संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
विंशोऽध्याय:

विश्वक्सेनासंहिता - विंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
श्रुणु नारद तत्त्वेन साधकानां हिताय वै ।
पूजाभेदं प्रवक्ष्यामि परमात्मादिमूर्तिषु ॥१॥
पूते मनोरमे देशे वने पुण्यतमेऽपि वा ।
तीर्थे वा क्षेत्रवर्ये वा ग्रामे वा नगरेऽपि वा ॥२॥
खर्वटे खेटके वापि पत्तने वा तटे तटे(?) ।
महाग्रामे विशेषेण पश्चिमे मध्यमेऽपि वा ॥३॥
कारयेन्मन्दिरं सम्यक् सौम्यं सुमनसां प्रभो: ।
विष्णो: पूर्वोक्तमार्गेण कल्पयेद्बहुबेरकम् ॥४॥
*लक्षणं पूर्वमुक्तेन तत्र यद्येकबेरकम्*(?) ।
रामत्रयादिकानां तु कल्ययेद्बहुबेरकम् ॥५॥
आत्मार्थबेरमेकं वा स्वतन्त्रपरतन्त्रयो: ।
पूजाभेद: सुरमुने किञ्चि(कश्चि?)दस्ति तदुच्यते ॥६॥
आवाहनं विसर्गं च स्वतन्त्रे त्रिषु सन्धिषु ।
अग्निकार्यं बलिं चैव परतन्त्रेषु तैर्विना ॥७॥
आत्मर्थे फलकायां वा पटे वालिख्य यत्नत: ।
पूर्वोक्तलक्षणोपेतं प्रतिष्ठाया: क्रमेण च ॥८॥
संप्रोक्ष्य नवरत्नान्वा आवाह्यभ्यर्चयेत वा ।
स्थण्डिले प्रतिमायां वा लौह्यामिच्छानुरूपत:(?) ॥९॥
इन्द्रनीलं मरतकं स्फटिकं वज्रमेव च ।
पद्मरागं प्रवालं च वैडूर्यं मुक्तमेव च ॥१०॥
माणिक्कमिति रत्नानि नव तेषां यथाक्रमम् ।
कालं वक्ष्ये तथार्चाया: प्रातर्मध्याह्न एव च ॥११॥
सायाह्नश्च प्रदोषश्चाप्यर्धरात्रमुषस्तथा ।
इति षट्कं परार्थे तु पूजायामुत्तमं स्मृतम् ॥१२॥
मध्यमाराधने सायमुषश्च परिवर्जयेत् ।
अधमे चार्धरात्रं च सायाह्नं च विवर्जयेत् ॥१३॥
प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ।
नान्येषूत्तमपूजायामपि वा मध्यमार्चने ॥१४॥
बलिहीने तु काले तु पूजाभेदमथो श्रृणु ।
आह्वानमर्घ्यपाद्यं च आचामं गन्धपुष्पकम् ॥१५॥
धूपो दीपो निवेद्यं च मुखवासविसर्जने ।
इति कर्मोत्तमादीनां नाडीकाल: प्रवक्ष्यते ॥१६॥
प्रथमा सप्तनाडी स्यात् मध्यमा पञ्चनाडिका ।
कनीयसी त्रिनाडी स्यात् इति शास्त्रस्य निश्चय: ॥१७॥
दिवाकरोदयात् पूर्वमाचार्य: स्नानमाचरेत् ।
अर्कोदये मुनिश्रेष्ठ पूजाकर्म समाचरेत् ॥१८॥
स्नानपूर्वा: क्रिया:सर्वा: फलसंसिद्धिहेतव: ।
अतस्तान्(-स्तत्?)प्रथमं वक्ष्ये साधकानां हिताय वै ॥१९॥
समुद्रगामिन्यो वापि ह्रदे नद्यां जलादिषु ।
तटाके निर्झरे वापि स्नानं कुर्वीत साधक: ॥२०॥
ब्राह्मे मुहूर्ते चोत्थाय धर्ममोक्षार्थचिन्तक: ।
प्रागुदग्दिशमासाद्य साधक: स्नानमाचरेत् ॥२१॥
प्राच्युत्तरे नीरराशौ स्नानं कुर्याद्विचक्षण: ।
वायव्ये नैरृताग्नेय्यां वरुणायां विसर्जयेत् ॥२२॥
वर्जिते देशनीरे तु यो मोहात् स्नानमाचरेत् ।
तत् स्नानं निष्फलं याति पुन:स्नानं समाचरेत् ॥२३॥
प्रातरुत्थाय मूर्तीनां यां मूर्तिं स्वयमर्चति ।
तन्मूर्त्यर्चनमन्त्रेण साधक: स्नानमाचरेत् ॥२४॥
विष्णुमन्त्रेण वा साङ्गमथवा मूलविद्यया ।
अवगाह्य जले मध्ये त्रिराचम्य च मन्त्रत: ॥२५॥
विसृज्यार्द्राम्बरं चान्यत् वस्त्रयुग्मेन वेष्टयेत् ।
सपवित्रकरेणैव मन्त्राचमनमाचरेत् ॥२६॥
सुवार्णाद्यङ्गुलीयैवा(-यं वा?)धारयेद्दक्षिणे भुजे (करे?) ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयेत् स्वशिरोपरि ॥२७॥
तर्पयेत् स्वस्वमन्त्रेण स्नानकर्म समाचरेत् ।
अशक्त: पुनराचम्य प्रोक्तां विद्यामनुस्मरन् ॥२८॥
संप्रोक्ष्य स्नानकार्याणि कृत्वा कार्यं विशेद्बुध: ।
प्रविश्य कृतसच्छौच: पूजामन्त्रेण मन्त्रवित् ॥२९॥
कवाटोद्घाटनं कृत्वा मन्त्रेणाद्येन वा मुने ।
वायुमन्त्रेण वा द्वारं कवाटोद्धाटनं क्रमात् ॥३०॥
तद्द्वारं तु द्विधा कृत्वा साधको मन्त्रवित्तम: ।
सूत्रस्योत्तरपार्श्वे तु प्रतिशेद्दक्षिणाङ्घ्रिणा ॥३१॥
प्रणम्य साधको मन्त्रं षडक्षरमनुस्मरन् ।
नित्यदीपं ततो ज्वाल्य विष्णुमन्त्रेण मन्त्रवित् ॥३२॥
सूत्रस्य दक्षिणे पार्श्वे उत्तराभिमुख: स्वयम् ।
समे शुचौ प्रदेशे तु कृष्णाजिनकुशास्तरे ॥३३॥
फलके वा समासीन: स्वस्थान्त:करण:शुचि: ।
पद्मं वा स्वस्तिकं वापि बद्ध्वा स्वेच्छानुरूपत: ॥३४॥
तेन मन्त्रेण दिग्बन्धमष्टदिक्षु निवेशयेत् ।
रक्षार्थं यागदेशं तदिति तत्त्वार्थदर्शिन: ॥३५॥
एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ॥३६॥
प्राणानायम्य यस्तिस्र: प्राणायामोत्तम: स्मृत: ।
पञ्चविंशतिकृत्वान्त: प्राणानायम्य मानस: ॥३७॥
अभ्यासोऽष्टाक्षरस्यैक: प्राणायाम: स मध्यम: ।
प्राणो वायु: शरीरस्थ: तस्यायामो निरोधक: ॥३८॥
पूरकं कुम्भकं चैव रेचकं त्रिविध स्मृतम् ।
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥३९॥
क्रियते चाङ्गुलिस्फोट: सा(?)मात्रा परिकीर्तित: ।
तथा द्वादशमात्राभि: पूरकं क्रियते क्रमात् ॥४०॥
तस्माद्द्विगुणमात्राभि: कुम्भकं क्रियते बुधै: ।
तथैव रेचकं कृत्वा बुधास्तत्त्वार्थदर्शिन: ॥४१॥
प्राणायाममिदं प्रोक्तमधमं मुतिसत्तम ।
त्रिप्रधाने विधानेऽत्र यथासंभवमाचरेत् ॥४२॥
प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाथवा ।
प्राणायामं प्रकुर्वीत प्राणायामविदां वर ॥४३॥
ततस्तु कायशुद्ध्यर्थं वर्णं धूम्रादि विन्यसेत् ।
शब्द:स्पर्शश्च रूपं च रसो गन्धश्च पञ्चम: ॥४४॥
अहङ्कारमनो बुद्धियुक्तमात्मानमानयेत् ।
सदाविष्णौ तु संयोज्य धातुदेहं सुशोधयेत् ॥४५॥
यद्बीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।
विशोषयेदशेषं तु ध्यायेद्देहस्थकल्मषम् ॥४६॥
क्षौमं हृत्पद्ममध्यस्थं बीजं तेजोमयं स्मरेत् ।
अथोर्ध्वतिर्यगाभिश्च ज्वालाभि: कल्मषं दहेत् ॥४७॥
शशाङ्काकृतिवद्धायन्नम्बरस्थं सुधाम्बुधिम् ।
हृत्पद्मव्यापिभिर्देहं स्वकर्म भ्रामयेत् सुधी: ॥४८॥
सुषुम्ना योगमार्गेण सर्वनाडीविसर्पिभि:(?) ।
पश्चाच्छब्दादिविषयान् योजयेन्मूर्ध्निमध्यमे ॥४९॥
एवं चामृतरूपं तु मया प्रोक्तं तु नारद ।
यद्बीजं तु न्यसेन्नाभौ अनामिक्या तु नारद ॥५०॥
अङ्गुष्ठानामिकाभ्यां तु क्षौमबीजं हृदि न्यसेत् ।
सर्वासामङ्गुलीनां तु मूर्ध्नीमं (?) बीजमुत्तमम् ॥५१॥
यकारादि वकारान्तं धूम्रमव्यारुणासितम् ।
एवं संशोध्य देहं तु ऊर्ध्वपुण्ड्रं समाचरेत् ॥५२॥
ऊर्ध्वपुण्ड्रविधिं वक्ष्ये श्रृणु नारद तत्त्वत: ।
सर्वाघनाशनं पुण्यं सर्वतीर्थफलप्रदम् ॥५३॥
स्वमूर्त्यर्चनमन्त्रेण ललाटादि ककुत्परम् ।
चन्दनं श्वेतमृद् बिल्वतुलसीमूलतोयकै: ॥५४॥
ऊर्ध्वपुण्ड्रं लिखेद्विद्वाननामिक्या तु साधक: ।
द्वादश (-शै: ?) द्वादशैर्मासैर्नामभिर्वा विशुद्धये ॥५५॥
एवं पूतो भवेदूर्ध्वपुण्ड्राणां धारणान्मुने ।
सृष्टिस्थित्यादिवशतो हस्ताङ्गन्यासयोर्द्वयो: ॥५६॥
विनाभ्य(-प्य?)र्चा फलवती मूर्तिमन्त्रप्रभावत: ।
आराधनक्रमं वक्ष्ये द्वारपूजादि नारद ॥५७॥
साधक:सिद्धसर्वाङ्ग: सुभगो रोगवर्जित: ।
कुष्ठापस्माररहितो द्वारपूजां समाचरेत् ॥५८॥
चण्डप्रचण्डगरुडा: चतुर्थ्यन्तं नमोऽन्तकम् ।
दक्षिणोत्तरपूर्वे तु(-पूर्वेषु?) द्वारे च प्रणवै: सह ॥५९॥
चण्डाधरे तु चक्रं स्यात् प्रचण्डस्याधरेऽम्बुजम् ।
गन्धपुप्पादिभिर्द्वारपूजामेवं समाचरेत् ॥६०॥
अथवा द्वारपूजाया: क्रमं श्रृणु महामुने ।
चण्डादीन् पूर्ववत् पूज्य चक्रादिरहितेन तु ॥६१॥
धातारं पूजयेद्वामे विधातारं तु दक्षिणे ।
सूत्रस्य दक्षिणे स्थित्वा आचार्यो मन्त्रवितम: ॥६२॥
अधोभागे तु भूमि: स्यादुपर्यङ्गं पूजयेच्छ्रियम् ।
दुर्गा गणपती चैव कवाटस्थौ प्रपूजयेत् ॥६३॥
शङ्गपद्मनिधी चैव शाखयोर्मूलदेशत: ।
गङ्गां च यमुनां चैव कवाटाधारके न्यसेत् ॥६४॥
उत्कर्षणीं कर्षणीं च अन्तर्यन्त्रे ह्यधोपरि ।
गन्धपुष्पाक्षतैर्धूपै: दीपाद्यैर्द्वारमर्चयेत् ॥६५॥
अथ चण्डं प्रचण्डं च गरुडान्तं(-डं च?)समर्चयेत् ।
प्रणवादि स्ननाम्ना च मन्त्रमित्?यभिधीयते ॥६६॥
पूर्ववत् पूजयेद्द्वारदेवांस्तन्त्रविचक्षण: ।
त्रिप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ॥६७॥
प्रणवादिस्वनाम्ना च पूजयेदिह नारद ।
एवं संक्षेपत: प्रोक्त: द्वारपूजाविधिक्रम: ॥६८॥
कांस्यघण्टाध्वनिं कृत्वा द्वारमाच्छाद्य वाससा ।
प्रविशेद्देवपार्श्वे तु साधक: संयतेन्द्रिय: ॥६९॥
पूवोक्तमासनं कृत्वा देवस्यासनमारभेत् ।
सौवर्णे राजते वाथ ताम्रे वाथ महामुने ॥७०॥
कुशेन वाथ पुष्पेण कल्पयेदासनं हरे: ।
देवस्य पुरत: कृत्वा ह्यासनं संयतेन्द्रिय: ॥७१॥
आधार: प्रणवो ज्ञेय: शक्तिर्वागीश्वरी तथा ।
कन्दं च पृथिवीं स्मृत्य(-त्वा?)नालमाकाशरूपकम् ॥७२॥
नालस्याग्रे स्मरेत् पद्मं हृत्पद्मं परमालयम् ।
आधारादीनि सर्वाणि ह्यासनस्य महामुने ॥७३॥
अज्ञानात् कल्पयेन्मोहात् निष्फलं स्यान्न संशय: ।
तस्मात् सर्वप्रयत्नेन आधारादीनि कल्पयेत् ॥७४॥
आधारं प्रथमं न्यस्य शक्तिं चैव तत: परम् ।
शक्त्योपरि न्यसेद्धीमान् कन्दं चैव महामुने ॥७५॥
कन्दस्योपरि विन्यस्य नालमाकाशरूपकम् ।
नालस्याग्रे तु विन्यस्य धर्मादीनि यथाक्रमम् ॥७६॥
धर्मादीनां तु तन्मध्ये पद्मं श्वेताष्टपत्रकम् ।
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयम् ॥७७॥
चत्वार्येतानि कोणेषु आग्नेयादिषु विन्यसेत् ।
मध्ये तु रुद्रं विन्यस्य नालमूलस्य मध्यमे ॥७८॥
अधर्माज्ञान (-ना?) वैराग्यानैश्वर्यं च चतुष्टयम् ।
विन्यसेच्च चतुर्दिक्षु पूर्वादिषु यथाक्रमम् ॥७९॥
धर्मादीनि न्यसेदादौ मन्त्रेणाद्येन संयुतम् ।
स्वनाम्ना चैव सर्वेषां मन्त्रमित्यभिधीयते ॥८०॥
अधर्मादीनि सर्वेषां स्वस्वनाम्ना च साधक: ।
विन्यसेच्च चतुर्दिक्षु पूर्वादिक्रमयोगत: ॥८१॥
एवं न्यासं क्रमात् कृत्वा ह्याधारादि महामुने ।
नारद:---
धर्मज्ञानादिरूपाणि श्रोतुमिच्छाम्यहं प्रभो ॥८२॥
आयुधानि च सर्वेषां यथावद्वक्तुमर्हसि ।
विष्वक्सेन:---
श्रुणु नारद तत्त्वज्ञ विष्णुपादपरायण ॥८३॥
धर्मादीनां स्वरूपाणि प्रवक्ष्याम्यायुधानि च ।
चतुर्वक्त्रं चतुर्बाहुं द्विपादं चासिताननम् ॥८४॥
शङ्खचक्रधरं सौम्यं पीताम्बरसमन्वितम् ।
जातिपुष्पदलप्रख्यं सर्वाभरणभूषितम् ॥८५॥
धर्ममूर्तिरिति ख्यातं ज्ञानमूर्तिं ब्रवीमि ते ।
द्विपादं च चतुर्बाहुं चतुर्वक्त्रं सनातनम् ॥८६॥
नीलोत्पलदलप्रख्यं शङ्कचक्रगदाधरम् ।
ज्ञानमूर्तिरिति ख्यातं वैराग्यस्य वदाम्यहम् ॥८७॥
रक्ताक्षित्रयसंयुक्तं चतुर्वक्त्रं चतुर्भुजम् ।
पीताम्बरधरं सौम्यं शङ्खचक्रधरं सदा ॥८८॥
कर्णिकारदलप्रख्यं वायव्यं दिशमाश्रितम् ।
वैराग्यस्ये(-मि?)ति निर्दिष्टं ऐश्वर्यस्य वदामि ते ॥८९॥
रक्तोत्पलदलप्रख्यं चतुर्वक्त्रं चतुर्भुजम् ।
पीताभ्बधरं सौम्यं शङ्खचक्रधरं सदा ॥९०॥
सिताननसमायुक्तं मुक्ताहारसमन्वितम् ।
ऐश्वर्यस्येति निर्दिष्टमीश्वरस्य वदामि ते ॥९१॥
कुन्देन्दुमुक्त(?)संकाशं द्विपादं च चतुर्भुजम् ।
रक्ताक्षित्रयसंयुक्तं जटामकुटधारिणम् ॥९२॥
पीताम्बरधरं सौम्यं परशुं(ईश्वरं?)शूलधारिण्?ाम् ।
सर्वाभरणसंयुक्तं सर्वशोभितशोभनम् ॥९३॥
इत्थं हरस्य रूपं तु देवर्षे विद्धि नारद ।
एवं संक्षेपत: प्रोक्तं धर्मज्ञानादिरूपकम् ॥९४॥
अधर्मादीनि गात्राणि (?) वक्ष्यामि श्रृणु नारद ।
रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥९५॥
एकवक्त्रं बृहत्कुक्षिं नेत्रत्रयसमन्वितम् ।
रक्ताम्बरधरं रौद्रं खङ्गमुद्गरधारिणम् ॥९६॥
अधर्मसयैवमुक्तं तु अज्ञानस्य वदामि ते ।
पीतवर्णं बृहत्कुक्षिं महाकायं चतुर्भुजम् ॥९७॥
शूलखङ्गधरं रौद्रं सर्वाभरणभूषितम् ।
एतदज्ञानरूपं स्यादवैराग्यं वदामि ते ॥९८॥
दूर्वाश्यामनिभं ब्रह्मन् द्विपादं च चतुर्भुजम् ।
परशुपाशधरं रौद्रं रक्ताम्बरधरं सदा ॥९९॥
अक्षित्रयसमोपेतं जटामकुटधारिणम् (-धारकम्?) ।
अवैराग्यस्य रूपं स्यात् अनैश्वर्यं वदामि ते ॥१००॥
धूम्राकारं बृहत्कुक्षिं चतुर्बाहुं महाहनुम् ।
एकवक्त्रं महाकायं मुक्तकेशसमन्वितम् ॥१०१॥
अश्रीकरमसौम्यं च अक्षित्रयसमन्वितम् ।
अनैश्वर्यस्य रूपं तु निर्दिष्टमधुना मुने ॥१०२॥
धर्मादिपञ्चपादानि अधर्मादीनि नारद ।
तेषां रूपं स्मरेन्नित्यं न्यसेत्तस्मिन् यथाक्रमम् ॥१०३॥
अन्यथा कल्पयेन्मोहात् आधारादिनिरूपकम्(?) ।
तत्पूजा निष्फला याति ग्रामस्याग्निभयं भवेत् ॥१०४॥
तस्मात् सर्वप्रयत्नेन स्मरेद्रूपाणि साधक: ।
न्यसेदष्टदलं पद्मं तेषामुपरि नारद ॥१०५॥
तत्रार्कसोमवह्नींश्च उपर्युपरि वन्यिसेत् ।
वृत्ताकारं तु रक्ताभमर्कमण्डलकं न्यसेत् ॥१०६॥
तत्रोपरि न्यसेद्ध्यात्वा श्वेतं वृत्तं शशाङ्ककम् ।
अग्निमग्निनिभं ध्यात्वा त्रिकोणं मण्डलोपरि ॥१०७॥
एवं रूपं तु संचिन्त्य मण्डलार्कादि नारद ।
मण्डलोपरि विन्यस्य तामसादि गुणत्रयम् ॥१०८॥
तामसं राजसं चैव सात्विकं च यथाक्रमम् ।
तामसं कृष्णरूपं तु राजसं रक्तरूपकम् ॥१०९॥
सात्विकं श्वोतवर्णं तु वर्णान्येतानि संस्मरेत् ।
तत्र तद्वर्णकं चिन्त्य मण्डलोपरि विन्यसेत् ॥११०॥
तामसादिनि विन्यस्य न्यसेदात्मद्वयं बुध: ।
आत्मानं चान्तरात्मानं वासुदेवपरायणौ ॥१११॥
आत्मा तु श्वेतवर्ण: स्यादन्तरात्मा तथैव च ।श्?
तेषां वर्णं तु संचिन्त्य न्यसेदात्मान्तरात्मके ॥११२॥
आधाराद्यन्तरात्मान्तं न्यासक्रममथो श्रृणु ।
आधारं प्रथमं न्यस्य श्वेतवर्णं त्रिमूर्तियुक् ॥११३॥
शक्तिन्यासं द्वितीये तु कन्दन्यासमत: परम् ।
नालमाकाशरूपं स्यात्तमोवर्णं चतुर्थकम् ॥११४॥
नालस्याग्नेयकोणे तु धर्ममूर्तिं तु पञ्चमम् ।
षष्ठं तु नैरृते न्यस्य ज्ञानमूर्तिं तु नारद ॥११५॥
सप्तमे तु न्यसेद्विद्वान् वैराग्यं वायुगोचरे ।
ऐश्वर्यमष्टमं न्यस्य ईशाने तन्त्रवित्तम: ॥११६॥
नवमं नालमूले तु रुद्रमूर्तिं सदाशिवम् ।
दशमं नालस्याग्रे तु पूर्वेऽधर्मं तु विन्यसेत् ॥११७॥
एकादशे तु विन्यस्य दक्षिणेऽज्ञानरूपकम् ।
पश्चिमे तु न्यसेत् पश्चादवैराग्यं तु नारद ॥११८॥
उदीच्यां विन्यसेद्देवमनैश्वर्यं त्रयोदश ।
नालस्याग्रे स्मरेद्विद्वान् पद्मं तत्परमालयम् ॥११९॥
एतत् पद्मासनं प्रोक्तं ?त्रिदशै: पूजितं सदा ।
तत्रोपरि न्यसेत् पश्चात् मण्डलार्कादि नारद ॥१२०॥
गुणत्रयं न्यसेन्मध्ये तामसादि यथाक्रमम् ।
गुणमध्ये न्यसेद्धीमानात्मानं चान्तरात्मकम् ॥१२१॥
एवं संक्षेपत: प्रोक्त आसनस्य क्रमो मया ।
आसनस्यार्चनं वक्ष्ये संक्षेपाद्विधिपूर्वकम् ॥१२२॥
आधाराद्यन्तरात्मान्तं मूर्तीनां मुनिसत्तम ।
व्यस्तै:संपूजयेत् सर्वं समस्तैर्वा समाहित: ॥१२३॥
अर्चयेद्गन्धपुष्पाद्यै: पूजयेत्तं मनोरमै: ।
तेषां स्वनामकैर्मन्त्रैर्दद्यात् सर्वं यथाक्रमम् ॥१२४॥
एतत् कल्प्यं मुनिश्रेष्ठ आह्वानं च वदाम्यहम् ।
स्वर्णाद्यन्यतमं पात्रं कुडुबद्वयपूरितम् ॥१२५॥
इत्थं हि लक्षणं प्रोक्तं सर्वपात्राणि नारद ।
आवाहनादि पात्रं तत् पञ्चषट्सप्त एव वा ॥१२६॥
पूजकस्याग्रत: स्थाप्य प्रोक्षयेन्मूलविद्यया ।
एतेषामप्यलाभे तु शङ्खशुक्तिमथापि वा ॥१२७॥
क्षालयेत् सर्वपात्राणि विष्णुगायत्रिया मुने ।
आढकद्वयसंपूर्णां पक्वबिम्बफलाकृतिम् ॥१२८॥
वर्धनीं वामपार्श्वे तु विन्यस्यापूरयेद्बुध: ।
गालितैरुदकैर्यस्यां गन्धपुष्पयुतां न्यसेत् ॥१२९॥
शेषं दक्षिणपार्श्वे तु परितो वाग्रतोऽपि वा ।
स्थापयेत्तु क्रमेणैव पूजाद्रव्यं समस्तकम् ॥१३०॥
तत् पात्रेष्वेकपात्रं तु संगृह्य मुनिसत्तम ।
षडक्षरेण मन्त्रेण संप्रोक्ष्य तु पुन: पुन: ॥१३१॥
तत्पात्रं तु पुन: प्रोक्ष्य गन्धोदेन प्रपूरयेत् ।
*तस्मिन् शिरसि*(?)पुष्पं च न्यसेत्तोयं सपुष्पकम् ॥१३२॥
उद्धृत्य पूजामन्त्रेण ध्यात्वाऽत्र महामुने ।
यद्रूपं चिन्?िततं सम्यक् तद्रूपं चिन्त्य(?) साधक: ॥१३३॥
अवतीर्णं महाबेरादागच्छान्तेन मूर्ध्नि च ।
प्रोक्ष्य चैवासनं दद्यात् केवलेन जगद्गुरो: ॥१३४॥
प्रक्षिप्य वादमूले तु पुष्पमुष्टिं तत: परम् ।
नमस्कृत्याञ्जलिं पश्चात् दर्शयेन्मुनिसत्तम ॥१३५॥
अर्ध्यं पाद्यं तथाचामं दत्वा देवाय मन्त्रवित् ।
ततस्तु परिवाराणि पात्रशेषेण कल्पयेत् ॥१३६॥
परिवारक्रमं वक्ष्ये यथातत्त्वेन (यथातथ्येन?) नारद ।
आवाहनांशतोयेन कल्पेयत्तु यथाक्रमम् ॥१३७॥
पूर्वे तु वासुदेवं तु शुद्धस्फटिकसंनिभम् ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥१३८॥
संकर्षणं न्?यसेद्याम्ये शशिबालार्कसंनिभम् ।
शङ्खचक्रसमोपेतं चतुर्बाहुविराजितम् ॥१३९॥
प्रद्युम्नं पश्चिमे न्यस्य शातकुम्भ?निभं मुने ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥१४०॥
अनिरुद्धं न्यसेत्तस्मिन्नुत्तरे नीलरूपिणम् ।
शङ्खचक्रसमायुक्तं पीतवस्त्रं चतुर्भुजम् ॥१४१॥
श्रियं सुवर्णवर्णाभां श्वेतरूपां सरस्वतीम् ।
रक्तवर्णां रतिं पश्चात् शान्तिं कुङ्कुमसंनिभाम् ॥१४२॥
आग्नेयादिषु कोणेषु विन्यसेच्छक्तिरूपकम् ।
पैशाचे तु न्यसेत् पश्चात् शङ्खादीनां तु नारद ॥१४३॥
पूर्वे शङ्ख नियुञ्जीत श्वेतवर्णं स(च?)नादयुक् ।
कालाग्निसदृशाकारं दक्षिणे चक्रमुत्तमम् ॥१४४॥
पश्चिमे तु गदां न्यस्य हरिद्राभामनुत्तमाम् ।
रक्तवर्णनिभं पद्ममुत्तरे तु न्यसेद्बुध: ॥१४५॥
मुसलं कृष्णवर्णं तु आग्नेय्यां दिशि विन्यसेत् ।
नैरृतायां न्यसेत्तत्र खङ्गमाकाशसंनिभम् ॥१४६॥
पञ्चवर्ण तथा शार्ङ्गं वायव्ये तन्त्रवित्तम: ।
सर्ववर्णमयाकारां वनमालां तथैशके ॥१४७॥
एतद्द्ब्रिजीयावरणं गर्भागारे प्रकीर्तितम् ।
द्वारस्य दक्षिणे चण्डं कृष्णवर्णं चतुर्भुजम् ॥१४८॥
शङ्खचक्रगदापाणिं त्रिणेत्रं रक्तलोचनम् ।
एवं रूपं तु संचिन्त्य प्रचण्डं तु तत: श्रृणु ॥१४९॥
शङ्खचक्रगदापाणिं रक्तवर्णं चतुर्भुजम् ।
द्वारस्योत्तरपार्श्वे तु त्रिणेत्रं भीमरूपिणम् ॥१५०॥
पुरतो वैनतेयं च सुवर्णाभं कृताञ्जलिम् ।
करण्डमकुटं नीलवाससं प्रियदर्शनम् ॥१५१॥
नीलाग्रनासिकायुक्तं नागाभरणभूषितम् ।
एवं तु गरुडं चिन्त्य बलरामस्य मूर्तिवत् ॥१५२॥
यो भक्त्या देवमभ्यर्चेत् तथैव गरुडं यजेत् ।
भगवत्प्रमुखं पश्चाद्गरुत्मन्तं नियोजयेत् ॥१५३॥
रक्तवर्णं चतुर्बाहुं द्विबाहुं वा मुनीश्वर ।
सर्वाभरणसंयुक्तं सर्वशोभनशोभितम् ॥१५४॥
कालाग्निसदृशाकारं चक्रधृङ्मकुटान्वितम् ।
एवं चक्राधिदैवं तु पूजयेद्द्वारपार्श्वके ॥१५५॥
शङ्खाभं सौम्यरूपं तु सर्वाभरणभूषितम् ।
उपवीतयुतं श्वेतं शङ्खधृङ्मकुटान्वितम् ॥१५६॥
चतुर्बाहुं द्विबाहुं वा ध्यायेद्द्वारस्य वामके ।
धातारं पीतवर्णं विधातारमरुणप्रभम् ॥१५७॥
श्यामवर्णा तु भूमि: स्यात् रक्तवर्णां हरिप्रियाम् ।
दुर्गां च कोमलश्यामां श्वेतरूपं विनायकम् ॥१५८॥
शङ्खपद्मनिधी चैव श्वेतरक्तनिभौ मुने ।
गङ्गां च यमुनां चैव श्वेतकृष्णनिभे मुने ॥१५९॥
उत्कर्षणीं तु रक्तां वै कर्षणीं रक्तवर्णकाम् ।
एवं द्वारे तु संचिन्त्य त्रिसन्ध्यायां(-सु?) प्रपूजयेत् ॥१६०॥
नार्चयेदुपसन्ध्यायां चण्डादीन् द्वारपालकान् ।
अज्ञानादर्चयेन्मोहात् स्थाननाशो भविष्यति ॥१६१॥
दुर्भिक्षं जायते राष्ट्रं धनधान्यविनाशकृत् ।
तस्मात् सर्वप्रयत्नेन विधिनोक्तं समाचरेत् ॥१६२॥
विमानाग्नेययाम्ये तु तन्मध्ये गणनायकम् ।
पूर्ववद्वर्णकं चिन्त्य हस्तिवक्त्रं चतुर्भुजम् ॥१६३॥
विमाने दक्षिणे कुर्यात् दक्षिणामूर्तिमीश्वरम् ।
अक्षमालाधरं देवमष्टाक्षरपरायणम् ॥१६४॥
त्रिणेत्रं श्वेतसंकाशं सौम्यं सोमार्धधारिणम् ।
नारदाद्यृषिसंघैश्च सेवितं दक्षिणामुखम् ॥१६५॥
एवं रहस्यरूपं ते संक्षेपेण विधीयते ।
तस्य दक्षिणपाश्वे तु मातॄणामुत्तरामुखम् ॥१६६॥
कल्पयेन्मुनिशार्दूल सर्वसंपत्सुखावहम् ।
आलयस्योत्तरे मातॄ: कल्पयेद्बा मुनीश्वर ॥१६७॥
तेषां नाम क्रमाद्गुह्यं श्रृणुष्वावहितोऽधुना ।
वागीश्वरीक्रियाकीर्ति: लक्ष्मीसृष्टिस्तथैव च ॥१६८॥
विद्याकान्तिश्च सप्तैता: कथिता विष्णुमातर: ।
उत्तरे पश्चिमे चैव हयास्य: श्रीधरस्तथा ॥१६९॥
वीरभद्रगणेशौ वा मातॄणां द्वारपालकौ ।
साधकेच्छानुरूपेण कल्पयेद्विष्णुमातर: ॥१७०॥
मातरश्च सुवर्णाभा: श्रीधर: श्याम एव च ।
हयशीर्ष:सुवर्णाभो वर्णा एता: (-ते?) प्रकीर्तिता: ॥१७१॥
तथैव वीरभद्रादि वर्णं तु परिपठ्यते ।
विमानपृष्ठभागे तु अनन्तमथ साधक: ॥१७२॥
पञ्चास्यपन्नगोर्ध्वे तु पञ्चवक्त्रै:(?)समावृतम् ।
चतुर्भुजं समासीनं शङ्खचक्रगदाधरम् ॥१७३॥
इत्थं हि लक्षणोपेतं सर्वदेवैर्नमस्कृतम् ।
सौम्यास्येशानयोर्मध्ये दुर्गां श्यामनिभां यजेत् ॥१७४॥
तस्योत्तरे तु विन्यस्य मम रूपं चमूपते: ।
श्यामलं पिङ्गलाक्षं तु पिङ्गश्मश्रु: सनातनम् ॥१७५॥
शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम् (?) ।
पीताम्बरधरं सौम्यं विवृत्ताक्षिसमन्वितम् ॥१७६॥
तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् ।
एवं हि मम रूपं ते (तु?) पठ्यते मुनिसत्तम ॥१७७॥
परिवारविधानोक्तमथ बाह्येषु विन्यसेत् ।
द्वारस्य शङ्खचक्रे तु दक्षिणोत्तरत: स्मरेत् ॥१७८॥
दक्षिणे शङ्खवर्णं तु शङ्खचक्रगदाधरम् ।
चतुर्भुजं त्रिणेत्रं तु मूर्ध्नि शङ्खं न्यसेत् सदा ॥१७९॥
वामपार्श्वे न्यसेच्चक्रमग्निरूपं चतुर्भुजम् ।
त्रिणेत्रं भीमसंकाशं शङ्खचक्रगदाधरम् ॥१८०॥
तन्मूर्ध्नि विन्यसेच्चक्रं नीलाम्बरकिरीटिनम् ।
एवं तु लक्षणं प्रोक्तं शङ्चक्रादिरूपकम् (?) ॥१८१॥
इन्द्रादीशानपर्यन्तं स्वेषु स्थानेषु योजयेत् ।
वज्रहस्त्तं सहस्राक्षं सौम्यं तु श्यामलाकृतिम् ॥१८२॥
सौन्दर्यमिन्द्रदैवत्यं ध्यायेदिन्द्रं किरीटिनम् ।
त्रिशिखं रक्तवर्णाभं रक्तमाल्यैरलंकृतम् ॥१८३॥
त्रिपादं चाष्टबाहुं च रक्तनेत्रत्रयं मुने ।
रक्तकेशनखश्मश्रुवह्निरूपं सशक्तिकम् ॥१८४॥
धर्मराजं ततो ध्यायेत् सर्वलक्षणलक्षितम् ।
कालमेघनिभाकारं द्विभुजं दंण्डपाणिनम् ॥१८५॥
किरीटहारकेयूरमकुटादिविभूषितम् ।
सर्वप्रेताधिनाथस्य लक्षणं कथितं मया ॥१८६॥
ततस्तु रक्षसामीशं निरृतिं रक्तमूर्धजम् ।
खङ्गबाहुं महाकायं रक्तवक्त्रं त्रिणेत्रकम् ॥१८७॥
एतत्तु लक्षणं प्रोक्तं राक्षसाधिपतेस्तत: ।
सर्वलक्षणसंयुक्तं सर्वालंकारभूषितम् ॥१८८॥
श्यामलं पाशहस्तं च जलेशं पङ्कजासनम् ।
धूम्रवर्णनिभाकारं ध्वजयुक्तं महाभुजम् ॥१८९॥
द्विपादं च द्विहस्तं च सर्वेषां प्राणसंज्ञितम् ।
इत्थं ते मुनिशार्दूल लक्षणं परिपठ्यते ॥१९०॥
ध्यायेत् सौम्ये तु मतिमान् यक्षेश्वरमनुत्तमम् ।
तप्तहाटकसंकाशं सर्वलक्षणलक्षितम् ॥१९१॥
द्विपादं च द्विहस्तं च दण्डपाणिं धनेश्वरम् ।
श्वेताद्रिशिखराकारं द्विपादं च चतुर्भुजम् ॥१९२॥
वृषध्वजं त्रिणेत्रं च शूलपाणीन्दुमौलिनम् ।
एवं ध्यायेत् क्रमात् सर्वान् स्वनाम्ना पूजयेत् पृथक् ॥१९३॥
एतत्तृतीयावरण्?ो द्वारपार्श्वेन्दुसूर्ययो: ।
रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥१९४॥
शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम् ।
चिन्तचेद्दक्षिणे पार्श्वे तृतीयद्वारके रविम् ॥१९५॥
कुन्दपुष्पनिभाकारं शङ्खचक्रगदाधरम् ।
चतुर्भुजं त्रिणेत्रं च पीतवस्त्रं च चिन्तयेत् ॥१९६॥
द्वारस्य वामपार्श्वे तु शशाङ्काकृतिमुत्तमम् ।
मौलिपृष्ठस्य सूर्यादौ चिन्तयेन्मण्डलाकृतिम् ॥१९७॥
एवं शशिं रविं ध्यात्वा तृतीयद्वारपार्श्वयो: ।
कुमुदादीनि सर्वाणि न्यसेत् पूर्वादिषु क्रमात् ॥१९८॥
कुमुद: कुमुदाक्षश्च पुण्डरीकोऽथ वामन: ।
शङ्कुकर्ण:सर्पनेत्र: सुमुख: सुप्रतिष्ठित: ॥१९९॥
एतेषां लक्षणं प्रोक्तं ध्यायेदस्मिन् महोत्सवे ।
तद्वत् ज्ञात्वाऽत्र भूतेशान् पूजयेत् साधकोत्तम: ॥२००॥
पुरत: स्थापयेत् सर्वान् विष्णुपारिषदान् बहून् ।
सर्ववर्णधरा:सर्वे सर्वे शस्त्रास्त्रपाणय: ॥२०१॥
महापीठे तु संस्मृत्य सर्वान् भूतगणान्वितान् ।
पूजाकाले ततो ध्यायेत् स्वरूपं पूजक: क्रमात् ॥२०२॥
स्वनाम्ना परिवाराणां प्रणवादिनमोन्तकम् ।
अर्घ्यपाद्यादिभिर्वापि गन्धाद्यैर्वा मुनीश्वर ॥२०३॥
अर्चयेन्नित्यपूजायां प्रणवादिमनुस्मरन् ।
अस्मिन् तन्त्रे मया प्रोक्तं चण्डाद्यावरणार्चनम् ॥२०४॥
उत्सवे परिवाराणामर्चनाविधिरुत्तम: ।
तथैवाभ्यर्च्य मतिमान् परिवारानतन्द्रित: ॥२०५॥
एवमभ्यर्च्य भूतेशान् पश्चात् पूजां समाचरेत् ।
क्षालयेत् सर्वपात्राणि पूर्वोक्तेन विधानत: ॥२०६॥
सर्वद्रव्याणि संप्रोक्ष्य निरीक्ष्याद्येन मन्त्रत: ।
आवाहनादिभि: सर्वैरुपचारक्रमेण तु ॥२०७॥
देवदेवं समभ्यर्च्य स याति परमां गतिम् ।
उपचारक्रमं वक्ष्ये यथावदनुपूर्वश: ॥२०८॥
पूर्वमावाहनं कुर्यात् पुनरासनमेव च ।
तृतीयं पुष्पविक्षेपं तुरीयं तु नमस्कृतिम् ॥२०९॥
पञ्चमोऽञ्जलिमुद्रा च (स्यात्?) षष्ठमर्ध्यं तथैव च ।
पाद्यं तु सप्तमं कुर्यात् तथाचमनमष्टमम् ॥२१०॥
स्नपनं नवमं विद्याद्दशमो वसनं भवेत् ।
एकादशो भूषणं स्यात् द्वादशस्तूपवीतकम् ॥२११॥
त्रयोदशश्चाचमनं गन्धश्चैव चतुर्दश: ।
पुष्पं पञ्चदशश्चैव षोडशो धूप एव च ॥२१२॥
दीप: सप्तदशश्चैव मुद्राष्टादश उच्यते ।
हविरेकोनविंशश्च पानीयं विंशकस्तथा ॥२१३॥
एकविंशस्तथाचाम: ताम्बूलं च* द्वाविंशक:* ।
उपचारस्त्रयोविंश आचामस्तदनन्तरम् ॥२१४॥
मुखवास: पञ्चविंश: षड्विंशो गेयमुच्यते ।
पुराणं सप्तविंशश्च नृत्तहोममत: परम् ॥२१५॥
बलिभ्रमणमेकोनत्रिंश अर्ध्यमत: परम् ।
पुष्पं वा मुनिशार्दूल दद्यादिच्?छानुरूपत: ॥२१६॥
एकत्रिंशो मुखवासश्चोद्वासनमत: परम् ।
द्वात्रिंशदुपचाराणामुक्तमेवं महामुने ॥२१७॥
वक्ष्ये कलोपचाराणि (-रांस्तु?) श्रृणुष्वावहितो भव ।
आद्य आवाहनं पश्चात् आसनं तदनन्तरम् ॥२१८॥
पाद्यं तृतीय अर्ध्यं स्यादाचामं पञ्चम: स्मृत: ।
षष्ठं तु स्नपनं विद्यात् सप्तमो वसनं भवेत् ॥२१९॥
अष्टमस्तूपवीतं स्यान्नवमं गन्ध उच्यते ।
दशम: पुष्पविन्यास: धूप एकादशो भवेत् ॥२२०॥
दीपस्तत: परं विद्यात् चरुणस्तु (चरोश्चैव?) निवेदनम् ।
चतुर्दश्यञ्जलिमुद्रा प्रदक्षिणमत: परम् ॥२२१॥
उद्वासनं षोडश: स्यादित्येवमपर:क्रम: ।
एवं षोडशधा प्रोक्ता उपचाराणि(-रांस्तु?)नारद ॥२२२॥
एकादशोपचाराणां क्रमं श्रृणु महामुने ।
आवाहनं तु प्रथम: द्वितीयश्चासनं भवेत् ॥२३३॥
अर्घ्य चानन्तरं विद्यात् पाद्यं चैव तत: परम् ।
देवस्याचमनं विद्यात् पञ्चमं तु विचक्षण: ॥२२४॥
गन्धं चानन्तरं विद्यात् सप्तमं पुष्पमेव च ।
धूपं तु चाष्टमं विद्यात् दीपस्तु नवम: स्मृत: ॥२२५॥
दशमस्तु निवेद्यं स्यादुद्वासनमत: परम् ।
मुख्यगौणक्रमेणैव विनियोगं तत: श्रृणु ॥२२६॥
यत्र पूजोत्तमा तत्र कुर्यान्मुख्योपचारकम् ।
मध्यमाराधनं यत्तु त्रकृध्यमप्रयोजयेत् ॥२२७॥
अर्चा कनीयसी यत्र तत्रैवैकादशेन तु ।
प्रयोज्यमिति शास्त्रस्य निश्चय: साधकोत्तमै: ॥२२८॥
सर्वे सर्वत्र वा पूजा देशकालानुरूपत: ।
साधकेच्छानुरूपेण कुर्याद्वा मुनिपुङ्गव ॥२२९॥
अनि(आरि?)राधयिषुर्मूत्रा यद्यद्वै साधकोत्तम: ।
तत्तद्वै मूर्तिमन्त्रेण कुर्यात् सर्वोपचारकम् ॥२३०॥
स्नपने मन्त्रभेदोऽस्ति मूर्तीनां मुनिसत्तम ।
नित्ये नैमित्तिके वापि विष्णोर्नुकमथावपि ॥२३१॥
नारायणोपनिषदं द्वादशाक्षरमेव च ।
नारायणं ब्राह्मणं(?)वा अतो देवी(-वे?)ति वा पुन: ॥२३२॥
सहस्रशीर्षं देवमष्टाक्षरमथापि वा ।
सहस्रशीर्षा पुरुषो मन्त्रं वा परमेष्ठिन: ॥२३३॥
एतेष्वन्यतमं वापि स्नपनं साधक: शुचि: ।
कुर्वन् स्वराष्ट्रमुद्धृत्य विष्णुलोकमवाप्नुयात् ॥२३४॥
केवलं मूलमन्त्रेण पूजक: पुरुषोत्तम ।
आवाहनादिभि: सर्वैरुपचारै: समर्चयेत् ॥२३५॥
सुगुणो वंशसंपन्नो निर्दोषो रोगवर्जित: ।
आवाहनादि कर्माणि सर्वाण्येतानि सर्वदा ॥२३६॥
अष्टाक्षरेण वा कुर्यात् मूर्तीनां मुनिसत्तम ।
पूजकस्योत्तमत्वाच्च निर्दोषत्वान्महामुने ॥२३७॥
केवलं पुष्पमात्रेण देवेशस्तृप्यतेऽत्र तु ।
सा पूजा सफलं याति वृद्धिकृत् ग्रामराज्यो: ॥२३८॥
एवं य: कारयेद्भक्त्या स याति परमां गतिम् ।
यतिर्वा ब्रह्मचारी वा पूजको मुनिसत्तम ॥२३९॥
द्विगुणं फलमाप्नोति नात्र कार्या विचारणा ।
एवं संपूजयेद्भक्त्या विष्णुं सकलमव्ययम् ॥२४०॥
इह लोके श्रियं प्राप्य परलोके तथैव च ।
सर्वान् कामानवाप्नोति सर्वयज्ञफलं भवेत् ॥२४१॥
विशेषमत्र वक्ष्यामि आत्मार्थस्य परस्य च ।
उपचारक्रमं सर्वं साधकानां हिताय तु ॥२४२॥
अर्घ्यादिमुखवासन्तं क्रमाद्देवाय कल्पयेत् ।
अर्घ्यं पाद्यं तथाचाम: मधुपर्क: पुनश्च तत् ॥२४३॥
ताम्बूलं गन्धपुष्पं च अक्षतो धूप एव च ।
दीपो ह्यञ्जलिमुद्रा तु निवेद्यं तु महामुने ॥२४४॥
पानीयाचमनीयं च मुखवासस्तथैव च ।
एवं क्रमो मुनिश्रेष्ठ तत्क्रमेणाथवार्चयेत् ॥२४५॥
क्षालयेत् सर्वपात्राणि पूर्ववत्तन्त्रवित्तम: ।
तत्तत् पात्रेषु तद्द्रव्यं निक्षिप्यापूर्य पुष्पकम् ॥२४६॥
अर्घ्यतोयं स्वमन्त्रेण मुखमालेपयद्धरे: ।
पाद्यं देवस्य पादे च दीयते(दद्याद्वै?)स्वस्वविद्यया ॥२४७॥
देवस्य दक्षिणे हस्ते ह्याचामं मधुपर्ककम् ।
पुनराचामताम्बूलं तथैव च पुन: पुन: ॥२४८॥
जातिश्रीकण्ठ(-खण्ड?)मादाय पेषयेत् पिष्ठपङ्कवत् ।
कर्पूरेण समायुक्तं कुडुबद्वयपूरितम् ॥२४९॥
केवलं चन्दनं वापि गन्धं षण्मुष्टिमात्रकम् ।
पुष्पप्रस्थचतुष्कैस्तु मूर्तीनां तु पृथक्पृथक् ॥२५०॥
दापयेत्तु प्रयत्नेन साधक: परमार्थवित् ।
धूपं सुरभिणा व्याप्तं *प्राप्तज्वालोच्छ्रितोज्ज्ञितम्* ॥२५१॥
*बहुरेखमनारग्न्यं दशमात्रं प्रदापेयत्*(?) ।
दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम् ॥२५२॥
धूपं तु दापयेद्गन्धं नासिकायां तु दक्षिणे ।
दद्याद्यथाक्रमं सर्वं वासुदेवाय भक्तित: ॥२५३॥
*कलमादीनि*(?) सर्वाणि शेषाङ्गं मर्दयेद्बुध: ।
वामहस्तेन मन्त्रज्ञ: पुष्पं गृह्य समाहित: ॥२५४॥
दक्षिणेन करेणैव दद्याद्देवस्य पादयो: ।
मुष्टिमात्रं प्रदद्यात्तु त्रिवारेण (-रं च?) स्वविद्यया ॥२५५॥
मध्यमानामिकामध्ये चाङ्गुष्ठेन समन्वितम् ।
अक्षतं तु ततो दद्यात् तथैव च पुन: पुन: ॥२५६॥
देवस्य वामनासौ च(-नासायां?) धूपं दद्यात् समाहित: ।
दक्षिणे देवदृक्पार्श्वे दीपं दद्यात्तु मन्त्रवित् ॥२५७॥
त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणादृशि ।
कपिलाज्येन संस्राव्य ह्यन्नसुक्तेन संस्पृशेत् ॥२५८॥
परिषिच्यादि मन्त्रेण *पाणिं दद्यात्तु पाणिना*(?) ।
दद्यात्तद्दक्षिणे हस्ते हवि:प्राशनमुद्रया ॥२५९॥
पानीयाचमनीयं च मुखवासं तथैव च ।
एवं षोडशधा प्रोक्तं विशेषेणोपचारकम् ॥२६०॥
दद्याद्यथाक्रमं सर्वं भक्तिपूतेन चेतसा ।
ततस्तु साधक: सम्यक् प्रणम्याञ्जलिमुद्रया ॥२६१॥
देवस्य पादौ हस्ताभ्यां संस्पृशेत्तत् समाहित: ।
ततस्त्वथर्ववेदे तु शौनकायां तु शाखया ॥२६२॥
नारायणोपनिषदं उच्चार्य च पुन: पुन: ।
त्रिभि: काण्डै:समुच्चार्य मन्त्रेणैव महामुने ॥२६३॥
देवेशस्तृप्यते चैव नात्र कार्या विचारणा ।
राजराष्ट्रविवृद्धि: स्यात् ग्रामादिषु तथैव च ॥२६४॥
अर्चयेन्नान्यथा मोहादाभिचारकरो भवेत् ।
सा पूजा निष्फला चैव रोगवृद्धिर्भविष्यति ॥२६५॥
तस्मात् सर्वप्रयत्नेन त्रिभि: काण्डै: समर्चयेत् ।
अग्निकार्यं तु पूर्वोक्तं कुर्यात्तन्त्रविचक्षण: ॥२६६॥
समिधो मूलमन्त्रेण आज्यमाज्येन मन्त्रत: ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुती: ॥२६७॥
हुत्वा हुत्वाग्निमध्ये तु साधको मन्त्रवित्तम: ।
शेषद्रव्याणि सर्वाणि पूर्वोक्तेनैव कारयेत् ॥२६८॥
अग्निकार्यं समाप्यैवं बलिदानमथोच्यते ।
बलिदानक्रम: सर्व: संक्षेपाद्वक्ष्यतेऽधुना ॥२६९॥
नित्ये नैमित्तिके चैव सर्वसंपत् सुखावहम् ।
स्वर्णादीनां तु पात्राणां लक्षणं कथ्यतेऽधुना ॥२७०॥
तालं तु कर्णिका प्रोक्तं तत्पादार्धतलं तथा ।
पादं तु तद्बहि: कुर्यात् तदन्ते वलयं भवेत् ॥२७१॥
बलिपात्रं समाख्यातं ताम्रराजतहैमकम् ।
उत्तमाधममध्यं स्यात् विभवस्यानुरूपत: ॥२७२॥
कारयेद्बलिपात्रं तु एकद्रव्येण शिल्पिना ।
आचार्योऽलंकृत: सम्यक् पात्रमादाय मण्डले ॥२७३॥
साधितं प्रोक्षितं पश्चात् गालितेनोदकेन तु ।
तस्मिन्मध्ये तु कुर्वीत सुदृढं हविषासनम् ॥२७४॥
कर्णिकारपरीमाणं *यत्तावद्विस्तारमुच्यते* ।
चतुरङ्गुलमुत्सेधमन्नपीठस्य नारद ॥२७५॥
लक्षणं चात्र संप्रोक्तं नित्यपूजोत्सवस्य तु ।
महोत्सवे न कुर्वीत चान्नपीठस्य चोपरि ॥२७६॥
कारयेच्छिबिकाद्येषु बलिभ्रमणमुत्तमम् ।
कल्पयेत् सपरीवारमन्तरावरणस्थितम् ॥२७७॥
तस्मिन् पात्रोपरि न्यस्य स्वनाम्ना मुनिसत्तम ।
अन्नोपरि पटं न्यस्य पुष्पैरन्यै: प्रकीर्य च ॥२७८॥
वस्त्रैराभरणैश्चित्रै: गन्धै: पुष्पैरलंकृतम् ।
सुवर्णकुसुमैश्चित्रै: *प्रभावासितसंयुतम्*(?) ॥२७९॥
*वासिकाद्याभिर्मालाभि:*(?)भूषितं सुमनोरमम् ।
सौवर्णं राजतं वापि ताम्रं वातीव सुन्दरम् ॥२८०॥
तस्मिन् तिष्ठापयेद्बिम्बं स्वस्वमूर्त्यनुसारत: ।
अलाभे काञ्चने वापि राजतं ताम्रमेव वा ॥२८१॥
तण्डुलं च चरुं पुष्पं प्रातर्मध्याह्न एव च ।
प्रदोषे च बलिं कुर्यात् यथायोगक्रमेण तु ॥२८२॥
अर्घ्यादि चाष्टमं दद्यात् मुखवासान्तमेव वा ।
दीपान्तं वा प्रदातव्यं स्वेन मन्त्रेण देशिक: ॥२८३॥
अन्यपात्रे तु मन्त्रज्ञ: चान्नं तोयसमन्वितम् ।
गन्धपुष्पसमायुक्तं स्वस्तिवाचनसंयुतम् ॥२८४॥
पीठे पीठे मुनिश्रेष्ठ बलिदानं समाचरेत् ।
शङ्खघोषसमायुक्तं धूपदीपसमन्वितम् ॥२८५॥
वितानध्वजसंयुक्तं छत्रचामरशोभितम् ।
तूर्यवादित्रघोषैश्च जयशब्दसमन्वितम् ॥२८६॥
शिष्यमभ्यर्च्य गन्धाद्यै: गरुडं संस्मरेत् स्वयम् ।
विद्यानामादिमन्त्रेण पात्रमुत्थापयेद्गुरु: ॥२८७॥
स्थापयेन्मूर्ध्नि शिष्यस्य बलिपात्रमनुत्तमम् ।
तत्पात्रे स्थापयेद्देवं गच्छमानं (-न्तं च?) प्रकल्पयेत् ॥२८८॥
शनै: शनैर्मुनिश्रेष्ठ शङ्खाद्यैर्गेयसंयुतम् ।
बलिभ्रमणकाले तु बिम्बाग्रे बलिमाचरेत् ॥२८९॥
यो मोहाद्बिम्बहीने तु *बलिकर्मणि चेन्मुने*(?) ।
तत्स्थानं निधनं याति *तत्रस्था नरकं व्रजेत्* ॥२९०॥
तस्मात् सर्वप्रयत्नेन बिम्बाग्रे बलिमाचरेत् ।
प्रतिमाचार्ययोर्मध्ये गमनं वर्जयेत्तत: ॥२९१॥
गमनं यदि चेत्तत्र स्नपनं पञ्चगव्यकै: ।
तदन्ते गन्धतोयेन स्नापयेत्तेन मूर्तिना (?) ॥२९२॥
पुण्याहघोषसंयुक्तं स्वस्तिसूक्तरवैर्युतम् ।
मन्त्राणामादिमन्त्रेण मूर्तिमन्त्रेण वा मुने ॥२९३॥
समिदाज्येन चरुणा प्रत्येकैकाहुतिं क्रमात् ।
हुत्वा स्वे स्वे तु जुहुयात् स्वाहान्तेन यथाक्रमम् ॥२९४॥
पश्चात् पूर्णाहुतिं हुत्वा शेषकर्म समाचरेत् ।
आद्यं प्रदक्षिणं कृत्वा नृत्तगेयसमन्वितम् ॥२९५॥
द्वितीयं च परिभ्रम्य गेयतूर्यसमन्वितम् ।
तृतीयं तु परिभ्रम्य तूर्यैर्नानाविधैर्युतम् ॥२९६॥
चण्डप्रचण्डप्रभृति महापीठान्तमेव च ।
अर्घ्यपाद्यादिनाभ्यर्च्य गन्धाद्यैर्जलसंयुतम् ॥२९७॥
परिवारान् समभ्यर्च्य यथापूर्वं प्रकल्पितम् ।
बलिभ्रमान्तं कृत्वा तु महापीठप्रदक्षिणम् ॥२९८॥
तृतीयसवने गत्वा पुन: कुर्यात् प्रदक्षिणम् ।
शङ्खशब्दत्रयं कुर्यात् गोपुरे नि:स्वनं गता(?) ॥२९९॥
विमानद्वारमासाद्य आर्घ्यं वा पुष्पमेव वा ।
दत्वा तन्मूर्तिमन्त्रेण गर्भागारे(-रं?) प्रवेशयेत् ॥३००॥
पीठस्य दक्षिणे पार्श्वे बलिबिम्बं प्रसादयेत् ।
पाद्यादि चतुरो दद्यात् कर्मार्चायां तथैव च ॥३०१॥
बलिपात्रस्थितं पुष्पं ममाग्रे निक्षिपेद्बुध: ।
अन्नपीठं सतोयं च महापीठे विनिक्षिपेत् ॥३०२॥
प्रक्षाल्य पादौ हस्तौ च आचम्य विधिना पुन: ।
न्यासं कृत्वा विधानेन मूर्तिमन्त्रेण पूर्ववत् ॥३०३॥
ककुदन्तं ललाटादि न्यसेद्देहे यथाक्रमम् ।
सहस्रं वा शतं वापि अष्टाविंश्?ामथापि वा ॥३०४॥
स्वेन स्वेन तु मन्त्रेण यथाशक्ति जपेत् क्रमात् ।
नमस्कारं क्रमात् कृत्वा तन्मूर्तिस्तुतिभि: क्रमात् ॥३०५॥
जपेन्मन्त्री स्वमन्त्रेण देवदेवस्य संनिधौ ।
अस्मिन् काले तु देवेशस्तृप्यते(?)नात्र संशय: ॥३०६॥
सर्वान् कामानवाप्नोति ग्रामराज्ञोश्च वृद्धिकृत्(?) ।
अन्यथा देवदेवेश: कुप्यते(?)नात्र संशय: ॥३०७॥
तस्मात् सर्वप्रयत्नेन जपेन्मूर्तिस्तुतिं बुध: ।
पुष्पं दत्वा नमस्कृत्य मूलबेरे नयेद्धरिम् ॥३०८॥
आवाहनं यथापूर्वं तद्वदुद्वासनं कुरु ।
आलोक्य दत्तमित्याहु: बलिदानोत्तमं परम् ॥३०९॥
संक्षेपेण मया प्रोक्तं वक्ष्ये दत्तावलोकनम् ।
अथवा परिवाराणां बलिदानविधिक्रमम् ॥३१०॥
प्रवक्ष्यामि मुनिश्रेष्ठ गुह्याद्गुह्यतरं श्रृणु ।
झल्लरीमद्दलैर्युक्तं नानावाद्यसमन्वितम् ॥३११॥
नित्योत्सवस्य पूर्वे तु बलिदानं समाचरेत् ।
सर्वालंकारसंयुक्तं वितानध्वजसंयुतम् ॥३१२॥
नृत्तगीतसमायुक्तं पश्चाद्बिम्बं परिभ्रमेत्(?) ।
मध्यमं बलिदानं तच्चण्डादिभ्यो ह्यतन्द्रित: ॥३१३॥
दत्तावलोक्यकं(-कनं?) नाम राज्ञो राष्ट्रस्य वृद्धिकृत् ।
एवं दिने दिने कुर्यात् परिवारबलिक्रमम् ॥३१४॥
एवं संक्षेपत: प्रोक्तो नित्योत्सवबलिभ्रम: ।
विशेषं चात्र वक्ष्यमि परार्थे बलिकर्मणि ॥३१५॥
शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
इन्द्रादिलोकपालान् वा कल्ययेत् क्रमयोगत: ॥३१६॥
एकावरणमार्गं चेत् परिवारबलिक्रमम् ।
प्रथमावरणे कुर्यात् विघ्नेशादीन् विवर्जयेत् ॥३१७॥
चण्डादिशर्वपर्यन्तं संस्थाप्य बलिमाचरेत् ।
पश्चाद्बलिं महापीठे संस्?थाप्य प्रथमं मुने ॥३१८॥
शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ।
नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ॥३१९॥
पश्चाद्देवं महाभागो नीत्वार्घ्याद्यै:समर्चयेत् ।
शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ॥३२०॥
नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ।
पश्चाद्देवं महाभागो नीत्वार्घ्याद्यै: समर्चयेत् ॥३२१॥
पाद्योदकं गृहीत्वा तु भक्तान् संप्रोक्ष्य मन्त्रवित् ।
एवं बलिविधि: प्रोक्तो एकावरणपूजने ॥३२२॥
पुन:* प्राकारमत्रैव कल्पितश्चेन्मुनीश्वर*(?) ।
चण्डादीशावसानं तु प्रथमावरणे न्यसेत् ॥३२३॥
शेषाणि परिवाराणि द्वितीये च तृतीयके ।
इन्?द्रादि सुप्रतिष्ठान्तं पुन:संस्थाप्य मन्त्रवित् ॥३२४॥
पूर्वोक्तेन विधानेन बलिदानं समाचरेत् ।
सा पूजा सफला भूत्वा वर्धते श्रीर्दिने दिने ॥३२५॥
राज्ञो राष्ट्रस्य वृद्धि: स्यात् आलयस्य तथैव च ।
एवं दिने दिने कुर्यात् तृतीयावरणावृतम्(?) ॥३२६॥
एवमेव बलिं कुर्यात् द्वितीयावरणालये ।
अर्घ्यावसानं पूवोक्तमार्गेण प्रथमे न्यसेत् ॥३२७॥
विध्नेशादि(?)मुनिश्रेष्ठ प्रथमं(मे?) बलिमाचरेत् ।
प्रथमावरणे पश्चात् इन्द्रादीनां बलिं हरेत् ॥३२८॥
तृतीयावरणे पश्चात् कुमुदादिबलिं हरेत् ।
*तं बलिं मध्यममिदं पूर्वा पूर्वा गरीयसी*(?) ॥३२९॥
अन्यथाफलमाप्नोति दुर्भिक्षानर्थदा भवेत् ।
तस्मात् कुर्यात् प्रयत्नेन बलिं विणोर्विधानत: ॥३३०॥
वृक्षमूलेऽद्रिमूले वा कुड्ये वाऽत्र गुहान्तरे ।
किंचिदस्मिन् विशेषोऽस्ति तत्क्रमं श्रृणु नारद ॥३३१॥
देवाग्रे पूर्ववत् कल्प्य मण्डपं सपरिच्छदम् ।
तत्रोपलिप्य विधिवत् हस्तमात्रं समंतत: ॥३३२॥
तन्मध्ये शक्तिमावाह्य पात्रे पादुकसंयुते ।
अर्घ्यादिसप्तमं दत्वा पृथक् पाद्यादिभि: क्रमात् ॥३३३॥
मण्डपं परित: कल्प्य परिवारान् विशेषत: ।
एकावरणमार्गेण मण्डपं भ्रामयेत् क्रमात् ॥३३४॥
मत्स्यादीनां तु देवर्षे एवमेव समाचरेत् ।
बलिदानं मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ॥३३५॥
अन्यथाफलमाप्नोति कर्ता भर्ता च नश्यति ।
केवलं बलिदानं तु प्रवक्ष्यामि श्रृणु क्रमात् ॥३३६॥
होमोत्सवविहीनं चेत् साधको मुनिसत्तम ।
पञ्चोत्तरदशान् सर्वान् चण्डादिद्वारपालकान् ॥३३७॥
पूजयेन्मुनिशार्दूल गन्धपुष्पादिभि: क्रमात् ।
तद्द्वारे बलिरित्याहुरधम: परिपठ्यते ॥३३८॥
उत्तमेऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ।
अधमेऽप्यधमं कुर्यात् विभवस्यानुरूपत: ॥३३९॥
नित्योत्सवस्य पूर्वे तु कारयेत्तु विशेषत: ।
बलिदानं मुनिश्रेष्ठ पश्चाद्देवं परिभ्रमेत् ॥३४०॥
अधमाधममित्याहु: परिवारवि?हीनत: ।
दत्तावलोक्यकं नाम तद्ग्रामस्यैव वृद्धिकृत् ॥३४१॥
अलंकाराणि सर्वाणि चास्मिन् पूर्ववदाचरेत् ।
इत्युत्तमादि संप्रोक्तो बलिकर्मविधिर्मया ॥३४२॥
एवं सक्षेपत: प्रोक्तो नित्योत्सवविधिर्मुने ।
साधकेच्छानुरूपेण कारयेदेकधाऽत्र तु ॥३४३॥
आत्मार्थं वैदिकेनैव तान्त्रिकेणैव वा मुने ।
परार्थे तान्त्रिकेणैव मिश्रितं वा हरिं परम् ॥३४४॥
अर्चयेत् पूर्ववद्धीमान् राज्ञो राष्ट्रस्य वर्धनम् ।
परार्थे वैदिकेनैव न कुर्यात्तु कथंचन ॥३४५॥
तस्मात् सर्वप्रयत्नेन मिश्रितं तान्त्रिकेण तु ।
स्वार्थ आवाहनं कुर्यात् फलकाद्वा पटादपि ॥३४६॥
सूर्यमण्डलमध्याद्वा परार्थे मूलबेरकात् ।
एकबेरं तु सन्त्यज्योद्वासनावाहनेन तु ॥३४७॥
कुर्यात् स्वार्थे परार्थे च शैलबिम्बे विशेषत: ।
तथैव बालगेहस्य बिम्बस्य मुनिसत्तम ॥३४८॥
आवाहनं विसर्गं तु न स्मरेच्छेषमाचरेत् ।
अशक्तोऽनधिकारी वा स्वार्थं य: कारयत्यपि ॥३४९॥
परेण तत्कुलं सर्वं स्वकुलं तारयिष्यति ।
विष्णोर्निवेदितं सर्वं ममापि प्रियमेव च ॥३५०॥
हस्तयोरङ्गुलीनां तु स्वाङ्गुष्ठानामिकेन तु ।
निर्माल्यं मोचयित्वा तु प्राणानायम्य मानस:(?) ॥३५१॥
तेन(?) माल्यं च तद्द्रव्यं मम प्रीतिकरं शुभम् ।
तन्माल्यं चैव तद्द्रव्यं भक्तानां चैव दापयेत् ॥३५२॥
मत्पूजा तद्विमाने तु विना चेन्मुनिसत्तम ।
सा पूजा निष्?फला भूयात् ग्रामस्यानर्थकृद्भवेत् ॥३५३॥
काकश्वानादि(?)जन्तूनां पाषण्डीनां तथैव च ।
वेदविक्रयकानां च वेदनिन्दकमेव च (?) ॥३५४॥
शूद्रान्नतत्पराणां च नास्तिकानां विशेषत: ।
एवमादीनि जातीनां(?) भक्षणार्थं न दापयेत् ॥३५५॥
अविचारेण वा मोहात् दत्वा रौरवमाप्नुयात् ।
न लङ्घयीत निर्माल्यं ममापि पुरुषोत्तम ॥३५६॥
यश्?चेत्तु लङ्घयेत्(-ते?)मोहात् महान् दोषो भविष्यति ।
महारौरवमायाग्नौ निमग्नस्तत्र दोषभाक् ॥३५७॥
?द्विजात्यादित्रिवर्णान्तं वैष्णवानां विशेषत: ।
त्रेताग्नीनां व्रतस्थानं यतीनां शान्तचेतसाम् ॥३५८॥
दीक्षितानां तपस्वीनां वन्ध्यादिषु तथैव च ।
एवमादीनि भक्तानां(?)दापयेद्देवसंनिधौ ॥३५८॥
तस्मात् सर्वप्रयत्नेन वर्जितानां न दापयेत् ।
एवं य: कारयेद्भक्त्या विष्णुपूजामनुत्तमाम् ॥३६०॥
मोक्षदं मोक्षमिच्छूनां धनदं धनकामिनाम् ।
अन्नदं चान्नमिच्छूनां सर्वकामप्रदं शुभम् ॥३६१॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाभेदकथनं नाम]
विंशोध्याय:॥

N/A

References : N/A
Last Updated : January 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP