ॥बाणसंभिन्नकुम्भानां करिणां प्रपतंति खात् ॥३६॥मुक्ताफलानि रेजुः कौ रात्रौ तारागणा इव ॥बाणैः संपातयामासू रथिनः सारथीन् रथान् ॥३७॥महामृधे मैथिलेंद्र वेगैर्वातो यथा तरून् ॥दुर्योधनस्तदा प्राप्तो धनुष्टंकारयन्मुहुः ॥३८॥प्रद्युम्नं ताडयामास सायकैर्दशभिर्मृधे ॥तान्प्रचिच्छेद भगवान् प्रद्युम्नो यादवेश्वरः ॥३९॥दुर्योधनः पुनस्तस्य कवचे सायकान् दश ॥निचखान स्वर्णपुंखान् भित्वा वर्म तनौ गताः ॥४०॥सहस्रैर्बाणपटलैः सहस्राश्वाञ्जघान ह ॥चिच्छेद बाणशतकैः कोदण्डं सगुणं परम् ॥४१॥शंबरारेर्महावीरो धृतराष्ट्रसुतो बली ॥प्रद्युम्नस्तं रथं त्यक्त्वाथान्यमारुह्य सत्वरम् ॥५२॥कृष्णदत्तं धनुर्नीत्वा सज्जं कृत्वा विधानतः ॥एकं बाणं समाधाय कर्णांतं तञ्चकर्ष ह ॥४३॥भुजदण्डस्य वेगेन तद्रथे निचकर्ष ह ॥गृहीत्वा तद्रथं बाणो भ्रामयित्वा घटीद्वयम् ॥४४॥आकाशात्पातयामास कमण्डलुमिवार्भकः ।पतनेन रथः सद्यश्चूर्णीभूतो बभूव ह ॥४५॥ससूताश्च हयाः सर्वे पञ्चतां प्रापुरग्रतः ॥अन्यं रथं समास्थाय धार्तराष्ट्रो महाबलः ॥४६॥प्रद्युम्नं ताडयामास दशभिः सायकैमृधे ॥तैस्ताडितो हरेः पुत्रो मालाहत इव द्विपः ॥४७॥कृष्णदत्ते च कोदण्दे तथैकं बाणमादधे ॥बाणस्तं सरथं नीत्वा यावत्प्रागान्महांबरे ॥४८॥तावद्बाणो द्वितीयोऽपि तं गृहीत्वा ययौ त्वरम् ॥तावत्तृतीयः संप्राप्तो नीत्वा तं मंदिराजिरे ॥४९॥धृतराष्ट्रसमीपे च सरथं साश्वसारथिम् ॥आकाशात्पातयामास पद्मकोशमिवानिलः ॥५०॥बाणस्तं पातयित्वा तु रणे कार्ष्णिं समाययौ ॥५१॥पतनेन विशीर्णोऽभूदंगार इव तद्रथः ॥सुयोधनो मूर्च्छितोऽभूदुद्वमन् रुधिरं मुखात् ॥५२॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कौरवयुद्धवर्णनं नाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP