संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः|

विश्वजितखण्डः - अध्यायः ४५

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
भैरवाद्या रागगणाः पुरः प्राप्ता हरेः प्रभोः ॥
रूपानुरूपावयवां तनुं दृष्ट्वातिहर्षिताः ॥१॥
यत्र यत्र च तेषां वै दृष्टिः प्राप्ता हरेस्तनौ ॥
तत्र स्थिता च निर्गन्तुं लावण्यान्न शशाक ह ॥२॥
अहो श्रीकृष्णचन्द्रस्य रूपमत्यद्‌भुतं हरेः ॥
दृष्टोपवर्णनं तस्य चक्रुस्तेऽपि पृथक् पृथक् ॥३॥
भैरव उवाच -
भज हरिजानुद्वयमिति लक्ष्मीः ॥
भजति सदांके कमलकराभ्याम् ॥४॥
मेघमल्लार उवाच -
ऊरू विष्णो रम्भाखंडौ हेमस्तंभौ ध्याये वंद्यौ ॥
ओजः पूर्णौ शोभायुक्तौ वस्त्रपीतौ कृष्णस्योभौ ॥५॥
दीपक उवाच -
सकलसुखकरं कनकरुचिधरम् ॥
प्रथितहरिपदं भजत कटितले ॥६॥
मालकोश उवाच -
कटी केशवाद्या हरेरस्ति तत्र
नृणां नेत्रयोर्दृष्टिमानं हरंति ॥
परं कंपिता मंदगच्छत्समीरैः
सुनम्रेण सा सर्वचेतोहरेत्थम् ॥७॥
श्रीराग उवाच -
नाभेः सरः पुष्करकुण्डवच्च
तल्लसत्त्रिवल्ल्यूर्मिमनोहरं पदम् ॥
रोमावलिप्रोज्झितकामकाननं
भजामि नित्यं हृदि राधिकापतेः ॥८॥
हिंडोल उवाच -
अक्षरपंक्तिः किंन्वलिपंक्तिः पिप्पलपत्रे मोहनमाला ॥
किं कमले यच्छ्यामलरेखा किं ह्युदरे रोमावलिरेखा ॥९॥
भैरवरागिण्य ऊचुः
पीतपटं यत्कृष्णहरेरिंद्रधनुर्वद्दीप्तियुतम् ॥
काञ्चनशिल्पैश्चारुचितद्‌भजन्नॄणां दुःखहरम् ॥१०॥
भैरवपुत्रा ऊचुः
चतुःसमुद्रा इव विश्वपूरका आनन्ददा एव चतुष्पदार्थवत् ॥
ते बाहवो लोकवितानदण्डवज्जयन्ति भूधारणदिग्गजा इव ॥११॥
मेघमल्लाररागिण्य ऊचुः
अरुणबिंबफलद्युतिमण्डितं
भज हरेरधरं मधुरं मनः ॥
नवजपादलमल्लसुविग्रहं
सकलवल्लभभूमिपतेः प्रभोः ॥१२॥
मेघमल्लारपुत्रा ऊचुः
कर्पूरकेतकसुमौक्तिकहीरकाणां
श्रीखंडचंद्रचपलामृतमल्लिकानम् ॥
तेषां रुचेश्च परिभावमकारि पूर्वं
या दंतपंक्तिरमला स्मरतां परस्य ॥१३॥
दीपकरागिण्य ऊचुः
नयनयुगलजातं पातु नोऽहर्निशं ते
मदनशरपरोक्षं सर्वलावण्यदीक्षम् ॥
परिहृतसुरवृक्षं कोटिशो लक्षलक्षं
निजजनकृतरक्षं दानदक्षं कटाक्षम् ॥१४॥
दीपकपुत्रा ऊचुः
किं वा कुलिंगयुगलं नवपद्ममध्ये
दुःखक्षायाय वसतां निशितासियुग्मम् ॥
जैत्रं धनुर्जयति किं मकरध्वजस्य
भ्रूमण्डलं किमथ चंद्रमुखे परस्य ॥१५॥
मालकोशरागिण्य ऊचुः
परिनृत्यति इन्दुमंडले फणिपत्‍न्याविव लोलकुण्डले ॥
कमले मकरन्दनिर्भरे भ्रमरालीव सुगण्डमण्डले ॥१६॥
मालकोशपुत्रा ऊचुः
रविरेव खमण्डले किमु यदुभर्तुस्त्वथवा घने तडित् ॥
अधितिष्ठति गण्डमण्डलं द्युतिखण्डं कलधौतकुण्डलम् ॥१७॥
श्रीरागिण्य ऊचुः
कलिंगयोः खंजनयोः किलारादापत्यतां युद्धमभूदलीनाम् ॥
तेषां गतः कीर उषःप्रफुल्ले चकास्ति पद्मेऽरुणबिंबलिप्सुः ॥१८॥
श्रीरागपुत्रा ऊचुः
परिकरीकृतपीतपटं हरिं शिखिकिरीटनतीकृतकंधरम् ॥
लगुडवेणुकरं चलकुंडलं पटुतरं नतवेषधरं भजे ॥१९॥
हिंडोलरागिण्य ऊचुः
अतसीकुसुमोपमेयकांति-र्यमुनाकूलकदम्बमध्यवर्ती ॥
नवगोपवधूविहारशाली वनमाली वितनोतु मंगलानि ॥२०॥
हिंडोलपुत्रा ऊचुः -
हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारी ॥
इति त्वां च मत्वा जगन्नाथदेवं यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥२१॥
श्रीनारद उवाच -
इति रागकृतं ध्यानं यः शृणोति पठेत्सदा ॥
तन्नेत्रगोचरो याति भगवान् भक्तवत्सलः ॥२२॥
इत्थं स्वं दर्शनं दत्वा वेदादिभ्यो हरिः स्वयम् ॥
बभूव पश्यतं तेषां शार्ङ्‌गपाणिश्चतुर्भुजः ॥२३॥
कृत्वा तु दर्शनं विष्णोर्गते देवे गणैः सह ॥
सैन्ये सुतं शंबरारिं स्थापयित्वा यदूत्तमम् ॥२४॥
द्वारकां स्वां पुरीं गंतुं मनश्चक्रे परात्परः ॥२५॥
मञ्जीरघंटाकलकिंकिणीकलं
सुकांस्यपात्रध्वनिना रथेन ॥
सुग्रीवमुख्यैः स च चञ्चलाश्वै-
र्नियोजितैर्मैथिल दारुकेण ॥२६॥
युतेन सद्‌रत्‍नमता श्रुतिस्वनैः
प्रभंजनैजद्‌गरुडध्वजेन ॥
विहाय तां वेदपुरीं परात्मा
ययौ पुरीं यादववृंदमंडिताम् ॥२७॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे श्रीकृष्णध्यानवर्णनं नाम पंचचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP