संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १७ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता मागधविजयम् Translation - भाषांतर श्रीनारद उवाच -अथातो मागधञ्जेतुं प्रद्युम्नो मीनकेतनः ॥गिरिव्रजं जगामाशु स्वसैन्यैः परिवारितः ॥१॥श्रुत्वाऽऽगतं हरेः पुत्रं दिग्जयार्थं विशेषतः ॥जरासंधो मागधेंद्रो महाकोपं चकार ह ॥२॥जरासंध उवाच -तुच्छा ये यादवाः सर्वे युधि विक्लवचेतसः ॥तेऽद्य वै जगतीं जेतुं निर्गता गतबुद्धयः ॥३॥मथुरां स्वपुरीं त्यक्त्वा मद्भयान्माधवोऽपिहि ॥समुद्रं शरणं प्रागात्पिता चास्य दुरात्मनः ॥४॥प्रवर्षणे रामकृष्णौ मया भस्मीकृतौ बलात् ॥छलाद्दुद्रुवतुस्तौ द्वौ द्वारकायां समाश्रितौ ॥५॥बद्ध्वा तौ चानयिष्यामि सोग्रसेनौ कुशस्थलीम् ॥अयादवीं करिष्यामि पृथ्वीं सागरमेखलाम् ॥६॥श्रीनारद उवाच -इत्युक्त्वा निर्गतो राजा गिरिव्रजपुराद्बहिः ॥अक्षौहिणीभिर्विंशत्या तिसृभिः संयुतो बली ॥७॥गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखे ॥स्रवन्मदैश्चतुर्दंतैरैरावतकुलोद्भवैः ॥८॥शुण्डादण्डस्य फूत्कारैः क्षेपयद्भिस्तरून्बहून् ॥बभौ गजैर्मागधेंद्रो मेघैरिंद्र इव प्रभुः ॥९॥रथैश्च देवधिष्ण्याभैः सध्वजैरश्वनेतृभिः ॥चामरैर्दोलितै राजंल्लोलचक्रध्वनिद्युतिः ॥१०॥तुरङ्गमैर्वायुवेगैश्चित्रवर्णैर्मदोत्कटैः ॥सौवर्णपट्टहाराद्यैः शिखारश्म्यूर्ध्वचामरैः ॥११॥सकंचुकैर्वीरजनैः खड्गचर्मधनुर्धरैः ॥विद्याधरसमैः प्रागान्मागधेंद्रो महाबलः ॥१२॥धुंकारैर्दुंदुभीनां च दिशो नेदुर्धनुःस्वनैः ॥चचाल वसुधा सैन्यै रजोभिश्छादितं नभः ॥१३॥जरासंधस्य तत्सैन्यं प्रलयाब्धिमिवोल्बणम् ॥विस्मिता यादवाः सर्वे बभूवुर्वीक्ष्य मैथिल ॥१४॥प्रद्युम्नो भगवान्वीक्ष्य मागधेंद्रबलार्णवम् ॥शंखं दघ्मौ दक्षिणाख्यं मा भैष्टेत्यभयं ददत् ॥१५॥ततः सांबो महाबाहुः प्रद्युम्नस्य प्रपश्यतः ॥अक्षौहिणीनां दशभिर्युयुधे मागधेन सः ॥१६॥गजा गजैर्युयुधिरे रथिभी रथिनो मृधे ॥हया हयैः पत्तयश्च पत्तिभिर्मैथिलेश्वर ॥१७॥बभूव तुमुलं युद्धमद्भुतं रोमहर्षणम् ॥मागधानां यदूनां चासुराणां निर्जरैर्यथा ॥१८॥अश्वारुढाः केऽपि वीरा भल्लहस्ता इतस्ततः ॥मर्दयंतो गजारूढाः करिकुम्भगतार्चयः ॥१९॥केचिच्छक्तीस्तडिद्वर्णा गृहीत्वा चिक्षिपुर्बलात् ॥ताः शक्तयस्त्वरीन् भित्वा दंशितान् धरणीं गताः ॥२०॥केचिद्वीरा नदन्तः कौ रथांगानि च चिक्षुपुः ॥चिच्छिदुर्वीरपटलं नीहारं रवयो यथा ॥२१॥भिंदिपालैर्मुद्गरैश्च कुठारैरसिपट्टिशैः ॥अच्छूरिकार्ष्टिभिस्तीक्ष्णैर्निस्त्रिंशैर्युयुधुश्च खे ॥२२॥तोमरैश्च गदभिश्च बाणैश्छिन्नानि भूतले ॥निपेतुर्वीरकरिणामश्वानां च शिरांसि च ॥२३॥कबंधास्तत्र चोत्पेतुः पातयन्तो हयान्नरान् ॥खड्गहस्ताः प्रधावन्तः संग्रामेषु भयंकरा ॥२४॥वीरोपरि गता वीरा निपेतुश्छिन्नबाहवः ॥हयोपरि हयाः केचिद्बाणैः संछिन्नकंधराः ॥२५॥विद्याधर्यश्च गंधर्व्यो वव्रिरे ह्यंबरे गतान् ॥वीरान्पतीन्समिच्छंत्यस्तासां चाभूत्कलिर्महान् ॥२६॥क्षात्रधर्मापराः केचिद्युद्धदत्तासवो नृप ॥न चलन्तः पदं पृष्ठे सदा संग्रामशालिनः ॥२७॥जग्मुः परं पदं ते वै भीत्वा मार्तण्डमंडलम् ॥ननृतुः शिशुमारे वै मंडले च नटा इव ॥२८॥एवं सांबमहावीरैर्मर्दितं मागधं बलम् ॥दुद्राव पश्यतां तेषां कृष्णभक्त्या यथाशुभम् ॥२९॥केचिद्वै वृक्णवर्माणश्छिन्नचापास्तथापरे ॥पलायमाना धावंतस्त्यक्तखड्गर्ष्टिपाणयः ॥३०॥पलायमानं स्वबलं वीक्ष्य तन्मागधेश्वरः ॥धनुष्टंकारयन्प्राप्तो मा भैष्टेत्यभयं ददौ ॥३१॥स्वबलं नोदयामास जरासंधो धनुर्ज्यया ॥महामात्यः प्रेरयति ह्यंकुशेन गजं यथा ॥३२॥सांबस्तदैव सम्प्राप्तो दशभिश्चापनिर्गतैः ॥बाणैर्विव्याध समरे मागधेंद्रं महाबलम् ॥३३॥धनुर्ज्यामब्धिकल्लोलभीमसंघर्षनादिनीम् ॥चिच्छेद दशभिर्बाणैः सांबो जांबवीसुतः ॥३४॥धनुरन्यत्समादाय जरासंधो महाबलः ॥धनुः सांबस्य चिच्छेद बाणैर्दशभिरग्रतः ॥३५॥चतुर्भिश्चतुरो वाहान्द्वाभ्यां केतुं रथं त्रिभिः ॥एकेन सारथिं जघ्ने मागधेंद्रो जरासुतः ॥३६॥स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥पुनरन्यं समास्थाय रथं सांबो महाबलः ॥३७॥गृहीत्वा चापमत्युग्रं सज्जं कृत्वा विधानतः ॥तद्रथं चूर्णयामास सांबो बाणशतैरपि ॥३८॥रथं त्यक्त्वा जरासंधो गजमारुह्य वेगतः ॥बभौ गजे मागधेंद्र इन्द्र ऐरावते यथा ॥३९॥चित्रपत्रविचित्रांगं कालांतकयमोपमम् ॥सांबाय नोदयमास मत्तेभं क्रुद्धमानसः ॥४०॥गृहीत्वा सरथं सांबं शुण्डादण्डेन नागराट् ॥कुर्वंश्चीत्कारविकलश्चिक्षेप नवयोजनम् ॥४१॥तदा कोलाहले जाते सांबसेनासु मैथिल ॥प्रद्युम्नपार्श्वाच्च गदः प्राप्तोऽभूद्वेगतो बलम् ॥४२॥विनाशयन्नंधकारं यथार्क उदयाचलात् ॥जरासंधस्यापि गजं मुष्टिना वसुदेवजः ॥४३॥जघान शक्रो वज्रेण यथा प्रोच्चदरीभृतम् ॥गजो मुष्टिप्रहारेण विह्वलो धरणीं गतः ॥४४॥जगाम पञ्चतां राजंस्तदद्भुतमिवावभवत् ॥जरासंधः समुत्थाय गदामादाय वेगतः ॥४५॥गदं तताड सहसा जगर्ज घनवद्बली ॥तत्प्रहारेण स गदो न चचाल रणांगणात् ॥४६॥त्वरं गदां समादाय लक्षभारविनिर्मिताम् ॥अताडयज्जरासंधं सिंहनादमथाकरोत् ॥४७॥तत्प्रहारेण व्यथितो बृहद्रथसुतो बली ॥जरासंधः समुत्थाय गृहित्वा सगदं गदम् ॥४८॥चिक्षेप रोषतो राजन्नाकाशे शतयोजनम् ॥गदोऽपि मागधं नीत्वा भ्रामयित्वा महाबलः ॥४९॥चिक्षेप गगने तं वै योजनानां सहस्रकम् ॥आकाशात्पतितो राजा मागधो विंध्यपर्वते ॥५०॥उत्थाय युयुधे तेन गदेनापि महाबलः ॥तदैव सांबः संप्राप्तो गृहीत्वा मागधेश्वरम् ॥५१॥भूपृष्ठे पोथयामास सिंहः सिंहमिवौजसा ॥एकेन मुष्टिना सांबं द्वितीयेन गदं तथा ५२॥तताड मागधो राजा जगर्जाशु रणांगणे ॥मुष्टिप्रहारव्यथितौ गदः सांबश्च मूर्छितौ ॥५३॥हाहाकारो महानासीत्तदैवाशु रणांगणे ॥रथेनातिपताकेन प्रद्युम्नो यादवेश्वरः ॥५४॥अक्षौहिणीयुतः प्राप्तो मा भैष्टेत्यभयं ददौ ॥जरासंधो गदां नीत्वा लक्षभारविनिर्मिताम् ॥५५॥विवेश यदुसेनायामरण्येऽग्निरिव प्रभुः ॥रथान्गजन्सवीरांश्च तुरङ्गान्सैंधवान्बहून् ॥५६॥पातयमास राजेंद्र पद्मानीव महागजः ॥जरासंधस्य या सेना सापि सर्वा समागता ॥५७॥जघान निशितैर्बाणैर्यदूनां सर्वतो बलम् ॥प्रद्युम्नो युयुधे युद्धे निर्भयो यादवेश्वरः ॥५८॥निपातयन्नरीन्बाणैर्धनुष्टङ्कारयन्मुहुः ॥तदैव यदुपुर्यास्तु बलदेवः समागतः ॥५९॥प्रादुर्बभूव तत्रापि सर्वेषां पश्यतां सताम् ॥समाकृष्य हलाग्रेण मागधेंद्रं महाबलम् ॥६०॥मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः ॥शतयोजनपर्यंतं रथाश्वगजपत्तयः ॥६१॥पतिता भिन्नशिरसः सर्वे वै निधनं गताः ॥देवदुंदुभयो नेदुर्नरदुन्दुभयस्तथा ॥६२॥बलदेवोपरि सुराः पुष्पवर्षं प्रचकिरे ॥तदा जयजयारावो यदूनां स्वबले महान् ॥६३॥प्रद्युम्नाद्यास्ततो नेमुः कामपालं गतव्यथाः ॥इत्थं जित्वा मागधेन्द्रं बलदेवो महाबलः ॥६४॥प्रययौ द्वारकां राजन्भगवान्भक्तवत्सलः ॥जरासंधसुतो धीमान् सहदेव उपायनम् ॥६५॥नीत्वा पुरः शंबरारेर्गिरिदुर्गाद्विनिर्गतः ॥अश्वार्बुदं रथानां च द्विलक्षं हस्तिनां तथा ॥६६॥ददौ षष्टिसहस्रणि नत्वा कार्ष्णिं प्रभाववित् ॥६७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे मागधविजयो नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP