संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| दशमोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - दशमोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम दशमोऽध्याय: Translation - भाषांतर नारद:---प्रतिमालक्षण किं वा मूर्तिभेदस्य लक्षणम् ।कथं वा * सूर्यविन्यासो*(?) वद मे वदतां वर ॥१॥विष्वक्सेन:---साधु साधु महाप्राज्ञ *प्रश्नमेतज्जगद्धितम्*(?) ।आदरात् प्रतिमां यत्नात् श्रृणुष्वावहितो भवा ॥२॥परमात्मा भवेदादौ (द्य:?) द्वितीये (यो?) वासुदेवक: ।संकर्षणस्तृतीय: स्यात् प्रद्युम्नस्तु चतुर्थक: ॥३॥पञ्चमस्त्वनिरुद्धस्तु एताश्चैवादिमूर्तय: ।चतूर्मूर्तिक्रमाच्चोक्ता: दशमूर्तिक्रमं श्रृणु ॥४॥मत्स्य: कूर्मो वराहश्च नारसिंहोऽथ वामन: ।जामदग्न्यश्च रामश्च बल: कृष्ण: सुरार्चित: ॥५॥कल्किर्वि (ल्की वि?) ष्णुरिति प्रोक्त: दशमूर्तिक्रमस्तव ।भेदं द्वादशमूर्तीनां कथयामि तवानघ ॥६॥केशव: प्रथमस्तेषां मुने नारायण: परम् ।माधवोऽन्योऽथ गोविन्दो विष्णु: स्यान्मधुसूदन: ॥७॥त्रिविक्रमो भवेन्नाम्ना वामन: श्रीधरस्तथा ।हृषीकेशो भवेदन्य: पद्मनाभस्तत: परम् ॥८॥अत: स्मृतं(परं?) भवेद्ब्रह्ममूर्तिरस्मिन् महामुने ।दामोदर इमं तत्वं श्रीमूर्तिं वदत: श्रृणु ॥९॥विश्वरूपो भवेदेको यज्ञमूर्तिर्द्वितीयक: ।तृतीयो वेदमूर्ति: स्यादिति मूर्तित्रयं भवेत् ॥१०॥श्रियादिमूर्तिभेदं ते वक्ष्यामि मुनिसत्तम ।श्रीमूर्ति: प्रथमोद्दिष्टा पुष्टिमूर्तिस्तत: परम् ॥११॥मेधासरस्वतीदुर्गाविघ्नेशाश्च श्रियादिषट् ।श्रियादिभेदमेवं स्याद्वक्ष्याम्यङ्गुलिमानत: ॥१३॥तिलाष्टकं यव: प्रोक्तो यवाष्टावङ्गुली स्मृता ।व्रीहित्रयोच्छ्रितं वापि यवाष्टौ तिर्यगेव वा ॥१४॥अथवाङ्गुलिमानं तु श्रृणु मत्तस्तपोधन ।देशिकाङ्गुलिमध्यस्य मध्यरेखासमा मुने ॥१५॥मध्यं मध्यकरस्याथ करमध्याङ्गुलेस्तत: ।मध्यपर्वसमावृत्तिर्मुने मात्राङ्गुलं च तत् ॥१६॥इति त्रिधा (?)ङ्गुलि: प्रोक्ता तास्विष्टाङ्गुलिना मुने ।विमानस्यापि बेरस्य मानं कार्यं तथाधुना ॥१७॥अथाष्टमङ्ग्रलानां च स्रुक्स्रुवयोस्तोरणस्य वा ।वेद्यामण्डपकुण्डस्य विधाने समिधश्च वै ॥१८॥स्नपनस्य * चैवमादैतान् विधौ देशिक: सुपरि(?) ।शुद्धमात्राङ्गुलप्रमाणैर्मेधा विधिनाप्रयत्नतो मतिमान्*(?) ॥१९॥अथवा वै हि देवर्षे मानमार्गविधानत: ।अष्टमङ्गलकादीनां मानार्थं वदतो मुने(?) ॥२०॥आचार्यहस्तस्य कनिष्ठिकाद्यै: चतुर्भिरेवाङ्गुलिभिर्महर्षे ।मध्यमाङ्गुलेर्मध्यमपर्वभागे तिर्यग्विसर्पद्भिरिहेव मेयम् ॥२१॥द्वादशाङ्गुलमानं हि तालमित्यभिधीयते ।तालद्वयं भवेद्धस्तमिति मानविदो विदु: ॥२२॥इत्युक्तं त्रिविधं मानमङ्गुलीनां प्रभेदत: ।प्रतिमालक्षणं वक्ष्ये श्रृणुष्वावहित: सदा ॥२३॥बेरमानं विमानाद्वा द्वारमानेन वा पुन: ।गर्भमानेन वा ज्ञेयं मूलबेरप्रमाणत: ॥२४॥मूलप्रासादविस्तारं यद्बाह्येषु प्रमाणत: ।तस्यार्धं श्रेष्ठमित्युक्तं तदर्धं मध्यमं स्मृतम् ॥२५॥तदर्धमधमं प्राहु: प्रतिमोत्सेधमत्र वै ।एवं प्रासादमानं तु द्वारमानमत: श्रृणु ॥२६॥द्वारात् पादाधिकं श्रेष्ठं द्वारमानं तु मध्यमम् ।द्वारस्य पादहीनं यदधमं प्रतिमोच्छ्रयम् ॥२७॥गर्भमानं प्रवक्ष्यामि श्रृणु नारद तत्त्वत: ।त्रिपादद्वयदीर्घं (र्घा?)वा प्रतिमा सोत्तमा स्मृता ॥२८॥पञ्चभागसमोत्तुङ्गं(ङ्गा?) प्रतिमा मध्यमा तु सा ।गर्भगेहार्धतुङ्गा या सावरा प्रतिमोच्छ्रया ॥२९॥गर्भमानमिति प्रोक्तं चित्रं चाप्यर्धचित्रकम् ।चित्राभासविधिश्चेति श्रृणु नारद सांप्रतम् ॥३०॥कालयोगप्रमाणेन कर्तव्या प्रतिमा शुभा ।चित्रं चाप्यर्धचित्रं च चित्राभासं तथैव च ॥३१॥त्रिविधं प्रतिमाकर्म शास्त्रज्ञा: संप्रचक्षते ।दृश्यतेऽवयवा यत्र प्रतिमायां समन्तत: ॥३२॥मानोन्मानप्रमाणाभि:(द्यै:?)तच्चित्रमिति पठ्यते ।शिलागताया यस्यास्तु पृष्ठभागो न दृश्यते ॥३३॥मानप्रमाणसंयुक्ता सार्धचित्रमिति स्मृता ।या स्थितालेख्यरूपेण लिखितापि(चैव?)शिल्पिभि: ॥३४॥मानप्रमाणसंयुक्ता सा चित्राभास उच्यते ।उत्तमं तु फलं चित्रं मध्यमं चार्धचित्रकम् ॥३५॥आलेख्यमधमं प्रोक्तं प्रतिष्ठा(मा?)कर्मणि क्रमात् ।इत्युक्तं प्रतिमाकर्म श्रृणु पीठविधिं मुने ॥३६॥बेरोच्छ्रायं त्रिधा कृत्वा भागैकं पीठिकोच्छ्रयम् ।चतुर्भागैकभागं तु चासने स्थानकोच्छ्रयम् ॥३७॥अथवा पीठमेवं वा श्रृणु नारद सांप्रतम् ।पादपद्मं भवेत्फुल्लमष्टपत्रं सकर्णिकम् ॥३८॥द्वारात् पादांशविस्तारं तावदुत्सेधसंयुतम् ।तस्य नालं भवेद्वृत्तं चतुरश्रं तु वा पुन: ॥३९॥वृत्तं शिव इति प्रोक्तं चतुरश्रं पितामह: ।हस्तमात्रं तदायामं तन्मानं नाह उच्यते ॥४०॥स्थानकस्येदमाख्यातमासनस्याधुनोच्यते ।गर्भद्वारयुगांशं तु पादपद्मोच्छ्रयं भवेत् ॥४१॥तावदायामविस्तार: पूर्ववच्छेषमुच्यते ।एतद्याने न शयने कार्यं नैव कदाचन ॥४२॥इत्युक्तं मूलबेरादिबिम्बानां लक्षणं मुने ।लक्षणं चासनस्यापि तवेदानीं प्रदर्शितम् ॥४३॥अत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चायास्तु लक्षणम् ।मूलबेरस्य दीर्घस्य त्रिभागैकं तु कौतुकम् ॥४४॥वेदभागैकभागं वा भूतभागैकभागकम् ।श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥४५॥वेदभागैकभागं वा भूतभागैकभागकम् ।श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥४५॥अथवा कुरु कर्मार्चां मूलबेरस्य सांप्रतम् ।मूलबेरायतार्धे तु भूतभागैकभागकम् ॥४६॥उत्सवप्रतिमायामं स्नपनस्य तथा भवेत् ।तद्गुणांशैकभागं तु बलिबेरोच्छ्रयं भवेत् ॥४७॥कर्मार्चाया: प्रमाणं वा कुर्याद्वा लक्षणं भवेत् ।उक्तैर्लोहै: कृता पुण्यानुक्तैर्लोहै: कृताशुभा ॥४८॥त्रिगुणाष्टाङ्गुलोत्सेधमथवाष्टदशाङ्गुलम् ।षोडशाङ्गुलकं वापि द्वादशाङ्गुलमेव वा ॥४९॥अथवाष्टाङ्गुलोत्सेधं बलिबिम्बमथोच्यते ।*पादाधिकदशैकं तु*(?) [द्विर] ष्टाङ्गुलिना मुने ॥५०॥बलिबिम्बोच्छ्रयं कृत्वा चोत्तमं परिकीर्तितम् ।एकादशाङ्गुलोत्सेधं मध्यमं बलिकौतुकम् ॥५१॥अष्टाङ्गुलं वा कुर्वीत बलिबिम्बाधमं स्मृतम् ।तीर्थबिम्बं तथैव स्यादिति शास्त्रस्य निश्चय: ॥५२॥हीनमानं न कर्तव्यं मूलबिम्बात् कदाचन ।षडङ्गुलायता चैव नैव कार्या विजानता ॥५३॥मूलबेरत्रिभागैकमुत्सवप्रतिमा भेवत् ।उत्सवप्रतिमायामां स्नपनार्चां तु कारयेत् ॥५४॥इति कर्मार्चनादीनां विविधि मानमीरितम् ।विध्याचारविधानेन यथायोगं समाचरेत् ॥५५॥अत ऊर्ध्वं प्रवक्ष्यामि स्वार्थार्चायास्तु लक्षणम् ।लोहजा मणिजा वापि राजता ताम्रनिर्मिता ॥५६॥एता: प्रशस्ता विप्राणां क्षत्रियस्य सुवर्णजा ।राजता वापि वैश्यस्य राजता ताम्रका शुभा ॥५७॥शूद्रस्य ताम्रकैर्वा स्यात् सर्वेषां वापि ताम्रजा ।लोहजा: प्रतिमा: प्रोक्ता: निर्दोषा: समुदाहृता: ॥५८॥रत्नजास्त्रिविधा: प्रोक्ता: सौम्याग्नेयी समेति च ।शशिकान्तमयी सौम्या सूर्यकान्तमयी परा ॥५९॥स्फटिकेति समा प्रोक्ता पूर्वा पूर्वोत्तमोत्तमा ।द्व्यङ्गुलं तु यदुत्सेधमथवा चतुरङ्गुलम् ॥६०॥अङ्गुलित्रयमानेन मणिबिम्बमिहोच्यते ।एवमात्मार्थबिम्बानां लक्षणं विद्धि पूर्वकम् ॥६१॥पूर्वं कर्मार्चनादीनामुत्तमादित्रि(वि?) भेदत: ।उक्तं हि लक्षणं तेन चात्मार्थेऽपि भवेद्विधि: ॥६२॥फलकायां पटे कुड्ये लिखितानां तु लक्षणम् ।कर्मार्चालक्षण यद्वत्तद्वदुक्तं प्रमाणकम् ॥६३॥अत्र किंचि(कश्चि?) द्विशेषोऽस्ति क्रमुकाद्येन वा पुन: ।पालाशेन तु बिल्वेन खादिरेण तु वा पुन: ॥६४॥उदुम्बरेण वा पश्चात् वकुलेन महामुने ।पनसेन द्रुमेष्वेषु लब्धेन तु विशेषत: ॥६५॥द्व्यङ्गुलं तु घनं चैव चतुरङ्गुलमायतम् ।चतुरश्रं तु वा वृत्तं मेखलात्रयसंवृ(यु?) तम् ॥६६॥तस्यो(?)परि लिखेदब्जमष्टपत्रं तु वा पुन: ।दलैर्द्वादशभिर्युक्तं सर्वशोभासमन्वितम् ॥६७॥कर्णिकायां न्यसेत् तस्य नवरत्नं विशेषत: ।तस्मिन् वा कर्णिकाग्रे वा फलकादिषु कर्णिकाम् ॥६८॥आवाह्य पूजयेद्देवमात्मार्थयजनं प्रति ।मूलबेरादिबिम्बानां स्थानभेदं मुने श्रृणु ॥६१॥प्रासादस्य तु गर्भांशे सप्तभागं गी?) कृते मुने ।पुटा(पदा?) न्येकोनपञ्चाशत्तन्मध्यं ब्राह्ममुच्यते ॥७०॥तद्बाह्ये देवभाग: स्यात् (दैवतं स्थानं?) तद्बाह्ये मानुषं भवेत् ।पैशाचं तद्बहिर्ज्ञेयं स्थानभेदमुदीरितम् ॥७१॥ब्राह्मे स्यादर्चनं पीठमिति बेरं (मेकबेरे?) तथा मुने ।बहुबेरप्रतिष्ठा च (ष्ठायां?) पीठिका चामरांशके ॥७२॥मानुषे परिवाराश्च पैशाचे हेतय: स्मृता: ।आसने यदि कर्तव्ये मानुषे (षं?) किंचिदाश्रयेत् ॥७३॥दैवे च मानुषे चैव कुर्वीत शयनक्रियाम् ।उक्तस्थानं विना तत्र यदि कुर्यात् प्रमादत: ॥७४॥मण्डलेशस्य राज्ञश्च स्थापकश्च (स्य) विपद्ध्रुवम् ।न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥७५॥यजमानस्य पुत्रो वा म्रियते नात्र संशय: ।दुर्भिक्षं जायते घोरं सर्वं राष्ट्रं विनश्यति ॥७६॥तस्मात् सर्वप्रयत्नेन स्थापयेत् प्रतिमादिकम् ।नित्योत्सवादिबिम्बानां स्थानं नारद कथ्यते ॥७७॥स्थापयेद्बलिबिम्बं तु कर्मार्चादक्षिणे सुधी: ।स्नानबिम्बं तु यत्नेन बलिबिम्बस्य दक्षिणे ॥७८॥उत्सवप्रतिमास्थानं कर्मार्चावामपार्श्वत: ।उत्सवप्रतिमावामे यात्रा (तीर्थ?) बिम्बस्य चैव हि ॥७९॥संस्थापयेत् क्रमेणैव देशिकस्तन्त्रवित्तम: ।अन्यथास्थापिते कर्ता महद्भयमवाप्नुयात् ॥८०॥राजा कलहमाप्नोति ग्रामश्चापि विनश्यति ।इति नित्योत्सवाद्यर्चास्थानभेद: प्रदर्शित: ॥८१॥अथ वा मूलबेरादिबिम्बानां लक्षणं श्रृणु ।मूलबेरं तु कर्मार्चा नित्योत्सवमत: परम् ॥८२॥महोत्सवं तु देवर्षे स्नपनार्चा तथैव च ।तरुणालयमित्युक्तं प्रतिमाषट्कमीरितम् ॥८३॥इत्यमीषां प्रमाणानि श्रृणु नारद सांप्रतम् ।षण्णवत्यङ्गुलायामो उत्तमस्योच्छ्रयो भवेत् ॥८४॥इत: पक्षाङ्गुलैर्हीनो मध्यमस्योच्छ्रयो भवेत् ।एकपञ्चाशदित्युक्त: अधमस्योच्छ्रयो भवेत् ॥८५॥इत्युक्तमादिबेराणामुत्सेधो त्रिविधस्त्विति ।एकबेरप्रतिष्ठायामधमं बेरमुच्यते ॥८६॥*कर्मार्चा नोत्तमं मानमुक्तं तन्मानतो भवेत्*(?) ।इति शैलमयी यत्र स्थाप्यते प्रतिमा मुने ॥८७॥एकबेरविधानेन तत्रायं विधिरुचयते ।इत्येकबहुबेराणामुक्तमुत्सेधलक्षणम् ॥८८॥उत्सेधस्यानुरूपेण कार्यं विस्तारकं मुने ।बहुबेरप्रतिष्ठायां देवीनां लक्षणं श्रृणु ॥८९॥देवस्य बाहुमूलान्तं देवीनामिति चोच्छ्रयम् ।स्तनान्तं वा मुनिश्रेष्ठ चोच्छ्रयं परिपठ्यते ॥९०॥देवीनां दक्षिणे हस्ते पद्मं मुकुलकं न्यसेत् ।पद्मं तु वामहस्ते स्यात्(चेत्?) महद्भयमवाप्नुयात् ॥९१॥राजा कलहमाप्नोति तस्माद्यत्नेन वर्जयेत् ।इत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चादेरथोच्छ्रयम् ॥९२॥चतुर्विंशतिमानं तु (-र्विंशाङ्गुलायामं?)उत्तमं विद्धि नारद ।द्वादशाङ्गुलमायामं मध्यमं बेरमेव वै ॥९३॥अष्टाङ्गुलायतं यत्तदधमं परिकीर्तितम् ।नित्योत्सवस्य बिम्बस्य द्वादशाङ्गुलमायतम् ॥९४॥अष्टाङ्गुलमथो वापि चतुरङ्गुलमेव वा ।एवं ज्ञात्वा मुनिश्रेष्ठ कारयेद्बलिकोतुकम् ॥९५॥महोत्सवस्य द्वाविंशच्चै(त्ये?)कं वा दीर्ध उच्यते ।अध्यर्धाङ्गुलहीनं वा अङ्गुलद्वयहीनकम् ॥९६॥त्रयाङ्गुलवि (अङ्गुलत्रय?)हीनं वा चोत्सवस्य महामुने ।इत ऊर्ध्वं तु(न?) कर्तव्यं हीनाधिक्यं तु नारद ॥९७॥तीर्थार्थं स्नपनार्थं चैवो (चाप्यु?) त्सवार्थं तथैव च ।मूर्त्यभावे मुनिश्रेष्ठ बिम्बेनैकेन चाप्यलम् ॥९८॥अस्य बिम्बस्य वक्ष्यामि लक्षणं श्रृणु नारद ।विंशत्यङ्गुलमानं यदुत्तमं परिकीर्तितम् ॥९९॥षोडशाङ्गुलमानं यत् मध्यमं संप्रचक्षते ।द्वादशाङ्गुलमानं यदधमं परिचक्षते ॥१००॥अत ऊर्ध्वं श्रृणुष्वान्यत् तरुणालयमुत्तमम् (बेरकम्?) ।षोडशाङ्गुलमानं यदुत्तमं बेरमुच्यते ॥१०१॥द्वादशाङ्गुलमानं यन्मध्यमं बेरमुच्यते ।अष्टसप्ताङ्गुलिर्वापि चतुरङ्गुलिरेव वा ॥१०२॥कारयेल्लक्षणोपेतमधमं परिचक्षते ।इत ऊर्ध्वं प्रवक्ष्यामि श्रृणु नारद सांप्रतम् ॥१०३॥मूलबेरादिबिम्बानां स्वरूपं मुनिसत्तम ।अष्टबाहुं चतुर्बाहुं द्विबाहुं वाथ नारद ॥१०४॥यजमानेच्छया कार्या मूलबेरादयस्त्विति ।स्थानयानासनं वापि शयनं वा प्रकल्पयेत् ॥१०५॥अत्र कश्चिद्विशेषोऽस्ति शयने मुनिसत्तम ।अनिरुद्धं तथा पद्मनाभमूर्तिमथापि वा ॥१०६॥संज्ञात्वा लक्षणोपेतं शाययेद्विधिचोदितम् ।यत् कृत्वा मूलबेरं तु द्विभुजं चेद् द्विजोत्तम ॥१०७॥कर्मार्चनादिबिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।मूलबेरं तु (च?) कर्मार्चा द्विभुजं चेन्मुनीश्वर ॥१०८॥बालादीनां तु बिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।महोत्सवस्य बिम्बस्य द्विभुजं वा चतुर्भुजम् ॥१०९॥शयनस्य मया प्रोक्तो विशेषो मुनिसत्तम ।एवमुक्तप्रकारेण प्रतिमां कारयेत् क्रमात् ॥११०॥मूलार्चा चाष्टबाहुश्चेत् कर्मार्चादिचतुर्भुजम् ।द्विभुजं यदि चेत्तत्र सर्वसंहारकारणम् ॥१११॥तस्मात् सर्वप्रयत्नेन द्विभुजं न प्रकल्पयेत् ।अष्टबाह्वोस्तु बिम्बस्य शयनं न प्रकल्पयेत् ॥११२॥तथा मत्स्यादिमूर्तीनां शयनं तु न कारयेत् ।श्रियादिविघ्नपर्यन्तमूर्तीनां च तथाविधि ॥११३॥इदं तु तव वक्ष्यामि गुह्याद्गुह्यतरं मुने ।योऽसौ नारायण: साक्षात् स हि विघ्नेश उच्यते ॥११४॥योऽसौ विघ्नेश इत्युक्त: सो हि नारायण: स्मृत: ।वासुदेवमयत्वाच्च ह्यावृतत्वान्महामुने ॥११५॥नैव जानन्ति तद्भेदं मुनयस्तत्वदर्शिन: ।इदं तु नावमं मन्ये गुह्यादेकं तु नारद ॥११६॥देवैरभिहितज्ञानं तव स्नेहात् प्रदर्शितम् ।तस्मात् श्रियं च दुर्गां च वाणीं विघ्नेशमेव च ॥११७॥स्वातन्त्र्येणार्चयेद्धीमान् सर्वकामार्थसिद्धये ।श्रियादीनां तु बोद्धव्यं लक्षणं तन्त्रवित्तमै: ॥११८॥तस्माच्छ्रियादिमूर्तीनां स्वातन्त्र्ये तु परार्थके ।उक्तमात्मार्थपूजायां पूर्ववल्लक्षणं भवेत् ॥११९॥मूलबेरस्य बाह्वन्त उत्सेधो लक्ष्मणस्य तु ।भरतस्य तथोत्सेध इति तन्त्रे विदुर्बुधा: ॥१२०॥लक्ष्मणस्यापि बाह्वन्त: शत्रुघ्नस्योच्छ्रयो भवेत् ।आत्मार्थयजनं वक्ष्ये श्रृणु नारद तत्वत: ॥१२१॥षोडशाङ्गुलमु (को?) त्सेध उत्तमं संप्रचक्षते ।मध्यमं तु तदर्धं स्यात् द्व्यङ्गुलं तु कनीयसम् ॥१२२॥सुवर्णादिकृतानां च (वा?) लेख्यानां फलकादिषु ।मानमेवं विजानीयादात्मार्थमिति कीर्तितम् ॥१२३॥उक्तोत्सेधानुरूपेण कार्यं विस्तारलक्षणम् ।सुवर्णादीनि वस्तूनि श्रृणुष्वैषां फलानि च ॥१२४॥हेमरूप्यश्च ताम्रं च रीतिशैलं च धातव: ।दारुश्च मृत्प्रश्स्तानि प्रतिमाप्रतिपादने ॥१२५॥दद्यात् सुवर्णजाप्यासां पुष्टिकीर्तिसुखं नृणाम् ।रौप्यलोहमयी सा तु सुखं सर्वत्र यच्छति ॥१२६॥ताम्रजा प्रतिमा दद्यात् पुत्रपौत्रधनं तु वे ।राजताखिलपापानि क्लेशदु:खानि निर्दहेत् ॥१२७॥शैलजा प्रतिमा साक्षात् सौभाग्यायु: सुखानि च ।दारुजा प्रतिमा दद्यात् बलारोग्ययशांसि च ॥१२८॥मृण्मयी सर्वकामानां फलदात्री विशेषत: ।इति भेदानि वस्तूनि फलान्येषां च नारद ॥१२९॥प्रतिमाकरणे प्रोक्तं (-णोक्तानि?) तव स्नेहान्महामुने ।अत ऊर्ध्वं प्रवक्ष्यामि शिलासंग्रहणं तव ॥१३०॥दारुसंग्रहणं चैव शूलस्य स्थापनं मुने ।मृत्संस्कारादि यत्सर्वमेवमाद्यं महामुने ॥१३१॥पूर्वभागे यथोद्दिष्टं तथा वै पञ्च(?) कारयेत् ।अथवा मुनिशार्दूल श्रुणुष्व प्रतिमाविधिम् ॥१३२॥पद्मोद्भवपुराणोक्तविधानेन शिलाग्रह: ।शिलाग्रहणपूर्वं यत् मृत्संस्कारान्तमेव तत्(च) ॥१३३॥विश्वकर्मविधानोक्तं शिल्पलक्षणलक्षितम् ।साधकस्याज्ञया शिल्पी कर्म कुर्यात् समाहित: ॥१३४॥सर्वलक्षणसंयुक्तं सर्वावयवशोभितम् ।सर्वाभरणसंयुक्?तं प्रभामण्डलमण्डितम् ॥१३५॥पादाद्यवयवसंयुक्?तं (-वैर्युक्?तं?) भूषणैर्मकुटेन च ।विराजमानं कुर्वीत साधक: शिल्पिना सह ॥१३६॥क्रियते दर्शनार्थं यद्भक्?तानां बिम्बमुत्तमम् ।तत्तस्य लक्षणं ब्रूहि (विप्र?) वक्?तुं सर्वं न शक्यते ॥१३७॥नारद:---देवदेव जगन्नाथ ज्ञातं सर्वं त्वयोदितम् ।छिन्धि संशयमद्य त्वं यन्मे मनसि वर्तते ॥१३८॥एकत्र स्थापितं बिम्बं किमन्यत्रोचितं न वा ।एतत् कथय मे तेन कृतार्था: स्मो वयं प्रभो ॥१३९॥विष्वक्सेन:---श्रृणु नारद वक्ष्यामि साधूक्?तं यत् त्वयाधुना ।गुह्याद्गुह्यतरं चैव न प्रकाश्यं तपोधन ॥१४० ॥पञ्चरात्रेण यत्पूर्वं (विधिना?) विमाने (नं)यत्प्रतिष्ठितम् ।तत्रार्चा यार्चनाहीना सा स्यात्तच्छास्त्रनिर्मिते ॥१४१॥अनन्यत्र (अन्यतन्त्र?)कृते धाम्नि तत्रार्चा मन्दिरान्तरे ।अन्यतन्त्रकृते न स्यादिति शास्त्रस्य निश्चय: ॥१४२॥यत्र यत्र विमाने वै एकतन्त्रप्रतिष्ठिते ।तत्र तत्र भवेदर्चा न तन्त्रान्तरसंभवा ॥१४३॥एकतन्त्रार्चिते बिम्बे मन्दिरे वा कदाचन ।तन्त्रान्तरार्चना न स्याद्यदि कुर्यान्महद्भयम् ॥१४४॥यत्र यत्र मुने नात्रा (चार्चा?) तन्त्रसंकरसंभवा ।तत्र तत्र महान् दोषो राजा राष्ट्रं च नश्यति ॥१४५॥तस्मात् सर्वप्रयत्नेन सर्वलोकहितैषिणा ।येन न स्यात्तथा कुर्यात् तन्त्रदोषसमुद्भव: ॥१४६॥नारद:---एतानि वर्जितै: सर्वै: कृतं चेत् तत्फलं प्रभो ।वर्ज्यबिम्बार्चिते (र्चने?) किं वा वदस्व वदतां वर ॥१४७॥विष्वक्सेन:---मोहाद्वाथ भयाल्लोभात् वर्जि(गर्हि?) ताभि: शिलादिभि: ।निर्मितेनैव बिम्बादीन् *अर्चयेन्नोदितैरपि* ॥१४८॥शिलाद्याभि: निषिद्धाभि: कुर्याद्वा कारयेद्यदि ।उत्सन्नं याति तद्ग्रामं बिम्बं तद्यावदास्थितम् ॥१४९॥राज्येऽपि कलहं ब्रूयात् राजाप्यत्र विनश्यति ।तस्मात् सर्वप्रयत्नेन निषिद्धं वर्जयेत् सुधी: ॥१५०॥इति संक्षेपत: प्रोक्तं प्रतिमालक्षणं तव ।अत ऊर्घ्वं प्रवक्ष्यामि परमात्मादिभेदनम् ॥१५१॥इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायांप्रतिमालक्षणादिविधिर्नाम दशमोऽध्याय:॥ N/A References : N/A Last Updated : January 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP