संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम एकोनचत्वारिंशोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अत: परं प्रवक्ष्यामि प्रायश्चित्तविधिं परम् ।पूजनादिषु सर्वासु क्रियासु मुनिसत्तम ॥१॥प्रात: सन्ध्यार्चनाहीने मध्याह्ने द्विगुणं चरेत् ।प्रातर्मध्याह्नयोर्हीने सायाह्ने त्रिगुणं चरेत् ॥२॥एकाहमर्चनाहीने उपवासव्रतं चरेत् ।कलशैर्नवभि: स्नाप्य पूर्वोक्तेन विधानत: ॥३॥पुण्याहं वाचयेत्तत्र भोज्या वै ब्राह्मणास्त्रय: ।अर्चयित्वा यथान्यायं पूर्वोक्तेन विधानत: ॥४॥द्वितीये द्विगुणं चैव तृतीये त्रिगुणं चरेत् ।एवमेव तु कर्तव्यं द्वादशाहान्तमेव च ॥५॥पक्षहीनं भवेत्तस्मिन् स्नापयेदधमोत्तमम् ।ब्राह्मणान् भोजयेत्तत्र विप्रान् द्वादशं पायसै: ॥६॥मासहीनं भवेत्तत्र वास्तुहोमेन संयुतम् ।अधमोत्तममार्गेण स्नपनं कारयेद्धरे: ॥७॥पुण्याहं वाचयेत्तत्र पूजयेत् पूर्ववत् क्रमात् ।ब्राह्मणान् भोजयेत्तत्र शिष्टान् पञ्चदशाधिकान् ॥८॥एतत् क्रमेण कृत्वा तु त्रिमासान्तं विशेषत: ।त्रिमासादीनि षण्मासादर्वाक् पूजाविलोपने ॥९॥संमार्ज्यान्तर्बहिर्गेहं प्रक्षाल्य विधिवत्तदा ।धूपयित्वागरुधूपेन पुण्याहं तत्र कारयेत् ॥१०॥उत्तमोत्तममार्गं वा ह्येकाशीतिक्रमेण वा ।स्नापयेद्देवदेवेशं यथावित्तानुसारत:(!) ॥११॥ब्राह्मणान् भोजपेत्तत्र पूर्ववद्धोममाचरेत् ।महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥१२॥तत: परं त्रिवर्षात् प्राक् स्नपंन चोत्तमोत्तमम् ।स्नापयेन्मुनिशार्दूल पूर्वोक्तेन विधानत: ॥१३॥ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारत:(!) ।तदूर्ध्वं द्वादशादर्वाक् प्रायश्चित्तं विधीयते ॥१४॥प्रणवेन निरीक्ष्याथ गर्भगेहं तु साधक: ।पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विधोधयेत् ॥१५॥उत्तमोत्तममार्गं वाप्यथवा मध्यमं तु वा ।स्नापयेद्देवदेवेशं यथाविभवविस्तरम् ॥१६॥ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारत:(!) ।शान्तिहोमं क्रामत् कृत्वा पूर्ववत् पूजयेतद्धरिम् ॥१७॥अत ऊर्ध्वं मुनिश्रेष्ठ प्रायश्चितं विधीयते ।जलसंप्रोक्षणं कुर्यात् पुण्याहोक्तिपुर:सरम् ॥१८॥ब्राह्मणान् भोजयेत्तत्र तेन शान्तिर्भविष्यति ।पूजाङ्गद्रव्यहीनं चेत् अर्घ्यादिहविरन्तकम् ॥१९॥हीनैर्द्रव्यैस्तु देवेशमर्चयेद्द्विगुणं पुन: ।अष्टाक्षरेण मन्त्रेण देवाग्रे तु शतं जपेत् ॥२०॥तद्दोषपरिहारार्थं प्रायश्चित्तमिदं भवेत् ।प्रायश्चित्तं क्रमात् कुर्यात् तद्द्रव्येण दिने दिने ॥२१॥एतत् संक्षेपत: प्रोक्तं पूजालोपे तु नारद ।आलये पतिते तत्र बालस्थानं तु कारयेत् ॥२२॥देवेशं विधिवत् स्थाप्य पूजयेत्तु दिने दिने ।आलयं पूर्ववत् कृत्वा प्रोक्षणं कारयेत्तत: ॥२३॥भिन्नालये तु तत्स्थाने शैलं वा दारु योजयेत् ।इष्टकासुधयायुक्तं नवकर्माणि कारयेत् ॥२४॥चित्राभासालये तत्र चित्रकर्म समाचरेत् ।स्नपनं तत्र कुर्वीत मूर्तिहोमं च कारयेत् ॥२५॥ब्राह्मणान् विष्णुभक्ताश्चं भोजनं कारयेत्तत: ।महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥२६॥दहने तु प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।प्रासादं मण्डपं वाथ प्राकारं गोपुरं तथा ॥२७॥प्रासादाभ्यन्तरं वापि पचनालयमेव वा ।विनोदमण्डपं चैव यागमण्डपमेव वा ॥२८॥पुष्पस्थाने जलस्थाने चान्यस्मिन्नितरेषु च ।प्रमादादग्निदग्धं चेत् सम्यगुत्पाद्य पूर्ववत् ॥२९॥स्नपनं तु त्रिरात्रात् प्राक् कारयेदधमोत्तमम् ।ब्राह्मणान् भोजयेत्तत्र पुण्याहं चैव कारयेत् ॥३०॥नारायणोपनिषदं पठेत्तन्त्रोत्तरक्रमात्(?) ।अष्टाक्षरेण जुहुयादाज्येन शतमाहुती: ॥३१॥यदि दग्धं विमानं चेत् केवलं(-ला?)प्रतिमा पुन: ।दग्धस्य चैकदेशं चेत् सम्यगुत्पाद्य पूर्ववत् ॥३२॥स्नपनं चोत्तमं कुर्यात् अधमोत्तममेव वा ।स्नापयेद्देवदेवेशं पूजयेत् पूर्ववत् क्रमात् ॥३३॥विमानं बहुदग्धं चेत् बालस्थानं प्रकल्पयेत् ।नवगेहं क्रमात् कृत्वा शेषकर्माणि कारयेत् ॥३४॥नारद:---उक्तो मे भवता दोष: स्थानस्य तु विशेषत: ।अत्यद्भुतानां सर्वेषां दोषान्मे ब्रूह्यशेषत: ॥३५॥आलये देवदेवस्य ये दोषा: प्रभवन्ति वै ।हविषां चैव ये दोषा: तथोपकरणेषु च ॥३६॥विष्वक्सेन:---साधु पृष्टं त्वया देव वक्तव्यं च मयाधुना ।आलये देवदेवस्य ये दोषास्तान् ब्रवीमि ते ॥३७॥वल्मीकदर्शने चैव तथा सर्पस्य दर्शने ।अन्येषां चैव जन्तूनां सविषाणां मुनीश्वर ॥३८ ॥मधुप्रलम्बने चैव बुद्धिपूर्वाग्निपातने ।वैद्युदशनिपाते च उल्कापाते तथैव च ॥३९॥प्रमादात् प्रतिमा वापि द्विधा चैव भेवद्यदि ।उलूकवासने चैव वृक्षाणां च समुद्भवे ॥४०॥विमानस्य च भेदे च सर्वेषां च विनाशकृत्(?) ।केशकीटादिपाते च जलजानां निपातने ॥४१॥अन्येषां चैव जन्तूनां विनिपाते हवि:षु च ।गर्भागारे तथा विष्णो: उपहारे तथैव च ॥४२॥मण्डपे देवदेवस्य प्रथमावरणेऽथवा ।द्वितीये वा तृतीये वा बलिपीठेषु सर्वश: ॥४३॥अग्निस्थाने जलस्थाने पुष्पस्थाने तथैव च ।आस्थानमण्डपे चैव तथालंकारमण्डपे ॥४४॥लीलास्थानेषु चान्येषु गवां स्थाने तथैव च ।शिथिलीनां समुद्भावे दोषान् वक्ष्ये मुनीश्वर ॥४५॥वल्मीकदर्शने व्याधि: मृत्यु: सर्पस्य दर्शने ।अनावृष्टिर्मधोश्चैव दुर्भिक्षमितरेष्वपि ॥४६॥शिथिली(शिलीन्ध्र?) दर्शने चैव प्रतिमायां हरेर्यदि ।राजा मृत्युमवाप्नोति राज्यभ्रंशमथापि वा ॥४७॥व्याधिं वा महादाप्नोति राज्यभ्रंशमथापि वा ॥४७॥व्याधिं वा महादाप्नोति शत्रुभिर्वा पराभवम् ।पुत्रदारवियोगं वा लभते नात्र संशय: ॥४८॥ग्रामाणां नगराणां च देशस्य च बलस्य च ।विनाशमाप्नुयात् सम्यक् सद्यो वा स्यादुपल्पव: ॥४९॥पीठे गर्भगृहे चैव उपहारे तथैव च ।अमात्यमन्त्रिणां दोषा: प्रकृतीनां तथैव च ॥५०॥स्थानान्तरेषु सर्वत्र शिथिलीनां तु दर्शने ।राष्ट्रे दोषा भविष्यन्ति दुभिक्षव्याधिसंभवा: ॥५१ ।शुनै(श्वभि?)र्वा वानरैर्वापि गृध्रैश्च कृमिकीटकै: ।पिङ्गलैर्वायसैश्चैव पक्षिभि: कुक्कुटादिभि: ॥५२॥तथान्यैस्तादृशैर्भूतै: प्रतिमा स्पृश्यते यदि ।स्थाननाशमवाप्नोति ग्रामस्यानर्थमेव च ॥५३॥प्रायश्चित्तं प्रवक्ष्यामि वल्मीकादेश्च दर्शने ।तदपि प्रतिमायां चेद्यात्रां कृत्वा यथाविधि ॥५४॥तद्देशं शोधयित्वा तु यावत्सम्यग्भवेद्दृढम् ।पूर्ववत् कल्पयित्वा तु पुन:संस्थापयेत् क्रमात् ॥५५॥जलसंप्रोक्षणं वापि कुर्यान्मन्त्रीं विचक्षण: ।दूषितं चेतरद्बिम्बं जन्तुभि: स्पर्शने सति ॥५६॥मार्जयित्वा कुशैर्दर्भै: पुण्याहं तत्र कारयेत् ।स्नपनं कारयेत् पश्चात् कर्मार्चायां यथाविधि ॥५७॥जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं शतमाहुती: ।ततश्च शिथिलीजाते पीठे गर्भगृहेपि वा ॥५८॥शोधयित्वा तु तं देशं दृढीकृत्य प्रयत्नत: ।स्नपनं विधिवत् कृत्वा चैका?शीतिक्रमेण तु ॥५९॥शान्तिहोमं तत: कृत्वा पुण्याहेनैव शुद्ध्यति ।विमाने मधुनोत्पन्ने प्राकारेऽभ्यन्तरेऽपि वा ॥६०॥प्रक्षाल्य पञ्चगव्येन बहिरन्त: समन्तत: ।स्नपनं चापि कृत्वा तु पुण्याहेनैव शुद्ध्यति ॥६१॥अनुक्तानां तु सर्वेषां प्रायश्चितं विधीयते ।उत्तमं मध्यमं वापि अधमोत्तममेव वा ॥६२॥स्नापयेद्देवदेवेशं पूजयेद्विधिपूर्वकम् ।शान्तिहोमं तत: कृत्वा पुण्याहेनैव शुद्ध्यति ॥६३॥नृत्तगीतं च वाद्यं च कारयेद्देवसन्निधौ ।तदन्ते पूजयित्वा तु जपेन्मूर्तिं यथाक्रमम् ॥६४॥ब्राह्मणान भोजयित्वा तु वैष्णवांश्च विशेषत: ।अलंकारविधिं कृत्वा नैवेद्यं च महाहवि: ॥६५॥नित्यदीपविनाशे तु प्रायश्चित्तं विधीयते ।कपिलाज्यं शरावे तु स्थापयित्वास्त्रमन्त्रत: ॥६६॥दीपयित्वा मुनिश्रेष्ठ दीपमुद्रां प्रदर्शयेत् ।नित्याग्नौ समिदाज्येन चरुणा हूयते पृथक् ॥६७॥शतं वापि तदर्धं वा तस्यार्धं वाहुती: क्रमात् ।कारयेन्मूर्तिमन्त्रेण प्रत्येकं जुहुयात् क्रमात् ॥६८॥हविराद्येष सर्वेषु केशकीटादिपातने ।एवमेव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥६९॥शुद्धस्नानं पुरा कृत्वा तद्बिम्बं परमेष्ठिना ।अधमोत्तममार्गेण स्नपनं कारयेत् क्रमात् ॥७०॥पञ्चोपनिषदैर्मन्त्रै: प्रत्येकं शतमाहुती: ।पुण्याहं वाचयित्वा तु तेन शान्तिर्भविष्यति ॥७१॥देवेशं पूजयेत् पश्चात् पूर्वोक्तेन विधानत: ।आचार्यं पूजयेत् पश्चात् यथा तुष्टो भविष्यति ॥७२॥इहोपयुक्तद्रव्याणि आचार्याय निवेदयेत् ।प्रायश्चित्तं प्रवक्ष्यामि मरणे देवतालये ॥७३॥चण्डालपतितादीनां मरणे वर्तिते सति ।गर्भागारेऽथवा चार्धमण्डपे वा मुनीश्वर ॥७४॥प्रासादस्थितपीठाग्रे तथाभ्यन्तरमण्डपे ।खात्वा चैव धनुर्मात्रं तं देशमशिला तु चेत् ॥७५॥संपूर्य सैकतैर्मृद्भि: क्षालयित्वा तु वारिणा ।आलयं पञ्चगव्येन बहिरन्तश्च शोधयेत् ॥७६॥समिदाज्येन चरुणा प्रत्येकं तु सहस्रकम् ।अष्टदिक्षु यथान्यायं जुहुयान्मूलमन्त्रत: ॥७७॥ब्राह्मणान् भोजयेत् पश्चात् प्रासादस्य समन्तत: ।पुण्याहं वाचयेत्तत्र कारयेदधमोत्तमम् ॥७८॥स्नापेयद्विधिवत् सम्यग्यथावित्तानुसारत:(!) ।एतदर्धं तु शूद्रस्य मरणे कारयेद्बुध: ॥७९॥तदर्धं तु द्विजातीनां मरणे देवतालये ।मण्डपे गोपुरे तेषां मरणे वर्तिते सति ॥८०॥भूशुद्धिं पूर्ववत् कृत्वा पुण्याहं चैव कारयेत् ।होममेकं तु कर्तव्यमालयस्योत्तरे बुध: ॥८१॥शिलामयं चेत्तद्गेहं गर्भागारादि नारद ।कपिलागोमयं ग्राह्यं मूलमन्त्रेण मन्त्रवित् ॥८२॥गर्भागारादि सर्वत्र वायुमन्त्रेण लेपयेत् ।संप्रोक्ष्य पञ्चगव्येन शेष पूर्ववदाचरेत् ॥८३॥भूगुप्ते चाग्निदग्धे च जलाविष्टे निरास्पदे ।मन्त्रेशं(-शे?)चिरलुप्ते च पुन: स्थापनमाचरेत् ॥८४॥तस्मादूर्ध्वं तु विधिवत् बिम्बस्थापनमारभेत् ।*अङ्गहीनस्य बेरस्य अङ्गहीनं*(?)भवेद्यदि ॥८५॥सुवर्णेन तदङ्गं तु कृत्वा सन्धापयेद्दढम् ।एवं कृत्वा विधानेन पुन: स्थापनमारभेत् ॥८६॥जलवासविधानेन पूर्ववच्छेषमाचरेत् ।अथवात्र मुनिश्रेष्ठ जलसंप्रोक्षण तु वा ॥८७॥कारयेद्देवदेवस्य तेन शान्तिर्भविष्यति ।सन्त्याज्यं दारुजं बिम्बं सन्धेयं मृण्मयं भवेत् ॥८८॥छिन्ने भिन्ने तथा वक्त्रे मूलार्चायां प्रमादत: ।कल्पयित्वा तु देवेशे बालस्थानक्रमेण तु ॥८९॥युक्त्या युक्तिविशेषेण शिल्पिभि: कारयेद्दृढम् ।कृत्वा वर्णैरलंकारं प्रतिष्ठां पुनरारभेत् ॥९०॥सौवर्णप्रतिमायां तु छिन्ने भिन्ने च वक्त्रके ।द्रावयित्वा सकृत् सिक्तं कृत्वा संस्थापयेत् पुन: ॥९१॥ततस्तु बहुधा भिन्नं ताम्रं चाप्सु विनिक्षिपेत् ।एकधा च द्विधा भिन्नं ताम्रेणैव तु योजयेत् ॥९२॥तत्सर्वं पूर्ववत् कृत्वा बिम्बं कुर्यान्नवं शुभम् ।ताम्रबिम्बं तु संस्थाप्य नित्यं पूजा प्रवर्तते ॥९३॥बिम्बं सुलक्षणोपेतं राजतं संभवेद्यदि ।जलाधिवासनादीनि तस्मिन् कार्याणि सर्वश: ॥९४॥ताम्रबिम्बगतां शक्तिं राजते स्थाप्य यत्नत: ।ताम्रबिम्बं परित्यज्य राजतं स्थापयेत् क्रमात् ॥९५॥तथैव राजतं त्यक्त्वा सौवर्णं स्थापयेत् क्रमात् ।कदाचिदपि न त्याज्यं सौवर्णं भूतिमिच्छता ॥९६॥स्वधर्मयुक्तजातिभ्यो दुर्वृत्तेऽपि तथा द्विज ।मुख्य एव सदा विप्र तथैवोत्तमबेरकम् ॥९७॥सौवर्णमेव सर्वेषां मुख्यबिम्बं प्रशस्यते ।संस्थाप्य स्वस्य स्थाने तु पूजयेत्तु दिने दिने ॥९८॥ब्रह्मस्थाने स्थितं बिम्बं कर्मार्चां न तु चालयेत् ।चलनं तु भवेत्तस्मिन् राज्यस्य चलनं भवेत् ॥९९॥तत्स्थानं निधनं याति ग्रामस्य निधनं भवेत् ।तस्मात् सर्वप्रयत्नेन उक्तकाले तु चालयेत् ॥१००॥अयने विषुवे चैव संक्रान्त्यां ग्रहणे तथा ।प्रात:सन्ध्यार्चन(-ने?) स्नानवेलायां मुनिसत्तम ॥१०१॥स्नानबिम्बविहीने तु चलनं तु समाचरेत् ।द्वितीयावरणाद्बाह्ये कर्मार्चां न तु चालयेत् ॥१०२॥प्रमादाद्वापि मोहाद्वा चलनं चेन्मुनीश्वर ।जलसंप्रोक्षणं कृत्वा सुपुण्याहपुर:सरम् ॥१०३॥अधमोत्तममार्गेण स्नापयेद्बेरमुत्तमम् ।एकबेरविधाने तु प्रायश्चित्तं विधीयते ॥१०४॥स्नपनं स्थावरार्चायां कर्तव्यं विधिवत् सदा ।प्रासादं तु नवं कृत्वा पञ्चगव्येन शोधयेत् ॥१०५॥अधमोत्तममार्गेण स्नापयेत् पुरुषोत्तमम् ।एवमेव तु कर्तव्यं षङ्विंशद्वत्सरान्तकम् ॥१०६॥अत ऊर्ध्वं प्रवक्ष्यामि जलसंप्रोक्षणं क्रमात् (?) ।तस्मात्तेनैव शुद्धि: स्यात् सर्वशान्तिर्भविष्यति ॥१०७॥अङ्गहीनं भवेद्बिम्बं पुनरुत्पाद्य पूर्ववत् ।संस्थाप्य विधिवत् पूर्वं पुन: स्थापनमाचरेत् ॥१०८॥नारद:---सेनापते महाप्राज्ञ स्नपनस्य प्रसीद मे ।अशास्त्रीये महादोषान् सर्वान् मे ब्रूह्यशेषत: ॥१०९॥यैर्दोषै: स्नपनोद्भूतै राजराष्ट्रं विनश्यति ।पशवश्च प्रजाश्चैव सस्यादिनिधनानि च ॥११०॥विष्वक्सेन:---स्नपनस्य प्रवक्ष्यामि महादोषान् मुनीश्वर ।शलभैर्गन्धदुष्टैस्तु दुष्टा: स्यु: सर्वमानवा: ॥१११॥साधिते कलशे भिन्ने तद्द्रव्यै: पूरयेत् पुन: ।ऊनैश्च कलशैरूनविभवा: सर्वमानवा: ॥११२॥कृमिकीटपतङ्गादिद्रव्येषु पतने यदि ।तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वश: ॥११३॥वर्जितैस्तु सदा द्रव्यै: देवेशस्यार्चनं यदि ।षष्टिर्वर्षसहस्राणि नरकं प्रतिपद्यते ॥११४॥केशयुक्तं तु यद्द्रव्यं निपाते (निपतेद्?) विष्णुमूर्धनि ।मूर्धाभिषिक्तं राजानं नाशयेन्नात्र संशय: ॥११५॥अन्येष्वपि च दुष्टेषु पतितेषु महामुने ।एतदेव फलं प्राह स्वयं नारायण: प्रभु: ॥११६॥पर्युषितैर्न चाम्भाभि: कलशेषु प्रपूरयेत् ।यदि लोभेन गृह्णीयात् काकयोनिशतं व्रजेत् ॥११७॥पुराणसर्पिषा देवं स्नापयेद्यदि लोभत: ।गृध्रयोनिशतं गच्छेत् तदन्ते सूकरो भवेत् ॥११८॥महिषाज्येन देवेशं स्नापयेद्यदि मोहत: ।गृध्रयोनिशतं गच्छेत् तदन्ते कुक्कुटो भवेत् ॥११९॥स्नापयित्वान्यथाज्येन कृकलासशतं व्रजेत् ।दधियुक्तं तु यत् क्षीरं स्नापयेद्यदि लोभत: ॥१२०॥दरिद्रो मानुषो लोके जन्मश्चाज(अजजन्म?)शतं व्रजेत् ।रसद्रव्यं च वन्यैस्तु नियुज्यान्माक्षिकं नर: ॥१२१॥यदि तत्पूजितो विप्र वृषजन्मशतं व्रजेत् ।कृमिकीटपतङ्गानां द्रव्येषु पतिते (पतनं?) यदि ॥१२२॥तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वश: ।दृश्यते साधितं चैव तद्द्रव्यं तु परित्यजेत् ॥१२३॥तान् सर्वान्न स्पृशेद्यस्तु कलशे साधिते पुन: ।तथा वै दृश्यते चापि ततोऽन्यानि च विन्यसेत् ॥१२४॥श्वानकुक्कुटचण्डालै: साधिते(?)दृश्यते पुन: ।परित्यज्य ततोऽन्यांश्च साधयेत् कलशान् पुन: ॥१२५॥उदक्यान्त्यजैर्वापि साधिते(?)दृश्यते पुन: ।परित्यज्य ततो विद्वान् पुनश्चान्यं तु विन्यसेत् ॥१२६॥दुष्टैर्हि वीक्षितं चैव पादस्पृष्टं च यद्भवेत् ।राजानं राजमात्रं च यजमानमथापि वा ॥१२७॥नाशयेत् सपरीवारं सपशुद्रव्यसंचयम् ।सामात्यं सपुरं राष्ट्रं दुष्टद्रव्याभिषेचने ॥१२८॥व्याधयश्च भवन्त्युग्रा अनावृष्टिस्तथैव च ।भूतवेतालरक्षांसि पिशाचोरगदानवा: ॥१२९॥बाधन्ते ह्यनिशं ह्येते राजानं राष्ट्रमेव च ।आढकं वा तदर्धं वा तन्न्यूनं परिवर्जयेत् ॥१३०॥स्नेहद्रव्याणि सर्वाणि साधको मन्त्रवित्तम: ।वस्त्रसूत्रविहीने तु तोरणादिभिरेव वा ॥१३१॥नृत्तगीतादिभिर्वापि गन्धपुष्पादिभिस्तथा ।अलंकार(-रै:?)विहीनं वा देवदेवस्य शाङ्र्गिण: ॥१३२॥यस्मिन् राष्ट्रे मुनिश्रेष्ठ स्नपनं स्यात् कदाचन ।तद्राष्ट्रं चोरभूयिष्ठं शत्रुभिश्चैव हन्यते ॥१३३॥तस्मात् सर्वप्रयत्नेन यथाशास्त्रं यथाक्रमम् ।स्नपनं कारयेद्विष्णो: भूतिमिच्छन् परां गतिम् ॥१३४॥दोषाणां च प्रशमनं व्याधीनां चैव सर्वश: ।ग्रहाणां शान्तये चैव शत्रूणां च जयाय च ॥१३५॥आयुरारोग्यवृद्ध्यर्थं पुत्रपौत्रविवृद्धये ।कामानां चैव सर्वेषां वृद्धये सर्ववर्णिनाम् ॥१३६॥विधिहीनं क्रियाहीनं द्रव्यहीनं तथैव च ।मानहीनं तु यद्द्रव्यं पूजाहीनं च यद्गुरो: ॥१३७॥कालातीतं प्रजाहीनं कर्तृदेशेषु सर्वश: ।आभिचारं(रो?) भवेत् सद्यो ग्रामस्य नगरस्य च ॥१३८॥एवं यथोक्तस्नपनं कारयेद्यस्तु मानव: ।मुच्यते पातकै: सर्वे: पद्मपत्रमिवाम्भसा ॥१३९॥गोध्न: पितृध्नो मातृध्नो भ्रूणहा गुरुतल्यग: ।सुराप: स्वर्णहारी च परदाराभिमर्शक: ॥१४०॥एते चान्ये च मुच्यन्ते पापेभ्य: स्नपनेन वै ।स्नपने ह्यधिकं पुण्यं विद्यते मुनिसत्तम ॥१४१॥अश्वमेधसहस्रं तु यत्कुर्यात् कायशोधनम् ।स्नपनेन तु तद्विष्?णो: लभते नात्र संशय: ॥१४२॥ध्वजस्थाने प्रवक्ष्यामि प्रायश्चितं तु नारद ।अप्रमाणपटं चित्रं वैणवं दण्डमेव वा ॥१४३॥अनुक्ताधिकहीनं च प्रयत्नेन विवर्जयेत् ।वर्जितेन कृतं चेत्तन्निष्फलं स्यान्न संशय: ॥१४४॥ध्वजाधिवासने काले कुम्भे चावाह्य वाहने ।तत्कुम्भपतने चैव चलने भेदने तथा ॥१४५॥प्रतिमापरिकुम्भे च तद्ग्रामश्च विनश्यति ।स्नपनं तत्र कर्तव्यं देवेशस्याधमेत्तमम् ॥१४६॥शान्तिहोमं तत: कृत्वा ग्रामदोषनिकृन्तनम् ।पुनरुत्पादयेत् कुम्भं संस्थाप्य विधिपूर्वकम् ॥१४७॥ध्वजे लक्षणहीने तु गरुडे वा विशेषत: ।कर्तृभर्तृविनाश: स्यात् तत्रस्थो नरकं व्रजेत् ॥१४८ ।क्षिप्रं त्यक्त्वा ध्वजं तत्र आचार्येण समाहित: ।ध्वजमुत्थापयेत् सद्य: सर्वलक्षणसंयुतम् ॥१४९॥पूर्वोक्तविधिना सम्यक् शेषं कर्म समारभेत् ।ग्रामप्रदक्षिणे काले पतिते वातकोपिते ॥१५०॥दुर्भिक्षं वर्तते तत्र कर्तारो व्याधिपीडिता: ।तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ॥१५१॥पुण्याहं वाचयेत्तत्र ब्राह्मणानां च भोजनम् ।कारयेन्मुनिशार्दूल शेष पूर्ववदाचरेत् ॥१५२॥आचार्यं पूजयेत् पश्चात् यथाशास्त्रोक्तमार्गत:(-कम्?) ।पतनाद्भेदने चैव ध्वजं त्यक्त्वा तु तत्क्षणात् ॥१५३॥स्नपनं चोत्तमं कृत्वा देवदेवस्य चक्रिण: ।वास्तुहोमं तत: कृत्वा पुण्याहं वाचयेत्तत: ॥१५४॥उत्पाद्य चोद्धरेत् सम्यक् ध्वजं लक्षणसंयुतम् ।ग्रामप्रदक्षिणे काले बलिहीनं भवेद्यदि ॥१५५॥स ग्रामो निधनं याति तत्रस्थो नरकं व्रजेत् ।तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥१५६॥स्नापयेद्देवदेवेशं पञ्चाशत् कलशै:(?) क्रामत् ।पूजयित्वा ततो देवं पुनर्ग्रामं परिभ्रमेत् ॥१५७॥बलिदानसमायुक्तं पश्चादुत्थापयेत् खगम्(-द्ध्वजम्?) ।केवलं बलिदानं तु कारयेद्दुन्दुभिर्युतम् ॥१५८॥एतस्मिन्नेव काले तु वेलादीनि न वीक्षयेत् ।विधिवद्ध्वजमुत्थाप्य शेषं पूर्ववदाचरेत् ॥१५९॥ध्वजोत्थापनकाले तु चलने गगने तत: ।कर्तारो व्याधिमृच्छन्ति नैर्धन्यमपि सर्वश: ॥१६०॥तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।पुण्याहं वाचयित्वा तु तस्य दोष: प्रशाम्यति ॥१६१॥पतनाद्भूपतिश्चैव तद्ग्रामं च विनश्यति ।ध्वजस्य पतने चैव प्रायश्चित्तं प्रवक्ष्यते ॥१६२॥स्नपनं देवदेवस्य विधिना चाधमोत्तमम् ।पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥१६३॥संस्थाप्य विधिवत् पश्चात् पूजयेद्विधिना तत: ।पतनोद्भेदने चैव पुनरुत्पादयेद्ध्वजम् ॥१६४॥स्थापने निपतेत्तत्र तद्राष्ट्रं च विनश्यति ।स्नपनं चोत्तमं कुर्यात् उत्सवं च विधानत: ॥१६५॥शान्तिं कृत्वा विधानेन पुण्याहं वाचयेत्तत: ।चोरैरपहृते चैव तद्राष्ट्रं च विनश्यति ॥१६६॥स्नपनं चोत्तमं कृत्वा शान्तिहोमपुर:सरम् ।बलिभ्रमणकाले तु नित्ये वा चोत्सवे तु वा ॥१६७॥द्रव्यस्य पतने चैव गन्धपुष्पादिकस्य च ।शान्ति कृत्वा विधानेन पञ्चोपनिषदै: क्रमात् ॥१६८॥पुनरुत्पादयेद्द्रव्यं गन्धाद्यं सकलं क्रमात् ।द्रव्याभावे तु चरुणा चाक्षतैर्वा बलिं ददेत् ॥१६९॥संस्पृष्टे दुर्जनादीनां शूद्राद्यैश्चान्यजातिभि: ।शान्तिहोमं तु कृत्वैव मङ्गलानि च दर्शयेत् ॥१७०॥बलिभ्रमधकाले तु प्रायश्चित्तं विधीयते ।अनालोच्य प्रदाने तु बिम्बहीने तु वा मुने ॥१७१॥सबलिग्रामराज्ञोश्च रोगवृद्धिर्भविष्यति ।तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥१७२॥अधमोत्तममार्गेण स्नापयेद्बलिकौतुकम् ।शान्तिहोमं क्रमात् कृत्वा भोज्या वै ब्राहृमणास्त्रय: ॥१७३॥बलिबिम्बस्य पतने याने वा भूगतेऽपि वा ।तद्ग्रामं निधनं याति कर्ता भर्ता तथैव च ॥१७४॥आलये तु नयेद्देवं स्नपनं चाधमोत्तमम् ।शान्तिहोमं च कृत्वा तु महापूजापुर:सरम् ॥१७५॥पुण्याहं वाचयेत्तत्र ब्राह्मणांश्चैव तोषयेत् ।ग्रामे वा नगरे वापि शेषकर्म समाचरेत् ॥१७६॥पतनेनाङ्गहीने च राजाराष्ट्रं च नश्यति ।अन्नबिम्बेऽथवा पुष्पे शक्तिमुद्वासयेत् क्रमात् ॥१७७॥कर्मार्चायां न्यसेच्छक्तिं स्नपनं चोत्तमं भवेत् ।शान्तिहोमं चतुर्दिक्षु कुर्यात् पञ्चमन्त्रकै:(?) ॥१७८॥अन्यबिम्बे समावाह्य शेषकर्म समाचरेत् ।सन्धानं पूर्ववत् कृत्वा पूर्वलक्षणसंयुतम् ॥१७९॥स्थापितं पूर्ववत् कृत्वा अस्मिन् कालादि नेष्यते ।तच्छक्तिं योजयेद्बिम्बे शेषकर्म समाचरेत् ॥१८०॥स्थानके चासने चैव शयने बलिबेरके ।पतने चाङ्गहीने च प्रायश्चित्तं तु पूर्ववत् ॥१८१॥उत्सवारम्भदिवसे कल्पिते ऋत्विजै(?)रपि ।तैस्तैरेव तु कर्तव्या: क्रिया: सर्वावसानकम् (?) ॥१८२॥मध्ये तु योजयेदन्यान् मोहात्तु मुनिसत्तम ।ता: क्रिया निष्फलायान्ति तस्माच्छान्तिं तु कारयेत् ॥१८३॥प्रायश्चित्तं तु कर्तव्यं तस्य दोषापुनत्तये ।पूर्वेण ऋत्विजेनापि कुर्यात् कर्मावसानकम् ॥१८४॥अधमोत्तममार्गं वा पञ्चाशद्वा (?) मुनीश्वर ।पञ्चविंशतिभिर्वापि कलशै: स्नापयेद्धरिम् ॥१८५॥पुण्याहं वाचयेत्तत्र शान्तिहोमं च कारयेत् ।व्याधिग्रस्ते मृते वापि शास्त्रहीनेऽन्यदूषिते(?) ॥१८६॥प्रतिष्ठाकर्मणि तथा चोत्सवे परमार्थिनम् ।योजयेदन्यमेवं चेदाचार्यं तन्त्रपारगम् ॥१८७॥यागाग्नौ चैव विच्छिन्ने उत्सवे वर्तिते सति ।तद्राष्ट्रं च विनश्यन्ति(?) कर्तारो व्याधिपीडिता: ॥१८८॥तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।संप्रार्थ्य देवदेवेशं महाहविपुर:सरम् ॥१८९॥मथित्वाग्निं समुत्पाद्य लौकिकाग्निमथापि वा ।वैष्णवीकरणैर्युक्तं सुपुण्याहपुर:सरम् ॥१९०॥एवं तु कारयेद्विद्वांस्तद्दोषस्य निकृन्तनम् ।योगेशस्यार्चनाहीने चोत्सवे यागमण्डपे ॥१९१॥मध्ये कुम्भगते देवे ह्युत्सवे तु विशेषत: ।निष्?फल: स च यागस्तु कर्तारो व्याधिपीडिता: ॥१९२॥तस्मात्तत्फलसिद्ध्यर्थं स्नपनं चाधमोत्तमम् ।कारयेच्छान्तिहोमं तु जुहुयाच्छतमाहुती: ॥१९३॥पुण्याहं वाचयित्वा तु तस्य दोष: प्रशाम्यति ।यागेशकुम्भे विचले परिकुम्भेऽथवा पुन: ॥१९४॥भेदने पतने वेद्यां प्रायश्चित्तं तु पूर्ववत् ।अष्टमङ्गलहीने तु पूजाजीने तु तत्र च ॥१९५॥मङ्गलं तु विनश्येत कर्तारो व्याधिपीडिता: ।मङ्गलात्मानमभ्यर्च्य देवेशं विधिपूर्वकम् ॥१९६॥शान्तिहोमं तत: कृत्वा पुण्याहं वाचयेत्तत: ।उत्सवे नित्यपूजायां विलोपे होमकर्मणि ॥१९७॥तत्रस्था नरकं यान्ति तस्माद्वृद्धिर्न जायते ।तद्दोषपरिहाराय प्रायश्चित्तं तु पूर्ववत् ॥१९८॥नित्यपूजावसाने तु होमं कुर्यात्तथोत्सवे ।होमान्ते तु बलिं कुर्याद्यथाविधिपुर:सरम्(!) ॥१९९॥नित्योत्सवस्य हीने वा बलिदानस्य चोभयो: ।जुहुयान्मूलमन्त्रेण नित्याग्नौ शतमाहुती: ॥२००॥एतद्द्विकालहीने तु तदूर्ध्वं स्नपनं तथा ।हुत्वाष्टाक्षरमन्त्रेण पश्चान्नित्यं समाचरेत् ॥२०१॥नित्योत्सवस्य हीनेन यदि स्यात्तु महोत्सव: ।स्नापयेत् पञ्चगव्येन बलिबेरमनुत्तमम् ॥२०२॥स्नपनं कारयेत् पश्चात् पञ्चविंशतिभि: क्रमात् ।अलंकारं क्रमात् कृत्वा पूजयेद्धविरन्तकम् ॥२०३॥नित्योत्सवविधानेन प्रासादे ?बलिमाचरेत् ।प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ॥२०४॥अथ मध्याह्नहीने च कारयेद्बलिकर्मणि ।एककालं भवेत्तस्मिन् बलिकर्म तु चेन्मुने ॥२०५॥उत्सवो निष्फलस्तत्र ग्रामनाशो भवेद्ध्रुवम् ।तस्मात्तत्फलसिद्ध्यर्थं द्विकालं बलिमाचरेत् ॥२०६॥द्विकालं तु मुनिश्रेष्ठ बलिदानं तु कारयेत् ।पूर्वकालबलिमध्यकालिका (?)रात्रिकालबलि सप्रदक्षिणम्(?) ॥२०७॥भूतराक्षसपिशाचपन्नगानां (?)नाशद (-का?) रणमिदं बलिभ्रमम्(?) ।यो मोहादेकसन्ध्यायां बलिं निक्षिप्य(?)नारद ॥२०८॥तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।अधमोत्तममार्गेण स्नपनं कारयेद्धरे: ॥२०९॥ब्राह्मणान् भोजयेत् पश्चात् महाहविपुर:सरम् ।पुण्याहं वाचयेत् पश्चात् पूर्ववद्धोममाचरेत् ॥२१०॥तत्कालोचिते पश्चात् बलिदानं समाचरेत् ।अङ्कुरार्पणपात्रं तु नष्टं पतितमेव वा ॥२११॥अस्पृश्यै: स्पर्शितं वाति पुनरुत्पादयेत् क्रमात् ।श्यामे रक्ते प्ररूढे वा दण्डे(?) मूषिकभक्षिते ॥२१२॥जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं समिदादिभि: ।अष्टोत्तरशतं हुत्वा विष्णुमन्त्रेण मन्त्रवित् ॥२१३॥उद्देश्यदिवसे तीर्थमकृतं चेत्तु नारद ।दैविकैर्मानुषैर्विघ्नै: पुनरुत्सवमारभेत् ॥२१४॥व्यत्यासो दिवसैर्द्रव्यै: बलिदाने कृते यदि ।जुहुयान्मूलमन्त्रेण सर्पिषा शतमाहुती: ॥२१५॥दिग्देवतानां तु व्यत्यासो वर्तते चेन्महोत्सवे ।क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ॥२१६॥एकाहमेककालं वा बलिदानं तु चोत्सवे ।विघ्नितं चेत् प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥२१७॥जुहुयान्मूलमन्त्रेण तद्द्रव्येण शताहुती: ।द्विगुणं कारयेत् पश्चाद्विघ्निते ह्येककालिके ॥२१८॥पूर्वद्रव्येण पूर्वं तु पूर्वरात्रस्य पूर्ववत् ।कृत्वा तु विधिवत् सर्वं पश्चात् पश्चात्मकं(?)क्रमात् ॥२१९॥विघ्नितं चेदहोरात्रं कारयेदपरेऽहनि ।कल्पियित्वातथा रात्रिं (-त्रौ?)तद्बलिं चापि कारयेत् ॥२२०॥परिभ्रमं तु द्विगुणं होमं चैव तु कारयेत् ।एकाहादधिकं चैव विघ्नितश्चेन्महोत्सव: ॥२२१॥अङ्कुरार्पणपूर्वं तु तत्सर्वं पुनरारभेत् ।तत्तीर्थं विघ्नितं चेत्तु कुर्यात्तदपरेहनि ॥२२२॥स्नपनं विधिवत् कृत्वा तत्र होमं तु पूर्ववत्१कृत्वैवं विधिवत् सर्वं शेषं पूर्ववदाचरेत् ॥२२३॥प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं मुनीश्वर ।प्रमाणरहितं बिम्बं वस्त्रालंकारयोश्च वा ॥२२४॥आ(अ?)स्थाने वामुहूर्ते वा स्थापनं तु न कारयेत् ।स्थापनं चेन्महामोहात् कर्ता भर्ता विनश्यति ॥२२५॥तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।यात्रां कृत्वा विधानेन पुन: स्थापनमारभेत् ॥२२६॥जलाधिवासनादूर्ध्वं स्थापनात् प्राङ्मुनीश्वर ।विघ्निता चेत्क्रिया मध्ये प्रायश्चित्तं विधीयते ॥२२७॥ब्राह्मणानामनुज्ञां तु लब्ध्वा पश्चात् परेहनि ।पञ्चोपनिषदैर्मन्त्रै: हुत्वाज्येन शतं शतम् ॥२२८॥समाप्य विधिवच्छेषं स्थापयेत् पुरुषोत्तमम् ।तथैव कारयेत् सर्वं रक्षितं चेद्दिनत्रयम् ॥२२९॥कलशं पूर्णकुम्भं वा मङ्गलाष्टकमेव वा ।अस्पृश्यस्पर्शितं वापि भिन्नं वा मन्त्रसादितम् ॥२३०॥अन्यं पूर्ववदुत्पाद्य स्थापयेत् पूर्ववत् क्रमात् ।उद्धृतं ब्रह्मकुम्भं तु दूषितं पतितं तु वा ॥२३१॥कुम्भमन्यं तथा कृत्वा संस्कृत्य विधिवद्बुध: ।पञ्चोपनिषदैर्मन्त्रै: प्रणवेन तथैव च ॥२३२॥आज्येन जुहुयात्तत्र प्रत्येकं शतमाहुती: ।कृत्वा पुण्याहनिर्घोषं स्थापयेत् पूर्ववत् क्रमात् ॥२३३॥मन्त्रहीनं क्रियाहीनं द्रव्यहीनं *तथालयम्* ।व्यत्यास: कालहीनं च स्फालितं चाद्भुतं तथा ॥२३४॥एतेषां चाप्यनुक्तानां प्रायश्चित्तं विधीयते ।जुहुयान्मूलमन्त्रेण घृतेन शतमाहुती: ॥२३५॥आशौचं वाथवा व्याधिर्मृत्युर्वा विद्यते यदि ।आचार्यस्य तु तत्काले वक्ष्ये संस्थापनक्रमम् ॥२३६॥अदीक्षितं वा विप्रेन्द्र वैष्णवं वेदपारगम् ।स्नाप्यालंकारितं शुद्धं तेनैव स्थापयेद्बुध: ॥२३७॥पौरुषेण तु सूक्तेन प्रणवेन तत: परम् ।ततस्तु मूलमन्त्राभ्यां मुहूर्ते स्थापयेद्बुध: ॥२३८॥ततश्चाचार्यमन्वीक्ष्य दशाहात् प्राक् प्रयत्नत: ।तेनैव कारयेत् सर्वं मन्त्रन्यासादि पूर्ववत् ॥२३९॥तत: प्रभृति देवस्य चतुर्थ्या(?)स्नानमेव च ।आचार्यं पूजयेत् पश्चात् पुष्कलेन धनेन च ॥२४०॥आचार्यदक्षिणाहीने प्रायश्चित्तेन पूजयेत् ।देवस्य स्थापनादूर्ध्वं चतुर्थेऽहनि नारद ॥२४१॥स्नपनं चार्चनं तस्मिन्नकृतं चेत्तु नारद ।तदूर्ध्वं द्वादशाहादर्वाक् प्रायश्चित्तं विधीयते ॥२४२॥स्नपनं चोत्तमं वा स्यादधमोत्तममेव वा ।स्नपनं कारयित्वादौ ब्राह्मणानां च भोजनम् ॥२४३॥पञ्चोपनिषदैर्भन्त्रैर्हुत्वाज्येन शतं शतम् ।यथावित्तानुसारेण(!) स्नपनं वाथ कारयेत् ॥२४४॥यथावितं तु देवेशं पूजयेत्तु दिने दिने ।पूजान्ते दक्षिणां दद्यादहन्यहनि नारद ॥२४५॥साधकानां हितार्थाय राजराष्ट्रहिताय च ।तस्मात्सर्वप्रयत्नेन दक्षिणां दापयेत् सदा ॥२४६॥दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव च ।आचार्यदक्षिणाहीने प्रायश्चित्तं विधीयते ॥२४७॥अधमोत्तममार्गेण देवेशं स्नापयेत्तत: ।ब्राह्मणान् भोजयेत् पश्चात् पुण्याहं वाचयेत्तत: ॥२४८॥पूर्वोक्तेन विधानेन पूजयेत् पुरुषोत्तमम् ।आचार्यं पूजयेत् पश्चाद्यथावित्तानुसारत:(!) ॥२४९॥तस्मात् सर्वप्रयत्नेन दक्षिणानमुत्तमम् ।स्रुक्स्रुवं (-वौ?) मण्डपे चैव कुण्डमण्डलतोरणम् ॥२५०॥वेदिकादि मुनिश्रेष्ठ कुर्याच्चेदप्रमाणत: ।प्रमादान्मूलमन्त्रेण मूलयुक्शतमाहुती: ॥२५१॥जुहुयाद्वैष्णवाग्नो तु आचार्योऽनलमध्यमे ।प्रत्येकं समिदाज्येन चरुणापि महामुने ॥२५२॥वैष्णवीकरणात्तस्मिंस्तेन शान्तिर्भविष्यति ।हरेरतिप्रियकरं तस्मात् कर्म समाचरेत् ॥२५३॥बालस्थानस्य वक्ष्यामि प्रायश्चित्तं तु नारद ।मूलागारार्चनाबिम्बं बालागारे न पूजयेत् ॥२५४॥बालस्थानार्चनाबिम्बं मूलस्थाने तु पूजयेत् ।पूजयेद्वर्ज्यबिम्बं तु यदि लोभाच्च मन्त्रवित् ॥२५५॥तत्पूजा निष्फलं याति कर्ता भर्ता विनश्यति ।यो मोहादर्चयेद्बिम्बं प्रायश्चित्तं विधीयते ॥२५६॥स्नापयेदर्चनाबिम्बमधमोत्तममार्गत: ।मध्यमं वा मुनिश्रेष्ठ तद्दोषस्य निकृन्तनम् ॥२५७॥ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ।शान्तिहोमं क्रमात् कृत्वा पुण्याहं वाचयेत्तत: ॥२५८॥मूलायामर्चक: सम्यक् बालसद्मनि पूजयेत् ।बालगेहार्चकस्तस्मिन् मूलस्थाने न पूजयेत् ॥२५९॥पूजयेद्यदि संमोहात् निष्फलं स्यान्न संशय: ।तद्ग्रामं निधनं याति धर्ममार्गो विनश्यति ॥२६०॥तस्मात् सर्वप्रयत्नेन मूलागारे न पूजयेत् ।लोभान्मोहात्तु देवेशं पूजयेद्यदि नारद ॥२६१॥तत्पूजाफलसिद्ध्यर्थं प्रायश्चित्तं विधीयते ।जलसंप्रोक्षणं कृत्वा सुपुण्याहपुर:सरम् ॥२६२॥मूलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।अधमोत्तममार्गं वा कारयेन्मुनिसत्तम ॥२६३॥ब्राह्मणान् भोजयेत् पश्चात् यथावित्तानुसारत: (!) ।पूजयेद्बालगेहे तु यावन्मूलप्रवेशनम् ॥२६४॥एवं चापि न कृत्वा तु वर्तते काललङ्घनम् ।स्नपनं मूर्तिहोमं च मण्डपे चाधिवासनम् ॥२६५॥कृत्वा तु विधिवत् सम्यक् स्थापयेद्विधिवत् क्रमात्॥ऊर्ध्वं तु वत्सरात् कालो गतं चेद्वक्ष्यतेऽधुना ॥२६६॥विना जलाधिवासं च सर्वं पूर्ववदाचरेत् ।प्रतिष्ठाया: क्रिया: कृत्वा ......प्रार्थयेद्धरिम् ॥२६७॥चोरैरपहृत:स (-हृता चेत्?) तु प्रतिमा तरुणालये ।बिम्बमन्यं समुत्पाद्य लोहजं सुमनोहरम् ॥२६८॥जलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।मूर्तिहोमं तथा शान्तिं स्नपनं चाधमोत्तमम् ॥२६९॥कृत्वा पुण्याहघोषं च स्थापयेद्बालसद्मनि ।पूर्वसंस्कृतबिम्बं चेज्जलवासं विना भवेत् ॥२७०॥बालस्थानं समाप्यैवं तन्त्रसंकरणं श्रृणु ।वास्तुसाङ्कर्यमेवं वै वक्ष्यामि क्रमयोगत: ॥२७१॥पञ्चरात्रं तथा शैवं वैखानसमिति त्रिधा ।तत्तच्छास्त्रोक्तमार्गेण वास्तुसंग्रहणादय: ॥२७२॥तथा तथैव कर्तव्या: प्रासादप्रतिमादय: ।कृत्वा तु विधिवत् सम्यक् स्थापनादिक्रमेण हि ॥२७३॥तेषां वास्तौ तु सांकर्याद्राष्ट्रनाशो धनक्ष्ंय: ।तस्मात्सर्वप्रयत्नेन वर्जयेद्वास्तुसंकरम् ॥२७४॥अत्र किञ्चि (कश्चि?) द्विशेषोऽस्ति वक्ष्यामि श्रृणु सुव्रत ।कर्षणादिकृतं पूर्वं वैखानसविधानत: ॥२७५॥पञ्चरात्रेण शास्त्रेण स्थापयेत् पुरुषोत्तमम् ।शैववैखानसाभ्यां तु विधिना वास्तुसंग्रहम् ॥२७६॥तद्देशे स्थापयेद्देवं सात्त्वतेन विधानत: ।ग्रामराजानुसारेण ब्राह्मणानामनुज्ञया ॥२७७॥विद्यते यदि वाञ्छा चेत् पञ्चरात्रेण वार्चनम् ।तच्छास्त्रेणोक्तमार्गेण स्थापितं पूजितं पुरा ॥२७८॥शैववैखानसाभ्यां च अर्चयेन्न कदाचन ।वैखानसस्य शैवस्यावैदिकत्वान्मुनीश्वर ॥२७९॥शैवं वेखानसं चापि असौम्यं तदुदाहृतम् ।सौम्यं तु सात्त्वतं चैव तस्मात्सौम्यं विशिष्यते ॥२८०॥तत्र सात्त्वतमार्गेण पूजयेत् पुरुषोत्तमम् ।शैववैखानसाभ्यां तु रोद्रपूजाग्निरोगकृत् ॥२८१॥सौम्यं तु सात्त्वतं तन्त्रं तच्छास्त्रविधिमाचरेत् ।दैवाद्वा मानुषाद्वापि लोभान्मोहात् प्रमादत: ॥२८२॥स्थापिते रौद्रमार्गेण पूज्यमाने दिने दिने ।हित्वा रौद्रविधानं तु सर्वेषां हितकाम्यया ॥२८३॥ग्रामवृद्धिकरं पुण्यं राजभूसुरवर्धनम् ।तस्मात् सर्वप्रयत्नेन हित्वा रौद्रं तु तत्क्षणात् ॥२८४॥स्थापयेत् सात्त्वतेनाथ विधिना पूजयेद्धरिम् ।तस्मात् सर्वप्रयत्नेन हित्वा रौद्रं तु तत्क्षणात् ॥२८४॥स्थापयेत् सात्त्वतेनाथ विधिना पूजयेद्धरिम् ।तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसंकरम् ॥२८५॥सात्त्वंतं पञ्चरात्राख्यं साक्षद्विष्णुमुखाच्छ्रुतम् ।अनुष्ठेयं द्विजश्रेष्ठैर्वैष्णवैर्वेदपारगै: ॥२८६॥पञ्चरात्रं महाज्ञानं धर्मकामार्थमोक्षदम् । शैवं च शम्भुना प्रोक्तं शुद्धं लैङ्गमिति द्विधा ॥२८७॥नानुष्ठेयं द्विजश्रेष्ठै: परार्थे मुनिसत्तम ।आत्मार्थे मुनि(द्विज?)वर्यस्तु पूजयेच्छुद्धमुत्तमम् ॥२८८॥दिने दिने मुनिश्रेष्ठ लैङ्गिकं न स्मरेद्बुध: ।वैखानसहितार्थाय शास्त्रं भार्गवनिर्मितम् ॥२८९॥नानुष्ठेयं द्विजश्रेष्ठैरात्मनोऽर्थे परस्य च ।प्रतिलोमहितार्थाय पूजयेत् पुरुषोत्तमम् ॥२९०॥सा पूजा शूद्रवृद्ध्यर्था द्विजानां शक्तिहानिकृत् ।दिने दिने मुनिश्रेष्ठ नात्र कार्या विचारणा ॥२९१॥तत्पूजावैदिकत्वाच्च नानुष्ठेया द्विजोत्तमै: ।नारद:---वैखानसा इति प्रोक्ता: के ते चात्र विवक्षिता: ॥२९२॥वानप्रस्था द्विधा किं ते सूता वा किं विवक्षिता: ।विष्वक्सेन:---ब्रह्मण्यां क्षत्रियाज्याता: सूता वैखानसास्तथा ॥२९३॥सूतकाश्च रथकाराश्च तथा पौराणिका इति ।पर्यायवाचका: शब्दा: प्रतिलोमेषु पूजिता: ॥२९४॥एते वैखानसा प्रोक्ता: भार्गवागमपूजका: ।प्रतिलोमहितार्थाय भृगुणा तन्त्रमीरितम् ॥२९५॥मन्वादिधर्मशास्त्रेषु वानप्रस्थाश्रम: क्रमात् ।संप्रोक्तस्तु मुनिश्रेष्ठ इति शास्त्रस्य निश्चय: ॥२९६॥एतेषां संकरं तत्र वर्ज्यमाहुर्मनीषिण: ।तन्त्रसंकरदोषेण सर्वं नश्यत्यसंशय: ॥२९७॥राज्ञा सर्वप्रयत्नेन जगद्रक्षणकांक्षिणा ।संकर: परिहर्तव्यो राजराष्ट्रसुखाय च ॥२९८॥यद्दैवत्यं कृतं क्षेत्रं विधिना कर्षणादिना ।तदन्यदैवतं विप्र मनसापि न कल्पयेत् ॥२९९॥यदि वा स्थाप्यते मोहाद्दण्ड्यो वध्य:स पापभाक् ।स कर्ता संकरस्यापि राज्ञो राष्ट्रस्य तस्य हि ॥३००॥पञ्चरात्रं तु शैवं वै वैखानसविधानकम् ।तेषां वास्त्वादिसांकर्यात् किञ्चिदेव विशेषकम् ॥३०१॥सात्त्वतं सर्ववृद्ध्यर्थं शैवं सर्वविनाशकृत् ।वैखानसमनर्थार्थं तस्मात्तत्परिवर्जयेत् ॥३०२॥अस्थानस्थापिता: केचित् स्वस्थान [परि?]वर्जिता: ।देवताद्वयकोपेन सर्वं नश्यत्यसंशय: ॥३०३॥संकरो द्विविध: प्रोक्त: सर्वप्राणिविनाशन: ।जातिसंकरणं चैव तन्त्रसंकरणं तथा ॥३०४॥जातिसंकरणेनैव जगच्चण्डालतां व्रजेत् ।तन्त्रसंकरणेनैव राजाराष्ट्रं विनश्यति ॥३०५॥राष्ट्रं शरीरं राजस्तु राजा जीव: स उच्यते ।राष्ट्रक्षये क्षयो राज्ञ: तस्माद्रक्ष्यं द्वयं बुधै: ॥३०६॥चण्डालत्वं गते लोके वेदा: सर्वे तिरोहिता: ।तिरोहितेषु वेदेषु यज्ञादिक्रतवस्तथा ॥३०७॥एकवर्णं जगत्सर्वं वस्तु निश्चेष्टकं भवेत् (?)जातिसंकरदोषेण द्विजानां मरणं भवेत् ॥३०८॥तस्मात् सर्वप्रयत्नेन सांकर्यं परिवर्जयेत् ।देवदेवात्परं नान्यत्तदायत्ता हि सिद्धय: ॥३०९॥इति चिन्त्यैव भूतानां वयं देवमुपास्महे ।सर्वदेवमयो विष्णुर्भगवान् भूतभावन: ॥३१०॥सर्वप्राणिहितार्थाय नान्यैवैकोऽपि दृश्यते ।ब्रह्मा रुद्रश्च शक्रश्च वसवो वरुणस्तथा ॥३११॥यक्षगन्धर्वसिद्धश्च भूतवेतालराक्षसा: ।शक्तयश्च तथा चान्या: सर्वा: विष्णुविभूतय: ॥३१२॥ताश्च सर्वा: प्रसीदन्ति पुरा चार्थार्थिनां नृणाम् ।पूज्यमाने तु सततं तत्तत्पूजाविधानत: ॥३१३॥सर्वप्राणिहितार्थाय मुनिभि: करुणात्मभि: ।कृतानि तत्तद्योग्यानि शास्त्राणि मुनिपुङ्गव ॥३१४॥वैदिकं तान्त्रिकं चैव तथा वैदिकतान्त्रिकम् ।त्रिविधं कर्म संप्रोक्तं पञ्चरात्रार्णवामृतम् (?)॥ ३१५॥वैदिकं ब्राह्मणानां तु राज्ञां वैदिकतान्त्रिकम् ।तान्त्रिकं वैश्यशूद्राणां सर्वेषां तान्त्रिकं तु वा ॥३१६ ।भार्गवेणोक्तधर्मेण प्रतिलोमादि कारयेत् ।अश्रीकरमसौम्यं तदब्राह्मणपरिग्रहम् ॥३१७॥अवैदिकत्वात्तत्तन्त्रं वैखानसमथाधमम् ।संकर: परिहर्तव्यो ब्राह्मणैश्च जगद्धितै: ॥३१८॥वास्तौ बिम्बस्य पूजायां पूजकस्य च संकर: ।सर्वथा परिहर्तव्यो प्रायश्चित्तै: पृथग्विधौ(-धै:?) ॥३१९॥नारद:---प्रायश्चित्तं समाचक्ष्व बिम्बसंकरणादिषु ।यत्कृत्वा सर्वदोषाश्च नश्यन्त्यशुभहेतव: ॥३२०॥विष्वक्सेन:---न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।संकरं तयज्यते क्षिप्रं सर्वप्राणिहिताय वै ॥३२१॥सद्य एव तु कर्तव्या संकरस्य तु निष्कृति: ।निष्कृत्याहरह:(?)पश्चात् राजराष्ट्रसुवृद्धिकृत् ॥३२२॥ग्रामस्य नगरस्यापि सर्वसंपत्सुखावहम् ।तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥३२३॥यत्तन्त्रेण समारब्धं तत्तन्त्रेणैव कारयेत्१अन्यथा चेन्महादोषो राजराष्ट्रविनाशकृत् ॥३२४॥तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसंकरम् ।एकाहमर्चनाहीने स्वकल्पोक्तविधानत: ॥३२५॥एकाशीतिक्रमात् कृत्वा स्नपनं साधकोत्तम: ।शान्तिहोमं क्रमात् कृत्वा स्नपनं साधकोत्तम: ॥३२६॥शान्तिहोमं क्रमात् कृत्वा वास्तुहोमं तथैव च ।ब्राह्मणान् भोजयेत् पश्चादष्टोत्तरशतं क्रमात् ॥३२७॥तस्यार्धं वा तदर्धं वा यथावित्तानुसारत:(!) ।चतुर्मूर्तिविधिं स्मृत्वा पञ्चमूर्तिविधि त्यजेत्(?) ॥३२८॥परिवाराणि सर्वाणि पूर्ववत् स्थापयेत् क्रमात् ।तत्त्वन्यासं क्रमात् कृत्वा सृष्टिन्यासं तथैव च ॥३२९॥मूलमन्त्रेण मतिमान् मूलमूर्तिमनुस्मरन् ।पूजयेत् सततं पश्चात् पूर्वोक्तेन विधानत: ॥३३०॥महाहविर्निवेद्याथ कारयेद्गुरुपूजनम् ।पूजालोपेऽपि चेत्तत्र पुनस्तेनैव पूजयेत् ॥३३१॥तत्र सात्त्वतमार्गेण पूज्यमाने दिने दिने ।तन्त्रान्तरेण देवेशं कदाचिन्न तु पूजयेत् ॥३३२॥पूजयेद्यदि संमोहान्निष्फलं स्यान्नं संशय: ।तत्पूजाऽहरह: पश्चात्तद्ग्रामस्य विनाशकृत् ॥३३३॥तस्मात् सर्वप्रयत्नेन पूजयेत्तद्द्विजोत्तम ।पूर्वं कर्मार्चनादीनां शुद्धस्नानं तु कारयेत् ॥३३४॥जलसंप्रोक्षणादीनि मूलार्चायां नियोजयेत् ।स्नपनादीनि कर्माणि कर्मार्चायां नियोजयेत् ॥३३५॥उत्सवं कारयेत्तस्मिन् बलिहोमपुर:सरम् ।एकाहं वा त्र्यहं वाथ सप्ताहं वा मुनीश्वर ॥३३६॥कारयेदुत्सवं तत्र यथाशक्त्यानुरूपत: (!) ।एतत् क्रमेण कर्तव्यं द्वादशाब्दान्तमेव च ॥३३७॥एकाब्दे रक्षसां स्थानं (वास:?) तस्माच्छान्तिं तु कारेयत् ।द्व्यब्दे च यक्षवासस्तु त्र्यब्दे भूतसंकुलम् ॥३३८॥चतुरब्दे पिशाचानां पञ्चाब्दे दानवालयम् ।पञ्चवर्षमतीते तु निवासो ब्रह्मरक्षसाम् ॥३३९॥तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं तु कारयेत् ।द्वादशाब्दात् पुरा कुर्यात् जलसंप्रोक्षणेन तु ॥३४०॥एवमेव तु कर्तव्यं विंशद्वर्षान्तमेव तु ।अत: परं प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥३४१॥जलसंप्रोक्षणं कुर्याज्जलवासपुर:सरम् ।ब्राह्मणान् भोजयेत् पश्चान्महाहविपुर:सरम् ॥३४२॥षट्त्रिंशद्वत्सरादर्वाक् तावत्तेनैव कारयेत् ।षट्त्रिंशद्वत्सरादूर्ध्वं प्रायश्चित्तं विधीयते ॥३४३॥पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विशोधयेत् ।पुण्याहं वाचयित्वा तु ब्राह्मणानामनुज्ञया ॥३४४॥जलाधिवासनादीनि पूर्वोक्तेनैव कारयेत् ।गोदानं भूमिदानं च हिरण्यं वस्त्रमेव च ॥३४५॥सर्वदानं तत: कुर्यात् ब्राह्मणेभ्यो यथाक्रमम् ।एवं तद्वर्धयित्वा तु पञ्चाशद्वत्सरान्तकम् ॥३४६॥पञ्चाशद्वत्सरादूर्ध्वां प्रायश्चित्तं विधीयते ।जलाधिवासनादीनि पुन: स्थापनमारभेत् ॥३४७॥ब्राह्मणान् भोजयेत्तत्र शेषं पूर्ववदाचरेत् ।एतत् क्रमेण कर्तव्यं शतवर्षान्तमेव च ॥३४८॥संवत्सरशतादूर्ध्वं शून्यस्थानं भवेद्ध्रुवम् ।तद्ग्रामं निधनं याति तत्रस्था नरकं व्रजेत्(?) ॥३४९॥तद्ग्रामं निधनं याति तस्माच्छान्तिं तु कारयेत् ।शान्तिं कृत्वा विधानेन पञ्चरात्रेण पूजयेत् ॥३५०॥पूजालोपेऽपि चेत्तस्मिन् पुनस्तेनैव पूजयेत् ।तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥३५१॥इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रायश्चित्तविधिर्नामएकोनचत्वारिंशोऽध्याय:॥ N/A References : N/A Last Updated : January 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP