संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४२ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता भद्राश्वखण्डविजयम् Translation - भाषांतर श्रीनारद उवाच -पलायितेषु शेषेषु दैत्येषु रणमंडलात् ॥वीणावेणुमृदंगादीन्नादयन्दुंदुभीन्हरिः ॥१॥गीयमानो यादवेंद्रः सूतमागधवन्दिभिः ॥स्वपुत्रैर्यादवैः सार्द्धं स्वसैन्यपरिवारितः ॥२॥शंखचक्रगदापद्म-शार्ङ्गचापविराजितः ॥प्रविवेश सुरैः सार्द्धं पुरीं चंद्रावतीं प्रभुः ॥३॥दुःखार्ता भर्तरि मृते रुदंती करुणं बहु ॥अंके गृहीत्वा शकुनेः सुतं राज्ञी मदालसा ॥४॥श्रीकृष्णचरणे बालं निधायाशु कृतांजलिः ॥अश्रुपूर्णमुखी दीना हरिं नत्वा जगाद ह ॥५॥मदालसोवाच -भारावताराय भुवि प्रभो त्वंजातो यदूनां कुल अदिदेव ॥ग्रसिष्यसे यानि भवं निधायगुणैर्न लिप्तोऽसि नमामि तुभ्यम् ॥६॥मदात्मजं पालय भीतभीत-ममुष्य हस्तं कुरु शीर्ष्णि देव ॥भर्त्रा कृतं मे किल तेऽपराधंक्षमस्व देवेश जगन्निवास ॥७॥श्रीनारद उवाच -इत्युक्त्वो भगवांस्तस्य मूर्ध्नि कृत्वा करद्वयम् ॥सर्वं चन्द्रावतीराज्यं ददौ तस्मै महामुनिः ॥८॥दत्वा कल्पांतमायुष्यं भक्तिज्ञानं विरक्तिमत् ॥शकुनेः शिशवे कृष्णः स्वमालां प्रददौ शुभाम् ॥९॥उच्चैःश्रवो हयो रत्नं कामधेनुः सुरद्रुमः ॥आहृता ये शकुनिना पुरा युद्धे पुरंदरात् ॥१०॥पुरंदराय तान्प्रादात्प्रयत्नाच्छ्रीजनार्दनः ॥गोविप्रसुरसाधूनां छंदसां पालकः स्वयम् ॥११॥बहुलाश्व उवाच -केऽमी दैत्याः पूर्वकाले शकुन्याद्या महाबलाः ॥देवर्षे मे परं चित्रं कस्मान्मोक्षमुपागताः ॥१२॥श्रीनारद उवाच -ब्रह्मकल्पे पुरा राजन् गंधर्वेशः पुरावसुः ॥आसीत्तस्य शुभाः पुत्रा बभूवुर्नुव चौरसाः ॥१३॥कंदर्पसमलावण्या दिव्यभूषणभूषिताः ॥नित्यं जगुर्ब्रह्मलोके गीतवाद्यविशारदाः ॥१४॥मन्दारो मन्दरो मन्दो मन्दहासो महाबलः ॥सुदेवः सुधनः सौधः श्रीभानुरिति विश्रुताः ॥१५॥एकदा मोहतः पुत्रीं वाग्देवीं वीक्ष्य वेधसः ॥जहसुस्ते स्वमनसि पुरावसुसुताश्च ये ॥१६॥सुरज्येष्ठापराधेन गता योनिं च तामसीम् ॥वाराहेऽथ हिरण्याक्षपत्न्यां ते जज्ञिरे नव ॥१७॥शकुनिः शंबरो हृष्टो भूतसंतापनो वृकः ॥कालनाभो महानाभो हरिश्मश्रुस्तथोत्कचः ॥१८॥एकदा गृहमायांतमपांतरतमं मुनिम् ॥नत्वा संपूज्य विधिवत्पप्रच्छुरिदमादरात् ॥१९॥दैत्या ऊचुःशृणु त्वं स्वमुखाद्ब्रह्मन् कैवल्येशो हरिः स्वयम् ॥ददाति मोक्षं भगवान् भक्तानां भक्तवत्सलः ॥२०॥अस्माभिर्न कृता भक्तिरासुरीं योनिमास्थितैः ॥दुःसंगनिरतैर्दुष्टैः कथं मोक्षो भवेदिह ॥२१॥उपायं वद नो ब्रह्मन्कल्याणस्य परस्य च ॥कल्याणार्थं विचरसि दीनानां जगति प्रभो ॥२२॥अपान्तरतमा उवाच -गुणानामपृथग्भावैर्ये भजंति हरिं परम् ॥ते ते प्रापुः परं दैत्या निर्गुणं मोक्षनायकम् ॥२३॥ऐक्यं च सौहृदं स्नेहं भयं क्रोधं स्मयं तथा ॥विधाय पूर्वं सततं श्रीकृष्णे लीनतां गताः ॥२४॥पृश्निगर्भस्य संबंधात्प्रजानां पतयो यथा ॥कायाधवः सौहृदाच्च स्नेहाच्च सुतपा मुनिः ॥२५॥भयाद्धिरण्यकशिपुः क्रोधाद्वश्च पितासुरः ॥स्मयाच्च श्रुतयः प्रापुर्योगिनां दुर्लभं परम् ॥२६॥येन केनापि भावेन श्रीकृष्णे धारयेन्मनः ॥भक्तियोगेन तद्धाम यदेभिः प्राप्यते सुराः ॥२७॥श्रीनारद उवाच -इत्युक्त्वांतर्हिते राजन्नपान्तरतमे मुनौ ॥चक्रुर्वैरं शकुन्याद्याः परिपूर्णतमे हरौ ॥२८॥ते प्रापुर्वैरभावेन श्रीकृष्णं परमेश्वरम् ॥न चित्रं विद्धि राजेंद्र कीटः पेशस्कृतं यथा ॥२९॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे शकुन्यादिदैत्यानां पूर्वजन्मपरिचयो नाम द्विचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP