संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २९ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता हिरण्यखण्डविजयम् Translation - भाषांतर श्री नारद उवाच -प्रद्युम्नोऽथ महाबाहुर्जित्वाऽऽरादुत्तरान्कुरुन् ॥हिरण्मयं नाम खंडं जेतुं कार्ष्णिर्जगाम ह ॥१॥यत्र सीमागिरिर्दीर्घः स्रोतो नाम स्फुरद्द्युतिः ॥तत्र कूर्मो हरिः साक्षादर्यमा यस्य देशिकः ॥२॥पुष्पमालानदीतीरे नाम्ना चित्रवनं महत् ॥सपुष्पफलभाराढ्यं कन्दमूलनिधिः स्वतः ॥३॥वानराः संति तत्रापि वंशजा नलनीलयोः ॥न्यस्ताः श्रीरामचन्द्रेण त्रेतायां मैथिलेश्वर ॥४॥सैन्यघोषं च तं श्रुत्वा युद्धकामा विनिर्गताः ॥प्रद्युम्नसैन्ये चोत्पेतुर्भ्रूभंगैः क्रोधमूर्च्छिताः ॥५॥नखैर्दंतैश्च लांगूलैर्गजानश्वान्नरान्नृप ॥लांगूलैश्च रथान्बध्वा चिक्षिपुश्चांबरे बलात् ॥६॥विजयध्वजनाथस्य विजयश्चार्जुनस्य च ॥रथं बद्ध्वाथ लांगूले केचिदुत्पेतुरंबरे ॥७॥कपिध्वजध्वजे साक्षात्कपींद्रो भगवान्प्रभुः ॥क्रोधाढ्यः फाल्गुनसखः समग्रं सर्वतो दिशम् ॥८॥लांगूलेन च तान्बद्ध्वा पातयामास भूतले ॥तदा प्रहर्षिताः सर्वे ज्ञात्वा श्रीरामकिंकराः ॥९॥नेमुस्तं सर्वतो राजन् कृतांजलिपुटाः शनैः ॥केचिदालिंगनं चक्रुः केचिदुत्पेतुरोजसा ॥१०॥केचिच्चुचुंबुर्लांगूलं केचित्पादं च वानराः ॥तानालिंग्य महावीराः स्पृष्ट्वा सत्पाणिना पुनः ॥११॥दत्वाऽऽशिषं तत्कुशलं पप्रच्छाथांजनीसुतः ॥नत्वा तं वानराः सर्वे जग्मुश्चित्रवनं नृप ॥१२॥हनुमानर्जुनस्यापि ध्वजे ह्यंतरधीयत ॥मकराख्यात्ततो देशात्प्रद्युम्नो मीनकेतनः ॥१३॥ययौ वृष्णिवरैः सार्द्धं दुन्दुभीन् वादयन्मुहुः ॥मकरस्य गिरेः पार्श्वे दुन्दुभिध्वनिभिस्ततः ॥१४॥मधुभक्ष्या मधुकराः कोटिशः प्रोथिताः किल ॥तैर्दंशितं बलं सर्वं हस्तिचीत्कारसंयुतम् ॥१५॥तदा कार्ष्णिर्महाबाहुः पवनास्त्रं समादधे ॥तद्वातताडीता राजन्गतास्तेऽपि दिशो दश ॥१६॥तत्र देशे जना राजन् सर्वे वै मकराननाः ॥ततस्तु डिंडिभो देशस्तत्र हस्तिमुखा जनाः ॥१७॥एवं देशांस्ततः पश्यंस्त्रिशृङ्गविषयान्गतः ॥कार्ष्णिर्ददर्श तत्रापि मनुष्या शृङ्गधारिणः ॥१८॥त्रिशृङ्गस्य गिरेः पार्श्वे नगरीं स्वर्णचर्चिकाम् ॥हेमसौधमयीं दिव्यां रत्नप्राकारमंडिताम् ॥१९॥हिरण्यवर्णैः पुरुषैः स्त्रीजनैश्च तडिद्द्युभिः ॥नागैश्च नागकन्याभिः पुरीं भोगवतीमिव ॥२०॥चन्द्रकांतानदीतीरे शोभितां मंगलालयाम् ॥कार्ष्णिः समाययौ राजन् यथा शक्रोऽमरावतीम् ॥२१॥तत्र राजा महावीरो नाम्ना देवसखो बली ॥स मन्मुखाद्बलं श्रुत्वा बलिं नीत्वा हिरण्मयम् ॥२२॥प्रद्युम्नं पूजयामास भक्त्या परमया पुनः ॥तं पप्रच्छ महाबाहुः प्रद्युम्नो भगवान्हरिः ॥२३॥चन्द्रवत्ते कथं शोभा सर्वेषां च वदाशु मे ॥देवसखा उवाच -अर्यम्णा पितृपतिना कूर्मरूपस्य मापतेः ॥२४॥अङ्घ्रीप्रक्षलितौ तेन वारिणाभून्महानदी ॥श्वेतपर्वतशृङ्गाच्चावतरंती यदूत्तम ॥२५॥प्रमेधाख्यो मनुसुतो गोपालो गुरुणा कृतः ॥जघान कपिलां रात्रावसितां सिंहशंकया ॥२६॥वसिष्ठेन तदा शप्तः शूद्रत्वं समुपागतः ॥कुष्ठेन पीडिततनुः पर्यटंस्तीर्थमाचरन् ॥२७॥अस्यां नद्यां यदा स्नातो गलत्कुष्ठान्मनोः सुतः ॥मुक्तोऽभूच्चन्द्रवत्तस्य देहशोभा बभूव ह ॥२८॥चन्द्रकांता नदी चेयं प्रसिद्धाऽभूद्धिरण्मये ॥तस्यां मुक्तो यतः स्नात्वा गलत्कुष्ठान्मनोः सुतः ॥२९॥ततः स्नानं च कर्तारो वयं सर्वे नृपोत्तम ॥रूपेण चन्द्रतुल्याः कौ भवामोऽत्र न संशयः ॥३०॥श्रीनारद उवाच -इति श्रुत्वा महाबाहु प्रद्युम्नो यादवैः सह ॥चन्द्रकांतां नदीं स्नात्वा ददौ दानान्यनेकशः ॥३१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे हिरण्मयखंडविजयो नामैकोनत्रिंशोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP