संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ६ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता मरुधन्वा-मानस-माहिष्मती-जयम् Translation - भाषांतर श्रीनारद उवाच -इत्थं जित्वाथ कालिंगं प्रद्युम्नो यादवेश्वरः ॥जगाम मरुधन्वानं जलं वैश्वानरो यथा ॥१॥गिरिदुर्गसमायुक्तं धन्वदेशाधिपं गयम् ॥उद्धवं प्रेषयामास ज्ञात्वा तं यादवेश्वरः ॥२॥गिरिदुर्गे गतः साक्षादुद्धवो बुद्धिसत्तमः ॥सभामेत्य गयं प्राह शृणु राजन्महामते ॥३॥उग्रसेनो यादवेन्द्रो राजराजेश्वरो महान् ॥जंबूद्वीपनृपाञ्जित्वा राजसूयं करिष्यति ॥४॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥असंख्यब्रह्मांडपतिर्मंत्री तस्याभवद्धरिः ॥५॥तेन वै प्रेषितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥शीघ्रं तस्मै बलिं नीत्वा कुलकौशलहेतवे ॥६॥श्रीनारद उवाच -श्रुत्वा किंचित्प्रकुपितो वीर्यशौर्यमदोद्धतः ॥उद्धवं प्राह नृपतिर्गयो नाम महाबलः ॥७॥गय उवाच -बलिं तस्मै न दास्यामि विना युद्धं महामते ॥अल्पकालेन यदवो गता वृद्धिं भवादृशाः ॥८॥इत्युक्त उद्धवो राजञ्च्छंबरारिं समेत्य सः ॥सर्वेषां यादवानां च शृण्वतां प्रशशंस ह ॥९॥तदैव रुक्मिणीपुत्रो गिरिदुर्गं समाययौ ॥तत्सैन्यैर्यादवैः सार्द्धं घोरं युद्धं बभूव ह ॥१०॥चूर्णयन् गजपादैश्च नागरान् भूजनान्द्रुमान् ॥अक्षौहिणीभ्यां संयुक्तो गयो योद्धुं विनिर्ययौ ॥११॥रथिनो रथिभिस्तत्र गजवाहा गजैः सह ॥आश्ववाहैरश्ववाहा वीरा वीरैः परस्परम् ॥१२॥युयुधुस्तीक्ष्णबाणौघैश्चर्मखड्गगदर्ष्टिभिः ॥पाशैः परश्वधै राजञ्छतघ्नीभिर्भुशुंडिभिः ॥१३॥मन्यमानाश्च यदुभिर्गयवीरा भयातुराः ॥सर्वे स्वं स्वं रथं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥१४॥पलायमाने स्वबले गयो नाम महाबलः ॥एकाकी प्रययौ योद्धुं धनुष्टंकारयन्मुहुः ॥१५॥दीप्तिमान् कृष्णपुत्रस्तु धनुर्बाणै रिपोर्हयान् ॥एकेन सारथिं जघ्ने द्वाभ्यां केतुं समुच्छ्रितम् ॥१६॥रथं च बाणविंशत्या कवचं पंचभिः पुनः ॥धनुस्तस्यापि चिच्छेद शतबाणैर्महाबलः ॥१७॥गयोऽन्यद्धनुरादाय दीप्तिमन्तं हरेः सुतम् ॥जघान बाणविंशत्या जगर्ज घनवद्बली ॥१८॥तत्प्रहारेण समरे किंचिद्व्याकुलमानसः ॥दीप्तिमानथ जग्राह शक्तिं ज्योतिर्मयीं दृढाम् ॥१९॥चिक्षेप भ्रामयित्वा तां गयाख्याय महात्मने ॥साऽपि तद्धृदयं भित्वा पपौ च रुधिरं महत् ॥२०॥गयोऽपि पतितो राजन्मूर्छितोऽभूद्रणांगणे ॥दीप्तिमांश्च धनुष्कोट्या कर्षयंस्तद्गले रिपुम् ॥२१॥प्रद्युम्नस्य पुरः प्रागात्कद्रुजं गरुडो यथा ॥नरदुंदुभयो नेदुर्देवदुन्दुभयस्तदा ॥आकाशाद्ववृषुर्देवाः पुष्पवर्षाणि पार्थिवाः ॥२२॥तदैव तेनापि समर्पितांघ्रिःश्रीकृष्णपुत्रो नृप शंबरारिः ॥अवन्तिकां संप्रययौ महात्माश्रीकर्णिकां स्वर्णमयीमिवालिः ॥२३॥श्रुत्वाऽऽगतं तं जयसेनराजःसमर्चयामास स मालवाधिपः ॥आनीय वृद्धान्सुबलिं महात्मनेप्रधर्षितो मैथिल तत्प्रभाववित् ॥२४॥राजाधिदेवीं स्वपितुः पितुः स्वसांप्रणम्य तां कृष्णसुतो महामनाः ॥विंदानुविंदौ परिरभ्य तत्सुतौबभौ वृतो मालवदेशसंभवैः ॥२५॥प्रद्युम्नो धन्विनां श्रेष्ठः पुरीं माहिष्मतीं ययौ ॥यादवैः स्वबलैः सार्द्धं नर्मदां स ददर्श ह ॥२६॥राजितामंबुकल्लोलैः शृङ्गारतिलकामिव ॥वहंती पुष्पनिचयमुष्णीषं मुद्रिकामिव ॥२७॥वेतसीवेणुतरुभिः पुष्पितैर्माधवैर्वृतैः ॥स्फुरद्भिर्मूर्तिमद्भिश्च देवैः स्वर्गनदीमिव ॥२८॥तत्तीरे शिबिरैर्युक्तः प्रद्युम्नो यादवेश्वरः ॥स्थितोऽभूद्यादवैः साकं देवैरिंद्र इव प्रभुः ॥२९॥इन्द्रनीलो महाराज ज्ञानी माहिष्मतीपतिः ॥स्वदूतं प्रेषयामास प्रद्युम्नाय महात्मने ॥३०॥प्रद्युम्नराजशिबिरे दूतो गत्वा कृतांजलिः ॥उवाच वचनं तत्र सर्वेषां शृण्वतां नृप ॥३१॥दूत उवाच -हस्तिनापुरनाथेन धार्तराष्ट्रेण धीमता ॥स्थापितोऽतिबलो वीरो बलिं कस्मै न दास्यति ॥३२॥सुयोधनाय चेच्छाभिर्द्रव्यं यच्छति नो बलात् ॥योद्धव्यं च भवद्भिश्च विफलो हि रणोऽत्र वै ॥३३॥श्रीप्रद्युम्न उवाच -यथा गयो दूत कलिंगराड् यथातथाभिभूतोऽपि बलिं प्रदास्यति ॥नृपं न जानाति महोग्रसेनकंमाहिष्मतीशोऽयमतीव राजराट् ॥३४॥श्रीनारद उवाच -उक्तो दूतस्तदैवाशु गत्वा माहिष्मतीपतिम् ॥सभायां कथयामास प्रद्युम्नकथितं वचः ॥३५॥यदूनामुद्भटं सैन्यं वीक्ष्य माहिष्मतीपतिः ॥गजानां पंचसाहस्रं हयानां नियुतं शुभम् ॥३६॥रथानामयुतं जैत्रं नीत्वा राजा विनिर्गतः ॥बलिं ददौ समेत्याशु प्रद्युम्नाय महात्मने ॥३७॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे मरुधन्वमालवमाहिष्मतीदेशविजयो नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP