संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
पञ्चमोऽध्याय:

विश्वक्सेनासंहिता - पञ्चमोऽध्याय:

विश्वक्सेना संहिता


विष्वक्सेन:---
अथात:संप्रवक्ष्यामि शूलस्थापनमुत्तमम् ।
स्थापयेत् प्रतिमाशूलं रत्नन्यासस्य चो(स्तथो?)परि ॥१॥
खदिरादीनि गृह्णीयात् याज्ञिकानि विशेषत: ।
तल्लक्षणं प्रवक्ष्यामि श्रृणु पूर्वं शचीपते ॥२॥
पञ्चोत्तरद्विपञ्चाशत्*सपादं*(अङ्गुलं?)शूलमुच्पते ।
रहितं वृक्षदोषैस्तु मितमङ्गुलिभि: क्रमात् ॥३॥
द्विषट्कद्व्यङ्गुलयुतं मुखं प्रोक्तं प्रमाणत: ।
भाग: सपादकं वा स्यादधस्तात् सप्तविंशति: ॥४॥
नाभेरधोमुखं प्रोक्तमर्धाङ्गुलिसमायुतम् ।
ऊरुदण्डस्य चायाम: पञ्चविंशाङ्गुलो भवेत् ॥५॥
भाग:सपादं जानु: स्यात् जङ्घा चोरुसमायुता ।
गोलकद्वयमुद्दिष्टमधस्ताद्द्व्यन्तरं तथा ॥६॥
वक्षोदण्डस्य विस्तार: पञ्चविंशाङ्गुलो भवेत् ।
कटिदण्डस्य विस्तार: षोडशाङ्गुल उच्यते ॥७॥
आयामो बाहुदण्डस्य पञ्चविंशाङ्गुलो भवेत् ।
आयामोऽपरबाह्वोस्तु भवेत् सप्तदशाङ्गुलम् ॥८॥
मणिबन्ध: कलायामो बन्धकान् प्रतिमस्करम् ।
आयामो मध्यमाङ्गुल्यां पञ्चाङ्गुल इति स्मृत: ॥९॥
एतत्प्रमाणं शूलं स्यात् उक्तमन्यन्निरीक्ष्यते(तु?) ।
देवीनां तु शचीनाथ शूलानुक्तान् प्रयोजयेत् ॥१०॥
शिल्पशास्त्रानुसारेण कारयेच्छूललक्षणम्(मुत्तमम्?) ।
शूलमृत्पटरज्वादिजीर्णं चेत्तु शचीपते ॥११॥
पुनरन्यत् समुत्पाद्य पूर्वोक्तेनैव कारयेत् ।
हीनाधिकं न कर्तव्यं जीर्णदण्डवदाचरेत् ॥१२॥
एवमेतन्मया प्रोक्तं, जीर्णोद्धारणकर्मणि ।
युक्त्या युक्तिविशेषेण क्रियतेऽस्मिन्नतन्द्रितै: ॥१३॥
शूलाधिवासनादीनि प्रवक्ष्यामि शचीपते ।
श्रृणुष्वैकाग्रचित्तेन विविक्तेन मयाधुना ॥१४॥
प्रासादस्याग्रत: कुर्यात् मण्डपं चतुरश्रकम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥१५॥
वितानवस्त्रसंछन्नमलंकारैरलंकृतम् ।
पञ्चोत्तरशतं हस्तं विस्तारं तावदेव तु ॥१६॥
तन्मध्ये वेदिकां कृत्वा दशतालप्रमाणत: ।
दशहस्तं भवेद्वापि द्वादशं वा शचीपते ॥१७॥
तन्मण्डपं(द्वेदिकां?)त्रिधा कृत्वा मध्ये वेदिं तु कारयेत् ।
दशतालविहीनेन (प्रमाणेन) कारयेद्वेदिमुत्तमाम् ॥१८॥
तालद्वयोच्छ्रितां वेदिं दर्पणोदरसंनिभाम् ।
वेदिकां क्रमश: कृत्वा सम्यक्कुण्डानि कल्पयेत् ॥१९॥
चतुस्तालं त्रितालं वा दूरीभूतानि सर्वश: ।
वेदिकायां तु परित: चतुरश्रादि कल्पयेत् ॥२०॥
स्थण्डिले वा प्रकर्तव्यं शूलस्थापनकर्मणि ।
कृत्वैवं मण्डपं सम्यक् प्रपां वास्मिन् समाचरेत् ॥२१॥
अङ्कुरार्पणपूर्वं तु स्थापयेच्छूलमुत्तमम् ।
शुलादि देवदेवीत्वाप्यूहं कृत्वा क्रमेण तु ॥२२॥
त्रिरात्रमेकरात्रं वा जलवासं प्रकल्पयेत् ।
जलाधिवासनं गुह्यं श्रृणु शक्र शचीपते ॥२३॥
नद्यां वाथ तटाके वा निर्झरे वा शचीपते ।
*समुद्रगामिनी नद्यां*जलवासं समाचरेत् ॥२४॥
तस्मिन्मनोरमे तीरे संस्थाप्य हरिमव्ययम् ।
शूलमध्ये हरिं ध्यात्वा साधक: परमार्थवित् ॥२५॥
केवलं लोहबिम्बं वा स्थापयेत् साधकोत्तम: ।
अर्घ्यपाद्यादिनाभ्यर्च्य न्यासकर्म समारभेत् ॥२६॥
अष्टाक्षरं महामन्त्रं ज्ञात्वा मन्त्रविचक्षण: ।
न्यासं कृत्वा स्वदेहे तु पश्चाद्देवे न्यसेत् क्रमात् ॥२७॥
सृष्टिन्यासं न्यसेत्तस्मिन् संहारं न स्मरेदिह ।
षडक्षरं न्यसेद्धीमान् स्थितिन्यासं न्यसेत् क्रमात् ॥२८॥
देवाग्रे तु ततो भूमिं गोमयेनानुलेपयेत् ।
तन्मध्ये शालीनास्तीर्य चाष्टपत्राब्जकं लिखेत् ॥२९॥
पञ्चगव्यं न्यसेन्मध्ये कर्णिकायां शचीपते ।
पूर्वे गन्धोदकं न्यस्य दक्षिणे पुष्पतोयकम् ॥३०॥
पश्चिमे नालिकेराम्भ: चोत्तरे तु कुशोदकम् ।
आग्नेय्यां दधि विन्यस्य नैऋते क्षीरमेव च ॥३१॥
वायव्ये मङ्गलोदं तु ऐशाने तु यवोदकम् ।
एवं तु नवकं चाब्जमध्ये संस्थापयेत् क्रमात् ॥३२॥
पद्मस्य परितश्चाष्टौ लोकपालान् प्रकल्पयेत् ।
प्रत्येकं कलशस्यान्त: तोयं संस्थापयेत्क्रमात् ॥३३॥
नववस्त्रैश्च संछाद्य कलशानां तथोपरि ।
प्रत्येकैकं त्रिभिर्वापि नववस्त्रं शचीपते ॥३४॥
पुण्याहं वाचयित्वा तु स्वस्तिसूक्तं तथोच्चरेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तम: ॥३५॥
स्मरन् नारायणं पश्चात् स्नापयेत् क्रमयोगत: ।
पञ्चगव्यादिकलशान् पूर्ववत् परमेष्ठिना ॥३६॥
पुष्पमाल्यैरलंकृत्य चित्रवस्त्रैस्तु वेष्टयेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्मरन् नारायणं प्रभुम् ॥३७॥
जलमध्ये प्रपां कृत्वा वितानैरुपशोभिताम् ।
सप्तहस्तसमां वापि पञ्चहस्तसमां तु वा ॥३८॥
दर्भसूत्रैस्तु संवेष्ट्य पुनर्माल्यैस्तु वेष्टयेत् ।
चतुर्हस्तं तु देवेन्द्र विस्तारायामतादृशम्(त: समम्?) ॥३९॥
दर्भमालासमायुक्तं मुक्तादामैरलंकृतम्(मभिरन्वितम्?) ।
पुष्पमाल्यैरलंकृत्य पताकैरुपशसोभितम् ॥४०॥
एवं प्रपामलंकृत्य तन्मध्ये चासनं न्यसेत् ।
चतुष्पादसमायुक्तं काष्ठासनमनुत्तमम् ॥४१॥
तन्मध्ये देवमावाह्य क्षीरार्णवमनुस्मरन् ।
शाययेत्तु शचीनाथ मूर्तिमन्त्रेण मन्त्रवित् ॥४२॥
प्राक्शीर्षं वा[पि]देवेन्द्र दक्षिणे वाथ शाययेत् ।
पञ्चोपनिषदं ज्ञात्वा आचार्यस्तन्त्रपारग: ॥४३॥
पुरुषेण ततो गन्धपुष्पाद्यैरर्चयेद्धरिम् ।
लोकपालाष्टकलशान् देवस्य परितो न्यसेत् ॥४४॥
स्वनाम्ना पूजयेत् सर्वानिन्द्रादिक्रमयोगत: ।
प्रणवादिनमोन्तेन घण्टाशब्दसमन्वितम् ॥४५॥
गन्धा(अर्घ्या?)दिदीपपर्यन्तं साधक: परमार्थवित् ।
तां प्रपां परितश्चाष्टदिग्बलिं कारयेत् क्रमात् ॥४६॥
अनेन लोकपालांस्तु स्मरंस्तन्त्रविदां वर: ।
गन्धपुष्पादिनाभ्यर्च्य उक्तमन्येन (न्यच्च?)कारयेत् ॥४७॥
शचीपते मया प्रोक्तो जलवासविधि: क्रमात् ।
अपरेऽहनि देवेन्द्र अपराह्णे समाहित: ॥४८॥
जलादुत्तीर्य तन्त्रज्ञ: शङ्खभेर्यादिभि: सह ।
संपूजयेत्तयो देवमलंकृत्य स्रगादिभि: ॥४९॥
मण्डपेशानभागे तु स्थापयेत् स्नानमण्डपे ।
स्नपनं विधिवत् कृत्वा गन्धाद्यैरर्चयेत् क्रमात् ॥५०॥
उत्तरेऽस्मिन् मया प्रोक्तं तन्त्रे तु स्नपनं क्रमात् ।
तत्क्रमं स्नापयित्वा तु कल्पयेच्छयनं क्रमात् ॥५१॥
शयनं कल्पयित्वा तु शाययेच्छूलसंचयम् ।
तन्मध्ये देवशूलं तु देवीशूलं तु पार्श्वयो: ॥५२॥
वस्त्रै: संछादयेच्छूलान् गन्धपुष्पै: समर्चयेत् ।
सूक्तेन पु(पौ?) रुषेणैव सृष्टिन्यासं ततो न्यसेत् ॥५३॥
संहारो नेष्यते तस्मिन् तत्वानि विनियोजयेत् ।
मूलप्रकृतिमहदहङ्काराकाशवायुवह्णिवारिवसुन्धरावाक्पा-
णिपादपायूपस्थश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणमन:प्राणापानव्या-
नोदानसमानजीवा: पञ्चविंशतितत्त्वानि ।
एवं तत्त्वानि विन्यस्य तन्नामानि नियोजयेत् ॥५४॥
ततस्तु वेदिकायां तु पूर्वादिक्रमयोगत: ।
स्थापयेत् पूर्णकुम्भांस्तु धान्यराशौ समाहित: ॥५५॥
वराहादीन् समभ्यर्च्य स्वनाम्नाष्टदले(घटे) षु च ।
नेष्यते वेदिकायां तु ब्रह्मकुम्भाधिवासनम् ॥५६॥
न्यासभेदानि सर्वाणि अनुक्तं न स्मरेदिह ।
अर्घ्यपाद्यादिनाभ्यर्च्य स्मरन्नारायणं हरिम् ॥५७॥
वासुदेवादिमूर्तीनां पूर्वादिक्रमयोगत: ।
कुण्डे वा स्थण्डिले वापि जुहुयुर्मूर्तिपा: पृथक् ॥५८॥
समिदाज्येन चरुणा अष्टोत्तरशतं क्रमात् ।
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ॥५९॥
सूक्तेन पौरुषणैव पूर्वादिक्रमयोगत: ।
कुण्डे कुण्डे तु कर्तव्यं (कुर्याच्च?) प्रत्येकं षोडशाहुती: ॥६०॥
पूर्णाहुतिं ततो हुत्वा होममस्मिन् समापयेत् ।
पायसं कृसरं गौळ्यं देवेशाय निवेदयेत् ॥६१॥
शङ्खदुन्दुभिनिर्घोषं तस्मिन् काले नियोजयेत् ।
रक्षार्थं हविषाऽस्त्रेण चाष्टदिग्बलिमाचरेत् ॥६२॥
घण्टाशब्दसमोपेतं शङ्खदुन्दुभि घोषयेत् ।
ततस्तु नववस्त्रैश्?च वेष्टयेदुपरि क्रमात् ॥६३॥
गन्धपुष्पं विनिक्षिप्य प्रणम्याञ्जलिमुद्रया ।
रात्रिशेषं नयेत् गेयनृत्तवीणादिभि: क्रमात् ॥६४॥
प्रभातायां तु शर्वर्यामाचार्य: स्नानमाचरेत् ।
ऊर्ध्वपुण्ड्रं क्रमात् कृत्वा वस्त्रालंकारभूषित: ॥६५॥
मूर्तिपै:सह चोत्थाय शूलमूलमनुस्मरन् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हाविरस्मिन्न (स्मैप्र?) दापेयत् ॥६६॥
वेश्वमप्रदक्षिणं कुर्वन् गर्भागारं प्रवेशयेत् ।
आचार्य: स्थापयेच्छूलं ततस्तु परमेष्ठिना ॥६७॥
देवीशूलं तु संस्थाप्य स्वनाम्नास्मिन् श्रियादिना ।
वेदान् सस्वरमुद्धृत्य काले तस्मिन् समुच्चरेत् ॥६८॥
वाराहादीनि चावाह्य शूलाग्रे सेचयेत् क्रमात् ।
आसनं च तत: पुंसा विश्वेन शयनं तत: ॥६९॥
निवृत्या यानकं चापि सिञ्चेत्तन्मू?र्ध्नि(?र्ति?) धारक: ।
मूर्धादिपादपर्यन्तं वाराहादीननुक्रमात् ॥७०॥
विन्यसेच्छूल (लं?) देहे तु स्वनाम्ना च पृथक्पृथम् ।
सहैव स्थापयेच्छूलं श्रीपुष्ट्योर्देवपार्श्वयो: ॥७१॥
चित्रार्धं शेलदारुभ्यां साङ्गोपाङ्गसमायुतम् ।
कारयेत् प्रतिमां तत्र स्थापयेच्छूलवत् पुरा ॥७२॥
वस्त्रं तत्र नवं स्निग्धं नीलरोमादिवर्जितम् ।
संगृह्य प्रणवेनैव छादयेत् प्रतिमोपरि ॥७३॥
वर्णं तत्कारयेद्विद्वान् यद्यत् पूर्वानुरूपत: ।
पुन:संस्थापनं कृत्वा स्थापनाशास्त्रत: क्रमात् ॥७४॥
शूलमस्थिमवेत्तस्मिन् रज्जुस्तत्र सिरा भवेत् ।
मृण्मासं त्वक्पटं तत्र शरीरवदिदं स्मृतम् ॥७५॥
यथा शरीरे संकल्प्य चतुष्षष्टि सिरास्तथा ।
नारिकेले(ल?)त्वच:सारं गृह्णीयाद्रज्जुकर्मणि ॥७६॥
शूले पाशा: प्रकर्तव्या: तत्कर्मकशलै: शुभै: ।
एवं रज्जुमयं कृत्वा सर्वाङ्गेषु सुवेष्टयेत् ॥७७॥
संक्षेपात् कथितं रज्जुबन्धनं परमं शुभम् ।
एवं कृत्वा यथान्यायं शूलस्थापनमुत्तमम् ॥७८॥
आचार्यं पूजयेत् पश्चात् धनै:कनककुण्डलै: ।
शिल्पिनं पूजयेत् पश्चात् तथैव नववस्त्रकै: ॥७९॥
दैवज्ञं पूजयेत् पूर्वं वस्त्रहेमाङ्गुलीयकै: ।
ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ॥८०॥
एवं संस्थापनं प्रोक्तं संक्षेपा*च्छूलमुत्तमम्*॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां शूलस्थापन-
विधिर्नाम पञ्चमोऽध्याय: ।

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP