संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २३ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यक्षदेशयात्रा Translation - भाषांतर श्रीनारद उवाच -नदा नद्यः समुद्राश्च रथवीथिं ददुर्नृप ॥धर्षितास्तेजसा तस्मै ससैन्याय महात्मने ॥१॥कैलासगिरिपार्श्वे च वरवीरश्च मानुषः ॥बाणस्य शोणितपुरं प्रययौ यादवेश्वरः ॥२॥बाणासुरोऽतिसंक्रुद्धो यदून् वीक्ष्यागतान्पुनः ॥अक्षौहिणीभिर्द्वादशभिर्युद्धं कर्तुं मनो दधे ॥३॥तदेव साक्षात्पुरुषः पुराणोमहेश्वरो नंदिवृषस्थितोऽसौ ॥हिमाद्रिपुत्रीसहितस्त्रिशूलीसमेत्य बाणं नृपमाह देवः ॥४॥शिव उवाच -परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ॥५॥त्रयो वयं तत्कला हि ब्रह्मविष्णुशिवादयः ॥मूर्ध्न्याज्ञां यस्य बिभ्रति त्वादृशानां च का कथा ॥६॥तस्य पौत्रस्त्वया बद्धोऽनिरुद्धो येन तेजसा ॥छिन्ना भुजा न जानासि संग्रामे तं हरिः स्वयम् ॥७॥तस्मात्तेषां दानवानां पूजनीया हरेः सुताः ॥अनिरुद्धः पूजनीयो जामाता ते न संशयः ॥८॥न ददामि त्वनुज्ञां ते युद्धायासुरपुंगव ॥न चेद्युद्धं कुरु बलाद्वृथा दृष्टं मनस्तव ॥९॥श्रीनारद उवाच -शिवप्रबोधितो बाणोऽनिरुद्धं धन्वीनां वरम् ॥समाहूय च संपूज्य पारिबर्हं ददौ पुनः ॥१०॥ससैन्यं सादरेणापि प्रद्युम्नं पूज्य बंधुवत् ॥गजायुतं चाश्वकोटिं रथानां पंचलक्षकम् ॥११॥ददौ बाणो महाबाहुः प्रद्युम्नाय महात्मने ॥अथ कार्ष्णिर्महाराज स्वसैन्यैर्यदुभिः सह ॥१२॥अलकां प्रययौ धन्वी पुरीम् गुह्यकमंडिताम् ॥श्रीनंदालकनंदाभ्यां गंगाभ्यां परिखीकृता ॥१३॥रत्नसोपानयुक्ताभ्यां यज्ञभिः परिशोभिताम् ॥विद्याधरीभिः परितः किन्नरीभिर्मनोहराम् ॥१४॥दिव्याभिर्नागकन्याभिः पुरीं भोगवतीमिव ॥धनदो न ददौ तस्मै प्रद्युम्नाय बलिं नृपः ॥१५॥हरेः प्रभवविदपि विष्णोर्मायाबलं त्वहो ॥लोकपालोऽस्म्यहं नित्यमित्यज्ञानविमोहितः ॥१६॥नोदितो बलिभिर्यक्षैर्युद्धं कर्तुं मनो दधे ॥निर्धनो हि धनं प्राप्य तृणवन्मन्यते जगत् ॥१७॥नवानां तु निधीनां कौ पतीनां किमु वर्णनम् ॥तदैव हेममुकुटो दूतो धनदनोदितः ॥कार्ष्णिमेत्य सभामध्ये नत्वेदं प्राह मानदः ॥१८॥हेममुकुट उवाच -धनेश्वरो राजराजो लोकपालोऽलकेश्वरः ॥तेन यत्कथितं राजञ्छृणु त्वं तद्यदूत्तम ॥१९॥देवराजो यथा शक्रः स्मृतो दिवी यथा प्रभुः ॥तथैको राजराजोऽहं कथितो भूतले महान् ॥२०॥मनुष्यधर्मा राजेद्रैः पूजितोऽहं सदा भुवि ॥उग्रसेनेन दातव्यं मह्यं सोपायनं परम् ॥२१॥पराक् तस्मै न दास्यामि यदुराजाय भूभृते ॥न मन्यसे चेत्संग्रामं करिष्यामि न संशयः ॥२२॥श्रीनारद उवाच -एवं दूतवचः श्रुत्वा प्रद्युम्नो भगवान्हरिः ॥चकार कोपं रक्ताक्षो रुषा प्रस्फुरिताधरः ॥२३॥प्रद्युम्न उवाच -वृष्णींद्र राजराजेंद्रं राजराजो न वेत्ति तम् ॥शक्रादीनां तु यः साक्षान्मुकुटैर्घृष्टपादुकः ॥२४॥सुधर्मां पारिजातं च तस्मा इंद्रो ददौ भयात् ॥श्यामवर्णान्हयान्पाशी तस्मै दत्वा ननाम ह ॥२५॥अनेन राजराजेन भीरुणा निधयो नव ॥प्राप्तास्तं हि न जानाति राजराजो महाबलम् ॥२६॥वर्तते तत्सभामध्ये परिपूर्णतमो हरिः ॥असंख्यब्रह्माण्डपतिः श्रीकृष्णो भगवान्स्वयम् ॥२७॥यस्यैकमूर्ध्नि तिलकं दृश्यते मंडलं भुवः ॥उग्रसेनसभामध्ये सोऽपि नित्यं विराजते ॥२८॥उग्रसेनप्रेषितोऽहं कुबेराय महात्मने ॥नाराचानां बलिं दातुं तत्करिष्यामि साम्प्रतम् ॥२९॥श्रीनारद उवाच -एवमुक्त्वा गृहीत्वा स्वं कोदण्डं चण्डविक्रमः ॥चकार भुजदण्डाभ्यां टङ्कारं वादयन् गुणम् ॥३०॥प्रत्यंचास्फोटनेनैव मंडितोऽभूत्तडित्स्वनः ॥ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥३१॥विचेलुर्दिग्गजास्तारा राजन्भूखंडमंडलम् ॥निषंगाच्छरमाकृष्य प्रद्युम्नो धन्विनां वरः ॥३२॥प्रतिशार्ङ्गे स्वधनुषि बाणमेकं समादधे ॥द्वादशादित्यसंकाशं द्योतयन्मंडलं दिशाम् ॥३३॥चिच्छेद गुह्यकेशस्य बाणं छत्रं च चामरे ॥तदा क्रुद्धो राजराजो दृष्ट्वा चित्रमिदं महत् ॥३४॥आरुह्य पुष्पकं सैन्यैर्युद्धकामो विनिर्ययौ ॥घंटानादेन यक्षेण मंत्रिणा पार्श्वमौलिना ॥३५॥नलकूबरमणिग्रीवौ शुशुभाते ध्वजाग्रतः ॥तुरंगवदनाः केचिन्मृगेंद्रवदनाः परे ॥३६॥शिशुमारमुखाः केचित्केचिन्नक्रमुखा इव ॥अर्द्धपिंगा अर्द्धकृष्णा ऊर्ध्वकेशा मदोत्कटाः ॥३७॥वक्रदंता ललज्जिह्वा बृहद्दंष्ट्रा महाबलाः ॥करालास्याः सकवचाः खड्गचर्मधराः पराः ॥३८॥शक्तिहस्ता ऋष्टिहस्ता भुशुंडिपरिघायुधाः ।धनुर्बाणधरा यक्षाः केचित्परशुपाणयः ॥३९॥यक्षाणां हस्तिवाहानां रथिनामश्विनां तथा ॥विरेजुर्निर्गतानां च मंडलानि सहस्रशः ॥४०॥शंखदुन्दुभिनादैश्च सूतमागधवन्दिभिः ॥रेजिरे श्रीदवीराः कौ मेघा इव तडित्स्वनैः ॥४१॥एवं यक्षेषु मत्तेषु कोटिशो निर्गतेषु च ॥दिव्यान्महायोगमयात्सिद्धक्षेत्राद्विदेहराट् ॥४२॥आययौ तत्सहायार्थं प्रमथानां बलं महत् ॥भूताश्च प्रमथाः केचित्करालास्या मदोत्कटाः ॥४३॥डाकिन्यो यातुधानाश्च वेतालाः सविनायकाः ॥कूष्मांडोन्मादसंयुक्ताः प्रेता मातृगणाः परे ॥४४॥निशाचरपिशाचाश्च ब्रह्मराक्षभैरवाः ॥नदंतो भैरवं नादं छिंधि भिंधीति वादिनः ॥४५॥इत्थं तु भूतावलयः कोटिशश्चाययुस्तदा ॥रोदस्याच्छादिते भूता मेघैः सांवर्तकैरिव ॥४६॥मयूरस्थः कार्तिकेयो मूषकस्थो गणेश्वरः ॥प्रमथैर्गीयमानौ तौ ढक्कावादित्रनिःस्वनैः ॥४७॥सर्वेषामग्रतः प्राप्तौ वीरभद्रेण संयुतौ ॥इत्थं पुण्यजनानां तु गणानां यदुभिः सह ॥४८॥बभूव तुमुलं युद्धमद्भुतं रोमहर्षणम् ॥रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ॥४९॥हया हयैरिभाश्चेभैर्युयुधुस्ते परस्परम् ॥रथेभाश्वपदातीनां चरणैरुत्थितं रजः ॥५०॥छादयामास राजेंद्र ससूर्यं व्योममंडलम् ॥५१॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे यक्षदेशप्रयाणं नाम त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP