संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४० विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता शकुनियुद्धे गरुडागमनम् Translation - भाषांतर श्रीनारद उवाच -दैत्ये गतेऽथ शकुनौ भगवान्कमलेक्षणः ॥कार्ष्ण्यादियादवान्सर्वा-नाहूयेत्थमुवाच ह ॥१॥श्रीभगवानुवाच -दैत्योऽयं शकुनिः पूर्वं सुमेरोः पार्श्व उत्तरे ॥चतुर्युगं वर्जितान्नस्तपसातोषयच्छिवम् ॥२॥चतुर्युगे व्यतीते तु साक्षाद्देवो महेश्वरः ॥प्रसन्नो दर्शनं दत्वा वरम् ब्रूहीत्युवाच ह ॥२॥नत्वाथ शकुनिर्दैत्यः कृतांजलिपुटः शनैः ॥हृष्टरोमाश्रुपूर्णाक्षः प्राह गद्गदया गिरा ॥४॥मृतः सन्भूमिसंस्पर्शाद्भूयात्संजीवितः प्रभो ॥आकाशे मे मृतिर्देव मा भूयाद्घटिकाद्वयम् ॥५॥दैत्येनोक्तो हरः साक्षाद्दत्वा तस्मै वरद्वयम् ॥पंजरस्थं शुकं दत्वा प्राह दैत्यं नताननम् ॥६॥जीवकल्पं शुकं चैनं रक्ष दैत्य सदानघ ॥अस्मिन्मृते च ज्ञातव्यं निधनं स्वं त्वयासुर ॥७॥इति दत्त्वा वरं तस्मै रुद्रश्चांतरधीयत ॥तस्मात्तस्य वधो दुर्गे भविष्यति शुके मृते ॥८॥श्रीनारद उवाच -इत्युक्त्वा वीरसदसि भगवान्देवकीसुतः ॥सुपर्णं शीघ्रमाहूय प्राह प्रहसिताननः ॥९॥श्रीभगवानुवाच -शृणु तार्क्ष्य महाबुद्धे गच्छ चंद्रावतीं पुरीम् ॥शतयोजनविस्तीर्णां दैत्यसेनासमाकुलाम् ॥१०॥प्रासादैर्गगनस्पर्शै-र्हेमरत्नमनोहरैः ॥विचित्रोपवनारामैः शोभितां दैत्यपुंगवैः ॥११॥दुर्गे दुर्गे द्वारदेशे रक्षितां दैत्यपुंगवैः ॥तां द्रष्टुं गरुडो राजन्सूक्ष्मरूपं दधार ह ॥१२॥अलक्षितो दैत्यवृंदैः पश्यन्प्रासादतोलिकाः ॥तेषूत्पतन्नुत्पतंश्च शकुनेर्मंदिरे गतः ॥१३॥प्रेक्षञ्छुकं दैत्यजीवं क्षणं तत्र स्थितोऽभवत् ॥युद्धार्थं दंशितं तत्र शकुनिं दैत्यपुंगवम् ॥१४॥नानाशस्त्रधरं वीरं क्रोधपूरितमानसम् ॥गृहीत्वा तं परिकरे प्राह राजन्मदालसा ॥१५॥मदालसोवाच -राजन्सर्वेऽपि सुहृदोऽनुकूला भ्रातरस्तव ॥मारिताः संगरे भर्त्तः प्रोद्भटा दैत्यपुंगवाः ॥१६॥मा याहि योद्धुं यदुभिरागतो भगवान्हरिः ॥देहि तस्मै बलिं सद्यो येन श्रेयो ह्यवाप्स्यसि ॥१७॥शकुनिरुवाच -हनिष्यामि यदून्सैन्यैर्मे हता भ्रातरो बलात् ॥मृत्युर्मे नास्ति भूमध्ये शिवस्यापि वरेण मे ॥१८॥उपद्वीपे चंद्रनाम्नि पतंगे पर्वते शुभे ॥मे जीवरूपी तु शुको वर्तते सांप्रतं प्रिये ॥१९॥शंखचूडेन सर्पेण रक्षितोऽहर्निशं शुकः ॥एतत्कोऽपि न जानाति कथं मृत्युश्च मे भवेत् ॥२०॥श्रीनारद उवाच -शुकवार्तां ततः श्रुत्वा गरुडो दिव्यवाहनः ॥उपद्वीपं तु चंद्राख्यं गन्तुं तस्मान्मनो दधे ॥२१॥उत्पतन् गरूडो वेगात्समुद्रस्य तटे गतः ॥द्वीपं विचिन्वंश्चंद्राख्यमाकाशे विचरन् खगः ॥२२॥शतयोजनविस्तीर्णे समुद्रे भीमनादिनि ॥पक्षिराट् सिंहलं प्राप लतावृंदमनोहरम् ॥२३॥तत्र पप्रच्छ गरुडः किं नामास्य जनान्प्रति ॥सिंहलोऽयमिति श्रुत्वा गरुडः प्रोत्पतन् खगः ॥२४॥लंका प्राप्तो महावेगात्त्रिकूटशिखरे नृप ॥लङ्कां प्राप्य ततो वेगात्पांचजन्यं जगाम ह ॥२५॥पांचजन्याब्धिनिकटे क्षुधितः पक्षिराड् बली ॥प्रसह्य मीनान् जग्राह तीक्ष्णया तुंडया भृशम् ॥२६॥तत्र चैको महान्नक्रो लंबितो योजनद्वयम् ॥प्रचंडवेगो गरुडस्तीक्ष्णया तुंडया च तम् ॥२७॥बलेन गरुडस्तस्य चकाराकर्षणं तटे ॥तयोराकर्षणं राजन्मिथोऽभूद्घटिकाद्वयम् ॥२८॥प्रचंडवेगो गरुडस्तीक्ष्णया तुंडया च तम् ॥तताड पृष्ठे धृष्टांगं दंडेन यमराड्यथा ॥२९॥नक्ररूपं विहायाशु सोऽभूद्विद्याधरो महान् ॥नत्वा श्रीगरुडं साक्षात्प्राह प्रहसिताननः ॥३०॥विद्याधर उवाच -अहं विद्याधरः पूर्वं नाम्ना वै हेमकुंडलः ॥आकाशगंगायां स्नातुं गतो दिविजमंडले ॥३१॥तत्र स्नानं प्रकुर्वंतं ककुत्थं मुनिसत्तम् ॥पादे गृहीत्वा हास्येन जलांतर्गतवानहम् ॥३२॥मां शशाप ककुत्थोऽपि त्वं नक्रो भव दुर्मते ॥मया प्रसादितः शीघ्रं प्रसन्नः सन् वरं ददौ ॥३३॥तार्क्ष्यतुंडप्रहारेण नक्रत्वात्त्वं विमुच्यसे ॥तस्य शापादद्य मुक्तः कृपया तव सुव्रत ॥३४॥श्रीनारद उवाच -इत्युक्त्वा च गते स्वर्गे विद्याध्रे हेमकुंडले ॥उड्डितो गरुडस्तस्मात्पक्षाभ्यां व्योममंडले ॥३५॥हरिणाख्यं चोपद्वीपं प्राप्तवान् वेगतः खगः ॥अपांतरतमास्तत्र करोति विपुलं तपः ॥३६॥तस्याश्रमे खगेशस्य पक्षचंद्रं पपात ह ॥तं दृष्ट्वा प्राह गरुडमपांतरतमा मुनिः ॥३७॥पक्षं निधाय मे मूर्ध्नि गच्छ पक्षिन्यथासुखम् ॥पक्षं नीत्वा गतस्तर्क्ष्यो धृत्वा तन्मस्तके च तम् ॥३८॥तत्समानान्पक्षचन्द्राननेकान्स ददर्श ह ॥प्राहातिविस्मितं तार्क्ष्यमपांतरमा मुनिः ॥३९॥यदा यदा हि श्रीकृष्णावतारोऽभूत्तदा तदा ॥पक्षोऽपि गरुडस्यात्र पतत्येकः सदा खग ॥४०॥कल्पे कल्पे कृष्णचंद्रावतारःपक्षः पक्षो मूर्ध्नि मे सोऽपि सोऽपि ॥आनंत्याद्वाऽऽद्यन्तवन्तं वदंतिपक्षिन्मूर्ध्ना नौमि कृष्णाय तस्मै ॥४१॥श्रीनारद उवाच -तच्छ्रुत्वा विस्मितस्तार्क्ष्यो नत्वा तं मुनिपुंगवम् ॥द्वीपं रमणकं प्रागादुत्पतन् व्योममंडलात् ॥४२॥सर्पेभ्योऽपि बलिं नीत्वा द्वीपमावर्तकं गतः ॥तत्र दिव्ये सुधाकुंडे सुधां पीत्वा विराड्बली ॥४३॥शुक्लद्वीपं तु संप्राप्तः प्रपच्छ द्वीपचंद्रभाक् ॥मया प्रणोदितः पक्षी प्रययावुत्तरां दिशम् ॥४४॥चन्द्रद्वीपं तु संप्राप्तः पर्वते पतगेश्वरः ॥जलदुर्गं वह्निदुर्गं वैनतेयो ददर्श ह ॥४५॥जलदुर्गं चंचुपटे सर्वं कृत्वा विराड्बली ॥वह्निदुर्गं च तेनापि सांत्वयामास मैथिल ॥४६॥दरीमुखे शयाना ये दैत्या लक्षं समुत्थिताः ॥तैः सार्द्धं समभूद्युद्धं तार्क्ष्यस्य घटिकाद्वयम् ॥४७॥कांश्चित्पादनखैर्युद्धे विददार खगेश्वरः ।कांश्चिद्दैत्यान्स्वपक्षाभ्यां पातयामास भूतले ॥४८॥कांश्चिच्चंचुपुटेनापि गृहीत्वा पक्षिराड्बली ॥पातयित्वा गिरेः पृष्ठे चिक्षेप गगने बलात् ॥४९॥केचिन्मृतास्तथा शेषा दुद्रुवुस्ते दिशो दश ॥इत्थं दैत्यवधं कृत्वा दरीमध्ये गतः खगः ॥५०॥चकार पादविक्षेपं शंखचूडोपरि स्फुरत् ॥शंखचूडोऽपि गरुडं दृष्ट्वा सोऽतिप्रधर्षितः ॥५१॥शुकं जले पंजरस्थं शीघ्रं त्यक्त्वा पलायितः ॥चंचुदेशेन तं नीत्वा शुकं सद्यः सपंजरम् ॥५२॥प्रोत्पतन्नंबरे राजन् युद्धे गन्तुं मनो दधे ॥पलायितानां दैत्यानां तावत्कोलाहलो महान् ॥५३॥शुको नीतः शुको नीतो वदतामंबरे नृप ॥तच्छब्दो दिक्षु सैन्यानां गतशब्दस्तु शृण्वताम् ॥५४॥दिवि भूमौ सर्वतोऽपि ब्रह्मांडेऽपि प्रपूरितः ॥शुको नीत इति श्रुत्वा शकुनिः शंकितोऽसुरैः ॥५५॥शूलं धृत्वा ततः सद्यश्चंद्रावत्यां समुत्थितः ॥गरुडेन शुको नीतः श्रुत्वा क्रुद्धः समन्वयात् ॥५६॥तच्छूलताडितस्तार्क्ष्यो न जहौ मुखतः शुकम् ॥सप्तद्वीपान्सप्तसिंधून्निरीक्षन्स गतः खगः ॥५७॥तमन्वधावद्दैत्येंद्रो दिक्षु दिक्षु नभोंतरे ॥भ्रमन्नागांतको राजन्नाकाशे कोटियोजनम् ॥५८॥दैत्यत्रिशूलक्षतभृन्न जहौ मुखतः शुकम् ॥सपंजरः शुको राजन्नाकाशे लक्षयोजनम् ॥५९॥पपातोपलवद्वेगात्सुमेरोर्गिरिमूर्द्धनि ॥पंजरोऽगात्खगस्तत्र विशीर्णोऽभूद्व्यसुः शुकः ॥६०॥गरुडोऽथ महायुद्धे कृष्णपार्श्वं समागतः ॥दैत्यः खिन्नमना राजन्पुरीं चन्द्रावतीं ययौ ॥६१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे गरुडागमो नाम चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP