संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ४४ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ४४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता वेदादिकृत कृष्णस्तुतिः Translation - भाषांतर बहुलाश्व उवाच -रागिणीनां च नामानि वद देवऋषे मम ॥तथा वै रागपुत्राणां त्वं परावरवित्तमः ॥१॥श्रीनारद उवाच -कालेन देशभेदेन क्रियया स्वरमिश्रया ॥भेदा बुधैः षट्पञ्चाशत्कोट्यो गीतस्य कीर्तिताः ॥२॥अंतर्भेदा अनंताहि तेषां सन्ति नृपेश्वर ॥विद्ध्येनं रागमानन्दं शब्दब्रह्ममयं हरिम् ॥३॥तस्मान्मुख्याश्च भेदाः कौ वदिष्यामि तवाग्रतः ॥भैरवी पिंगला शंकी लीलावत्यगरी तथा ॥४॥भैरवस्यापि रागस्य रागिण्यः पञ्च कीर्तिताः ॥महर्षिश्च समृद्धश्च पिंगलो मागधस्तथा ॥५॥बिलावलश्च वैशाखो ललितः पञ्चमस्तथा ॥भैरवस्याष्ट पुत्रा ये गीयंते च पृथक् पृथक् ॥६॥चित्रा जयजयावंती विचित्रा कथिता पुनः ॥वृजल्लार्ष्यंधकाकारी रागिण्योऽपि मनोहराः ॥७॥मेघमल्लाररागस्य कथिता पञ्च मैथिल ॥श्यामकारः सोरठश्च नटो डायन एव च ॥८॥केदारो व्रजरंहस्यो जलधारस्तथैव च ॥विहागश्चेत्यष्ट पुत्रा कथिताः पूर्वसूरिभिः ॥९॥कंचुकी मंजरी टोडी गुर्जरी शाबरी तथा ॥१०॥दीपकस्यापि रागस्य रागिण्यः पंच विश्रुताः ॥कल्याणः शुभकामश्च गौडकल्याण एव च ॥११॥कामरूपः कान्हरेति रामसंजीवनस्तथा ॥सुखनामा मन्दहासः पुत्राश्चाष्टौ विदेहराट् ॥१२॥रागस्य दीपकस्यापि कथिता रागपण्डितैः ॥गांधारी वेदगांधारी धनाश्री स्वर्मणिस्तथा ॥१३॥गुणागरीति रागिण्यः पञ्चैता मैथिलेश्वर ॥मालकोशस्य रागस्य कथिता रागमण्डले ॥१४॥मेघश्चमचलो मारुमाचारः कौशिकस्तथा ॥चन्द्रहारो घुंघुटश्च विहारो नन्द एव च ॥॥१५॥मालकोशस्य रागस्य चाष्टपुत्राः प्रकीर्तिताः ॥वैराटि चैव कर्णाटी गौरी गौरावटी तथा ॥१६॥चतुश्चन्द्रकला चैव रागिण्यः पञ्च विश्रुताः ॥श्रीरागस्यापि राजेन्द्र कथिताः पूर्वसूरिभिः ॥१७॥सारंगः सागरो गौरो मरुत्पञ्चशरस्तथा ॥गोविन्दश्च हमीरश्च गीर्भीरश्च तथैव च ॥१८॥श्रीरागस्यापि राजेन्द्र ह्यष्टौ पुत्रा मनोहराः ॥वसन्ती ऐरजा हेरी तैलंगी सुन्दरी तथा ॥१९॥हिंडोलस्यापि रागस्य रागिण्यः पञ्च विश्रुताः ॥मंगलश्च वसन्तश्च विनोदः कुमुदस्तथा ॥२०॥एवं च विहितो नाम विभासः स्वरमण्डलः ॥पुत्राश्चाष्टौ समाख्याता मैथिलेन्द्र विचक्षणैः ॥२१॥बहुलाश्व उवाच -शब्दब्रह्म हरेः साक्षान्निगमस्य महात्मनः ॥रागमण्डल इत्येवं हिंडोलस्य पृथक् पृथक् ॥२२॥अंगानि वद मे देव कानि कानि महीतले ॥श्रीनारद उवाच -मुखं व्याकरणं प्रोक्तं पिंगलः पाद उच्यते ॥२३॥मीमांसशास्त्रं हस्तौ च ज्योतिर्नेत्रं प्रकीर्तितम् ॥आयुर्वेदः पृष्ठदेशो धनुर्वेद उरःस्थलम् ॥२४॥गांधर्वं रसनं विद्धि मनो वैशेषिकं स्मृतम् ॥२५॥सांख्यं बुद्धिरहंकारो न्यायवादः प्रकीर्तितः ॥वेदांतं तस्य चित्तं हि वेदस्यापि महात्मनः ॥२६॥रागरूपमिमं राजन् विहारं विद्धि मैथिल ॥एतत्ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥२७॥बहुलाश्व उवाच -तस्मिन्वेदपुरे रम्ये किं चकार हरिः स्वयम् ॥एतन्मे वद देवर्षे त्वं साक्षाद्दिव्यदर्शनः ॥२८॥श्रीनारद उवाच -आयांतं वेदनगरं श्रीकृष्णं यादवेश्वरम् ॥निगमोऽपि बलिं नीत्वा सरस्वत्या तया सह ॥२९॥गंधर्वैरप्सरोभिश्च ग्रामतालैः स्वरैः सह ॥रागैः सभेदैः सहितः प्रणनाम कृतांजलिः ॥३०॥प्रसन्नो भगवान्साक्षाद्देवदेवो जनार्दनः ॥वेदं प्राह यदूनां च सर्वेषां शृण्वतां सताम् ३१॥श्रीभगवानुवाच -निगम त्वं वरं ब्रूहि यत्ते मनसि वर्तते ॥दुर्लभं किं त्रिलोकेषु भक्तानां हर्षिते मयि ॥३२॥वेद उवाच -यदि देव प्रसन्नोऽसि सर्वे ये मे सुपार्षदाः ॥तेषां देव निजं रूपं दर्शयात्र परेश्वर ॥३३॥यद्रूपं ते च गोलोके स्वधाम्नि प्रस्फुरद्द्युतौ ॥वृंदावने च तद्रासे तस्य दर्शनकांक्षिणः ॥३४॥श्रीनारद उवाच -श्रुत्वा वेदवचः कृष्णः परिपूर्णतमः स्वयम् ॥स्वरूपं दर्शयामास राधया सहितं परम् ॥३५॥तद्रूपं सुंदरं दृष्ट्वा सर्वे वै मूर्च्छनां गताः ॥पूरिताः सात्त्विकैर्भावै-र्विस्मृत्य स्वतनोः सुखम् ॥३६॥तदापि हर्षिताः सर्वे वादित्रैर्मधुरस्वनैः ॥जगुस्तत्पुरतो राजन्ननृतुः पश्यतां सताम् ॥३७॥यथा श्रुतं तथा दृष्टं माधुर्यं रूपमद्भुतम् ॥तथैव चक्रुर्वेदाद्या वर्णनं मैथिलेश्चर ॥३८॥वेद उवाच -सज्ज्ञानमात्रं सदसत्परं बृह-च्छश्वत्प्रशांतं विभवं समं महत् ॥त्वां ब्रह्म वंदे वसुदुर्गमं परांसदा स्वधाम्ना परिभूतकैतवम् ॥३९॥सरस्वत्युवाच -महः परं त्वां किल योगिनो विदुःसविग्रहं तत्र वदंति सात्वताः ॥दृष्टं तु यत्ते पदयोर्द्वयं मेक्षेमस्य भूयान्महसामधीश्वरम् ॥४०॥गन्धर्वा उचुः -श्यामं च गौरं विदितं स्वधाम्नाकृतं त्वया धाम निजेच्छया हि ॥विराजसे नित्यमलं च ताभ्यांघनो यथा मेचकदामिनीभ्याम् ॥४१॥अप्सरस ऊचुः -यथा तमालः कलधौतवल्ल्याघनो यथा चंचलया चकास्ति ॥नीलोऽद्रिराजो निकषाश्मखन्याश्रीराधयाऽऽद्यस्तु तथा रमण्या ॥४२॥ग्रामा ऊचुः -यस्य पदस्य परागं शंभू रमा कविदेवैः ॥इच्छति चेतासि राधा तं भज माधवपादम् ॥४३॥ताला ऊचुः -येन बलिः सद्विहरेत्तद्बलिमेव हरेत् ॥तं भज पादं तु हरेश्चेतसि तप्ते कुहरे ॥४४॥गाना ऊचुः -ऊत्क्षिपंति बहिर्दुःखं सन्तो यच्छरणं गताः ॥राधामाधवयोर्दिव्यं दधाम पदपंकजम् ॥४५॥स्वरा ऊचुः -शरद्विकचपंकजश्रियमतीव विद्वेषकंमिलीन्दमुनिलेढितं कुलिशकजचिह्नावृतम् ॥स्फुरत्कनकनूपुरं दलितभक्ततापत्रयंचलद्द्युतिपदद्वयं हृदि दधामि राधापते ॥४६॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वेदादिस्तुतिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP