संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः २२ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः २२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता भारतजयानन्तरं प्रद्युम्नस्य पूर्वोत्तरदेशगमनम् Translation - भाषांतर श्रीनारद उवाच -दुर्योधनं शांतयित्वा सानुजैः कुरुभिः सह ॥जग्मतुः पांडवान्द्रष्टुमिंद्रप्रस्थं यदूत्तमौ ॥१॥इंद्रप्रस्थात्ततो राजाऽऽजातसत्रुर्युधिष्ठिरः ॥भ्रातृभिः स्वजनैः सार्द्धं नेतुं कृष्णं समाययौ ॥२॥शंखदुंदुभिनादेन ब्रह्मघोषेण वेणुभिः ॥पुष्पवर्षं प्रकुर्वद्भिरिंद्रप्रस्थनिवासिभिः ॥रामकृष्णौ परिष्वज्य दोर्भ्यां राजा युधिष्ठिरः ॥३॥परमां निर्वृतिं लेभे योगीवानंदसंवृतः ॥प्रद्युम्नाद्या हरिसुताः प्रणेमुः श्रीयुधिष्ठिरम् ॥४॥युधिष्ठिरोऽनुजग्राह कराभ्यां तान्कृताशिषः ॥अर्जुनं भीमसेनं च परिरभ्य हरिः स्वयम् ॥५॥पप्रच्छ कुशलं तेषां यमाभ्यां चाभिवंदितः ॥परिपूर्णतमौ साक्षाच्छ्रीकृष्णौ च स्वयं हरिः ॥६॥असंख्यब्रह्माण्डपती हरिदासेन पूजितौ ॥प्रस्थाप्य यदुमुख्यांश्च प्रद्युम्नादीन् ससैनिकान् ॥७॥समग्रां जगतीं जेतुं चाज्ञां दत्त्वा विधानतः ॥मिलित्वा सानुजं धर्मं सर्वेशौ भक्तवत्सलौ ॥८॥द्वारकां जग्मतू राजन् गौरश्यामौ मनोहरौ ॥इत्थं श्रीकृष्णचरितं मया ते कथितं नृप ॥९॥चतुष्पदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ।बहुलाश्व उवाच -कुशस्थलीं गते कृष्णे सबले पुरुषोत्तमे ॥१०॥ततश्चकार किं साक्षात्प्रद्युम्नो भगवान्हरिः ॥अद्भुतं तस्य चरितं श्रवणीयं मनोहरम् ॥११॥मुक्तानामपि भक्तानां जिज्ञासूनां पुनः किमु ॥अर्थार्थिनामर्थदं सदार्तानामर्तिनाशनम् ॥१२॥चतुर्विधानां जीवानां सर्वेषां पापनाशनम् ॥कथं दिग्विजयं कृत्वा दिग्जयार्थी हरेः सुतः ॥१३॥आजगाम पुनः सैन्यैरेतन्मे वद तत्वतः ॥देवर्षे त्वं ब्रह्मसुतो भगवान्सर्वदर्शनः ॥श्रीकृष्णस्य मनः पूर्वं तस्मै ते हरये नमः ॥१४॥श्रीनारद उवाच -साधु पृष्टं त्वया राजन्धन्यस्त्वं तत्प्रभाववित् ॥श्रीकृष्णचरितं श्रोतुं पात्रं त्वमसि भूतले ॥१५॥कृष्णे यातेऽजातशत्रू रक्षार्थं स्नेहतो नृप ॥शत्रुभ्यः शंकितः कार्ष्णिं प्रायुङ्क्ताशुकिरीटिनम् ॥१६॥अथ कार्ष्णिर्यदुश्रेष्ठः फाल्गुनेन समं नृप ॥विकर्षन्महतीं सेनां त्रिगर्तान्प्रययौ त्वरम् ॥१७॥त्रिगर्ताधीश्वरो धन्वी सुशर्मा तेन शंकितः ॥उपायनं ददौ तस्मै प्रद्युम्नाय महात्मने ॥१८॥विराटेन तथा राज्ञा पूजितो यादवेश्वरः ॥सरस्वतीं नदीं स्नात्वा कुरुक्षेत्रं ददर्श ह ॥१९॥पृथूदकं बिंदुसरस्त्रितं कूपं सुदर्शनम् ॥स्नात्वा सरस्वतीं प्रागाद्दत्वा दानान्यनेकशः ॥२०॥सारस्वताधिपो राजा कुशांबो न ददौ बलिम् ॥कौशांबीं नगरीमेत्य दुर्योधनवशानुगः ॥२१॥चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ॥सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥२२॥चारुचंद्रो विचारुश्च चारुश्च दशमस्तथा ॥रुक्मिणीनंदना ह्येते प्रद्युम्नेन प्रणोदिताः ॥२३॥सिंधुदेशहयारूढाः सर्वेषां पश्यतां गताः ॥कौशांबीं नगरीमेत्य रुरुधुः सर्वतस्तदा ॥२४॥बाणैः प्रासादशिखरा ध्वजकुंभादितोलिकाः ॥चूर्णीभूता निपेतुः कौ लंकाट्टाला यथा मृगैः ॥२५॥बाणांधकारे च कृते रुक्मिणीनंदनैर्यदा ॥तदोपायनपाणिः सन्कुशांबो निर्गतः पुरात् ॥२६॥कृतांजलिः शंबरारिं दत्वा नत्वा बलिं बहु ॥जुगोप नगरीं राजा भयार्तो भयविह्वलः ॥२७॥तदैव सौवीरपतिः सुदेवआभीरनाथोऽपि विचित्रनामा ॥चित्राङ्गदः सिंधुपतिर्महौजाःकाश्मीरपो जांगलपः सुमेरुः ॥२८॥लाक्षेश्वरो धर्मपतिर्बिडौजागांधारमुख्योऽपि सुयोधनस्य ॥वशे स्थितास्तेऽपि भयात्किलैतेदत्वा बलिं नेमुरतीव कार्ष्णिम् ॥२९॥ययौ कार्ष्णिर्महाबाहुः स्वसैन्यपरिवारितः ॥अर्बुदान्म्लेच्छदेशांश्च जेतुं कल्किरिवोद्भटः ॥३०॥कालस्यापि सुतश्चंडो यवनेंद्रो महाबलः ॥कार्ष्णिं समागतं श्रुत्वा संमुखात्कोपपूरितः ॥३१॥पितृहंतुः सुतं हत्वा यास्याम्यपचितिं पितुः ॥इत्थं विचार्य्य मनसा म्लेच्छानां दशकोटिभिः ॥३२॥मदच्युतं प्रोन्नदन्तं गजमारुह्य रक्तदृक् ॥निर्ययौ संमुखे योद्धुं प्रद्युम्नस्य महात्मनः ॥३३॥आगतां महतीं सेनां शितबाणप्रवर्षिणीम् ॥चंडप्रणोदितं दृष्ट्वा प्रद्युम्नो वाक्यमब्रवीत् ॥३४॥प्रद्युम्न उवाच -सेनां हत्वापि यश्चाण्डं शिरस्त्रसहितं शिरः ॥आनेष्यते तं स्वबले करिष्यामि ध्वजापतिम् ॥३५॥श्रीनारद उवाच -एवं कार्ष्णौ वदत्यारात्फाल्गुनो वानरध्वजः ॥एको विवेश गांडीवी धनुष्टङ्कारयन्मुहुः ॥३६॥वीरान् रथान् गजानश्वान्संमुखस्थान्द्विधाकरोत् ॥गांडीवमुक्तैर्विशिखैर्गांडीवी रणदुर्मदः ॥३७॥केचिच्छिन्नभुजाः पेतुः शक्तिखड्गर्ष्टिपाणयः ॥भिन्नपादा भिन्ननखाः केचिद्वीराः सकंचुकाः ॥३८॥दुद्रुवुः करिणो युद्धे भिन्नकक्षाश्च सक्षताः ॥गतघंटाः श्लथन्नीडाः पातयंतः करैर्गजान् ॥३९॥जिष्णुबाणैर्द्विधाभूतैर्गजैरश्वै रणांगणम् ॥बभौ क्षेत्रं शंकुलया कूष्मांडशकलैरिव ॥४०॥तदैव दुद्रुवुर्म्लेच्छास्त्यक्त्वा स्वं स्वं रणांगणम् ॥नभोऽर्करश्मिसंभिन्ना नीहारपटला इव ॥४१॥गजारूढो म्लेच्छपतिः शक्तिं चिक्षेप जिष्णवे ॥भ्रामयित्वा मैथिलेंद्र सिंहनादमथाकरोत् ॥४२॥विद्युल्लतामिवायांतीं बाणैः कृष्णसखो बली ॥गांडीवमुक्तै राजेंद्र लीलया शतधाच्छिनत् ॥४३॥य़ावच्चंडो महाम्लेच्छो धनुर्जर्ग्राह रोषतः ॥तावच्चिच्छेद गांडीवी बाणेनैकेन लीलया ॥४४॥द्वितीयं धनुरादाय स चण्डश्चण्डविक्रमः ॥प्रलयाब्धिमहावर्तभीमसंघर्षनादिनीम् ॥४५॥चिच्छेद सिंजनीं जिष्णोर्गरुत्मानिव पन्नगीम् ॥बीभत्सुः स्वमसिं नीत्वा स्फुरंतं चर्मणा सह ॥४६॥जघान तद्गजं कुंभे शैलमिंद्रो यथा पविः ॥अग्निदत्तेन खड्गेन भिन्नकुंभो गजो नदन् ॥४७॥जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥चंडः खड्गं गृहीत्वाथ प्राहत्य पांडुनंदनम् ॥४८॥तत्खड्गं चर्मणोन्नीय प्राहिणोत्तं कुरूद्वहः ॥सशिरस्त्रं शिरस्तस्य देहाद्भिन्नं बभूव ह ॥४९॥सज्जं कृत्वा धनुर्जिष्णुर्निधाय विशिखे च तत् ॥आकृष्य पातयामास प्रद्युम्नस्य बले महत् ॥५०॥तदा दुन्दुभिनादोऽभूज्जयारावसमाकुलः ॥अर्जुनस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥५१॥तदैव कार्ष्णिः सबलस्य जिष्णुंचकार नाथं विजयध्वजस्य ॥संवीज्यमानं सितचामराद्यैःकपिध्वजं यादववृंदमुख्यैः ॥५२॥वेगवानर्बुदाधीशः प्रद्युम्नं शरणं गतः ॥उपायनं ददौ भीरुर्नमस्कृत्य कृतांजलिः ॥५३॥मौरंगेशो मंदहासो हयानां दशलक्षकम् ॥दत्वा भीरुर्नमश्चक्रे प्रद्युम्नाय महात्मने ॥५४॥इत्थं खंडं भारताख्यं जित्वा कार्ष्णिर्यदूत्तमः ॥हिमाद्रिं दक्षिणीकृत्य प्रागुदीचीं दिशं ययौ ॥५५॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे बहुदिग्विजयो नाम द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP