संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| षड्विंशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - षड्विंशोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम षड्विंशोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अत: परं प्रवक्ष्यामि ध्वजोत्थापनमुत्तमम् ।येनोपसर्गा(?)नश्यन्ति सर्वसंपत्सुखावहम् ॥१॥अध्वजो विष्णुयागस्तु निष्फल: स्यान्न संशय: ।तीर्थस्नानदिनात् पूर्वं सप्तविंशतिकेऽहनि ॥२॥एकविंशतिके वा स्यात्(वापि?) ध्वजोत्थापनमाचरेत् ।अथवारम्भदिवसे सद्य: कालोद्भवो भवेत् ॥३॥आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ।एकत्र दिवसे यागे न ध्वजोद्धार इष्यते ॥४॥अङ्कुरार्पणपूर्वं तु द्वितीयं परिकीर्तितम् ।गोपुर(-रा?) स्थानयार्मध्ये ध्वजपीठं प्रकल्पयेत् ॥५॥अथवा बलिपीठस्य वैनतेयस्य वा पुन: ।हस्तमात्रं परित्यज्य बलिपीठस्य चान्तरे ॥६॥कल्पयेद्ध्वजपीठं तु मानं तस्य प्रचक्षते(?) ।तस्यार्धं वाप्यपोह्यैव ध्वजपीठं प्रकल्पयेत् ॥७॥चतुर्हस्तं तदर्धं वा विस्तारायामत: समम् ।हस्तोच्छ्रायं द्विहस्तं वा स्थाप्य स्तम्भस्य मध्यत: ॥८॥एकहस्तं तथा भूमौ गर्तं पीठादध: शुभम् ।स्तम्भस्य परित: कुर्यात् मेखलात्रितयं बुध: ॥९॥वृत्तं वा चतुरश्रं वा षोडशाष्टाश्रमेव वा ।अन्तरादि तदुत्सेधमङ्गुलीनां यथाक्रमम् ॥१०॥मेखलोच्छ्रायमायाममेकैकं चतुरङ्गुलम् ।तालमात्रं विसृज्यैव वेदिकायां समन्तत: ॥११॥पश्चात्तु मेखला: सम्यक् कारयेन्मन्त्रवित्तम: ।मेखलानामथोर्ध्वे तु वृत्तवेदिं समाचरेत् ॥१२॥चतुरङ्गुलमुत्सेधं तदूर्ध्वेऽब्जदलं(पद्मकं?)लिखेत् ।षोडशद्वादशं वापि चाष्टपत्रमथापि वा ॥१३॥द्व्यङ्गुलं तु घनं ज्ञेयं कर्णिकासहितं मुने ।त्र्यङ्गुलं तु तदुत्सेधं द्व्यङ्गुलं तद्घनं भवेत् ॥१४॥इति पद्मदलं (-विधि:?) प्रोक्त उत्तमाधममध्यत: ।स्तम्भस्य परित: कुर्यात् सर्वालंकारसंयुतम् ॥१५॥एवमुक्तप्रकारेण ध्वजपीठं प्रकल्पयेत् ।पूर्वं वाप्यथवा पश्चात् कल्पयेत् पीठमुत्तमम् ॥१६॥अन्यथा यदि चेद्वेदिमनर्थमशुभावहम् ।तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ॥१७॥ध्वजस्तम्भं प्रवक्ष्यामि विविक्तेन महामुने ।चन्दनं चम्पकं वापि बिल्वमर्जुनमेव च ॥१८॥तेकवृक्षं च खदिरं सालं तिन्दुकमेव च ।चम्पकं चाष्टकं चैव क्रमुकं नालिकेरकम् ॥१९॥तालं वेणुं तथैवात्र संभवेन तु कारयेत् ।शततालार्धमर्धं च मुख्यमध्याधमं क्रमात् ॥२०॥अशीतितालमिच्छन्ति केचित्तस्यार्धमेव वा ।गोपुराकृतितुल्यं स्यात् स्तम्भमध्यर्धमेव वा ॥२१॥स्तम्भप्रमाणमथवा तुल्यमध्यर्धमेव वा ।प्रासादेन समुच्छ्रायं सुषिरादिवि?वर्जितम् ॥२२॥त्रिंशदङ्गुलनाहं तु मूलदण्डस्य नारद ।मध्यमं चाष्टविंशत्(?)तदग्रं षड्विंशकं भवेत् ॥२३॥सच्छिद्रयन्त्रत्रियते ह्यधस्ताद्गरुडालयम् ।लोहं दारुमयं वापि गरुडं तत्र योजयेत् ॥२४॥देवाभिमुखमासीनमल्पकायं कृताञ्जलिम् ।षोडशाङ्गुलकं वापि द्वादशाङ्गुलकं तथा ॥२५॥अष्टाङ्गुलमथ ज्ञात्वा कल्पयेद्गरुडं मुने ।तथा वा फलकं (-कां?)कृत्वा यथाकामं मुनीश्वर ॥२६॥तन्मध्ये गरुडं लिख्य स्वस्थाने विनतासुतम् ।योजयित्वा तत: खेशं स्थापयेत् स्वस्वमन्त्रत: ॥२७॥वेदिकोपरि मन्त्रज्ञ: सुप्रपां परिकल्पयेत् ।दर्भमालासमायुक्तं मुक्तादामसमन्वितम् ॥२८॥प्रपायां पूर्वभागादि पताकास्तत्र योजयेत् ।दशहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥२९॥अन्यामष्टकरां यष्टिं स्तम्भे यन्त्रेषु योजयेत् ।पटस्य लक्षणं तस्मिन् विशेषं कथय मि ते ॥३०॥श्रृणुष्वावहितो भूत्वा सर्वसंपत्सुखावहम् ।द्वादशं(!)दशहस्तं वा नवसप्तपटं भवेत् ॥३१॥आयाममिति संप्रोक्तं विस्तारमधुनोच्यते ।षट्सप्ततालविस्तारं द्वा[र]विस्तारमुच्यते ॥३२॥पुच्छायामं द्वितालं स्यात्तत्समं शिर उच्यते ।शिरसा तु समौ ज्ञेयौ भूजौ तस्यार्धमेव वा ॥३३॥भुजद्वयविहीनं वा पटमेतद्विशिष्यते ।क्षुद्रप्रासादरूपं चेत् नवसप्तपटं भवेत् ॥३४॥नवहस्ताच्च नू(न्यू?)नं वै महागेहे तु नेष्यते ।यो मोहात् कुरुते ?तस्मिन् क्रिया भवति निष्फला ॥३५॥आलिखेद्गरुडं तत्र सुवर्णाभं सुवर्चसम् ।ध्रुवदृग्गलनाभ्यन्तं गरुडेत्सेधमिष्यते ॥३६॥नवतालपरिच्छिन्नं मानोन्मानप्रमाणत: ।किञ्चिदायतवृत्ताक्षं रक्ताक्षं नीलनासिकम् ॥३७॥उत्कु?ञ्चितं वामपादं दक्षिणं पृष्ठत: स्थितम् ।गगने गमनारम्भं पक्षविक्षेपणान्वितम् ॥३८॥पुष्पाञ्जलिपुटोपेतं रौद्रं च विनतासुतम् ।नागाभरणसंवीतं स्मितास्यं कनकाङ्गदम् ॥३९॥करण्डमकुटं नीलवाससं प्रियदर्शनम् ।सुरक्तपाण्यङ्घ्रितलं दंष्ट्राभ्यामुज्ज्वलाननम् ॥४०॥अनन्तो वामकटको यज्ञसूत्रं तु वासुकि: ।तक्षक: कटिसूत्रं तु हार: कर्कोटकस्तथा ॥४१ १ ।पद्मो दक्षिणकर्णे तु महापद्मस्तु वामत: ।शङ्ख्?ा: शिर: प्रदेशे तु गुलिकस्तु भुजान्तरे ॥४२॥एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमै: ।अनन्तगुलिकौ विप्रौ रक्तौ वह्निसमुद्भवौ ॥४३॥वासुकि: शङ्खपालश्च पीतौ चन्द्रोद्भवौ नृपौ ।महाक्ष(-ब्ज?) तक्षकौ वेश्यौ शुक्लौ वारिसमुद्भवौ ॥४४॥पद्मकर्कोटकौ शूद्रौ कृष्णौ वायुसमुद्भवौ ।लिखित्वा गरुडं तत्र छत्रं चोपरि कल्पयेत् ॥४५॥अथोऽमृतस्य कलशं पद्मं चैवात्र संलिखेत् ।ताभ्यामुभयत: कुर्यात् दीपौ द्वौ शुभदर्शनौ ॥४६॥चित्राभासप्रतिष्ठां तु कारयेन्मन्त्रवित्तम: ।छायाधिवासनं कुर्यात् जलं संहृत्य देशिक: ॥४७॥शाययित्वा ततो वेद्यां संहृत्योत्पाद्य तत्त्वत: ।धान्यराशिं विनिक्षिप्य वेदिमध्ये समन्तत: ॥४८॥वेदिकाकलशेष्वष्टावनन्तादीन् प्रपूजयेत् ।शङ्खादिमङ्गलानां तु विन्यसेत् परित: क्रमात् ॥४९॥पूर्वे शङ्खं नियुञ्जीत आग्नेये चक्रमेव च ।याम्ये तु विन्यसेत् केतुं श्रियं वै नैरृते तथा ॥५०॥दर्पणं वारुणे भागे वृषभं वायुगोचरे ।सोमे तु मत्स्ययुग्मं तु कुम्भमीशानगोचरे ॥५१॥एवं तु मङ्गलान्(?)न्यस्य पूर्वादिक्रमयोगत: ।पूजयेत् कलशेष्वष्टमङ्गलानि यथाक्रमम् ॥५२॥वासोभिर्वेष्टितेष्वेषु निक्षिप्तकनकेषु च ।वासांसि मध्ये संस्तीर्य गरुडं तत्र शाययेत् ॥५३॥प्रत्यग्ग्रीवं ततो वस्त्रै: संच्छाद्य पतगेश्वरम् ।तस्य दक्षिणत: कुम्भं विन्यसेत्तण्डुलोपरि ॥५४॥वारिपूर्णं सुसंवीतं सदशेनाहतेन तु ।शुक्लेनाम्बरयुग्मेन मृदुना सुशुभेन च ॥५५॥सरत्नं हेमसंयुक्तं सापिधानं सकूर्चकम् ।तस्मिन्नावाहयेद्देवं गरुडं विनतासुतम् ॥५६॥आवाहनविधिं सम्यक् प्रवक्ष्यामि महामुने ।सौवर्णं राजतं पात्रं ताम्रं मृण्मयमेव वा ॥५७॥आढकेन तु संपूर्णं पयोभिर्वारिभिस्तु वा ।तत्पात्रे देवमावाह्य आकाशान्मन्त्रवित्तम: ॥५८॥एह्येहि खगराजेन्द्र वैनतेय महाबल ।सांनिध्यं पार्षदै: सार्धं कुरु तुभ्यं नमो नम: ॥५९॥तत्पात्रपतितं देवमानयेत् कुम्भतोयके ।मूलमन्त्रेण मन्त्रज्ञस्तन्मन्त्रमधुनोच्यते ॥६०॥ओं नमोऽष्टकुलनागभूषणाय वैनतेयाय ।नागशोणितदिग्धाङ्गाय सुपर्णाय सप्तपातालवासिनेपक्षिराजाय भगवद्वाहनाय गरुडाय त्रैलोक्यक्षोभणायब्रह्मादिचतुरक्षरानुसाराय(?)युगान्तबीजाय मातुरर्थे(?)शोकनाशाय हनहन(?)विघ्ननाशाय स्वाहा ।अनेन तु स्वमन्त्रेण स्तुत्वा तु विहगेश्वरम् ।सांनिध्यं कल्पयेत्तत्र पक्षिराजस्य सर्वदा ॥६१॥एवमाहूय गरुडं ध्वजमुद्रां प्रदर्शयेत् ।वामस्योपरि संस्थाप्य दक्षिणं तु करं समम् ॥६२॥अङ्गुष्ठं चालयेत्तत्र ध्वजमुद्रां प्रदर्शयेत् ।एवं मुद्रां प्रकुर्वीत गरुडं सर्पभूषणम् ॥६३॥गन्धादिभि: समभ्यर्च्य धूपदीपान्तमेव हि ।तत: पटगतं बिम्बं शयानं गरुडस्य तु ॥६४॥लयमार्गेण संहृत्य पुनरुत्पादयेत् क्रमात् ।पृथिव्यादिनि तत्त्वानि बीजादीने यथाक्रमम् ॥६५॥सवाचकानि विन्यस्य मन्त्रदेहं प्रकल्पयेत् ।सकलीकरणं कृत्वा ध्यानमार्गेण देशिक: ॥६६॥कुम्भस्थितेन तोयेन प्रोक्षयेत्तं स्वविद्यया ।पूर्वादिकलशस्थाद्भिरनन्तादीन् स्वनामभि: ॥६७॥प्रणवादिनमोन्तैश्च कुशै: संप्रोक्षयेत् क्रमात् ।सांनिध्यं प्रार्थयित्वा तु यावद्यागावसानकम् ॥६८॥तत: संपूजयेत् सर्वैरुपचारै: खगेश्वरम् ।घृताप्लुतं तु मुद्गान्नं नैवेद्यं परिकल्पयेत् ॥६९॥मुखवासं प्रदायाथ होमकर्म समारभेत् ।स्थण्डिलं तु चतुर्दिक्षु कृत्वा तत्र विधानत: ॥७०॥वैष्णवाग्निं निधायात्र होमकर्म समारभेत् ।समिदाज्येन चरुणा प्रत्येकं शतमष्ट च ॥७१॥आहुतीर्जुहुयुर्विप्राश्चत्वार: सममेव तु ।दीक्षिता एव जुहुयु: सोत्तरीया: स्वलंकृता: ॥७२॥चतस्रो मूर्तय: प्रोक्ता: पक्षिराजस्य देशिकै: ।स्वाहान्तं जुहुयु: सर्वे मूर्तिपा: मूर्तिभाविता: ॥७३॥एवं समाप्य होमं तु स्पृशेयुस्ते खगेश्वरम् ।पादयोर्जठरे चास्ये मूर्ध्नि चैव यथाक्रमम् ॥७४॥अथवा मूलमन्त्रेण होममेकं तु वा मुने ।प्राचीं दिशं समासाद्य कारयेत्तन्त्रवित्तम: ॥७५॥विना होमं तु वा कुर्याद्गरुडस्थापनं मुने ।ध्वजादन्यत्र कर्तव्यं चतुर्होमं यथाक्रमम् ॥७६॥एवं समाप्य होमं तु स्थापनं गरुडस्य च ।अथवास्मिन् मुनिश्रेष्ठ अधिवासनमुत्तमम् ॥७७॥प्रवक्ष्यामि समासेन सुपुण्याहपुर:सरम् ।पुण्याहं कारयित्वा तु ब्राह्मणै: सह मन्त्रवित् ॥७८॥बन्धयेत् कौतुकं पश्चाद्वैनतेयस्य मन्त्रत: ।वेदिकोपरि धान्यैश्च पूरयेद्भारसंमितै: ॥७९॥अष्टपत्रं लिखेत् पद्मं वस्त्रेणाच्छादयेत् पुन: ।तदर्धं तण्डुलं चैव तस्यार्धं तिलमेव च ॥८०॥वेदिकायां तु संस्तीर्य वस्त्रैराच्छादयेत् पुन: ।रक्तपुष्पं तु संस्तीर्य गन्धपुष्पै: समर्चयेत् ॥८१॥तत्रैव शाययेद्देवं पूर्वोक्तेन विधानत: ।अर्चयेद्गरुडं तत्र धूपदीपान्तमेव हि ॥८२॥देवस्य दक्षिणे पार्श्वे स्थापयेत् कुम्भमुत्तमम् ।तस्मिन्नावाहयेत् कुम्भे वैनतेयं महाबलम् ॥८३॥आकाशात् पतितं खेशं ध्वजरूपे हि संस्थितम् ।एहि खेश महाबाहो वैनतेय महाबल ॥८४॥सांनिध्यं कुरु पक्षीश प्रसीदात्र नमोऽस्तु ते ।अनेनावाहयित्वा तु मन्त्रेणैव तु देशिक: ॥८५॥गन्धपुष्पादिभिर्द्रव्यै: वीशं कुम्भे ततोऽर्चयेत् ।ततस्तु कलशानष्टौ कुम्भस्य परितो न्यसेत् ॥८६॥इन्द्रादीशानपर्यन्तमिन्द्रादींश्च क्रमान्न्यसेत् ।कलशेष्वर्चयित्वा तु लोकेशान् गन्धपुष्पकै: ॥८७॥तद्बाह्ये विन्यसेदष्टमङ्गलान्(!) परितस्तथा ।अर्चयित्वा ततो होमं प्राच्यां च स्थण्डिले क्रमात् ॥८८॥समिदाज्यचरून् सम्यग् अष्टोत्तरशतं पृथक् ।जुहुयाद्वैनतेयस्य मूलमन्त्रेण देशिक: ॥८९॥प्रणवं पूर्वमुच्चार्य नमस्कारं तत: क्रमात् ।चतुर्विंशतिकं पश्चात् व्यञ्जनं तु तृतीयकम् ॥९०॥स्वरेणाद्येन संयुक्तमूनत्रिंशत्तथैव च ।षोडशं चोच्चरेत् पश्चात् स्वरेणैकादशेन च ॥९१॥वैनतेयपदं पश्चात् चतुर्थ्यन्त समन्वितम् ।स्वाहाकारसमायुक्तं मूलमन्त्रं विदुर्बुधा: ॥९२॥होमं समाप्य विधिवत् कुम्भादावाहयेत् पटे ।तं पटं प्रोक्षयित्वा तु हंस: शुचिषदि त्यृचा ॥९३॥मूलमन्त्रेण चावाह्य गरुडं सर्पभूषणम् ।तद्रात्रौ विधिवत् प्रोक्ष्य पूजयेद्गन्धपुष्पकै: ॥९४॥सक्तुखण्डरसोपेतं(-तै:?) मुद्गान्नैश्च गुलौदनै: ।भक्ष्यैश्च विविधैश्चान्यै: पूजयेत्तं खगेश्वरम् ॥९५॥मुखवासं ततो दद्यात् स्तुतिमन्त्रेण तोषयेत् ।पूर्वादीशानपर्यन्तमिन्द्रादींश्चैव पूजयेत् ॥९६॥नेष्यतेऽस्मिन् मुनिश्रेष्ठ प्रलयादिक्रियाक्रम: ।द्विप्रकारो मया प्रोक्तो अधिवासविधिक्रम: ॥९७॥आचार्येच्छानुरूपेण कारयेदेकधाऽत्र तु ।ततस्तु देवताह्वानं स्वस्वमन्त्रेण तन्निशि ॥९८॥कारयेन्मुनिशार्दूल जगत्संरक्षणार्थकम् ।प्रासादस्याग्रभागे तु गरुडाभिमुखं यथा ॥९९॥द्रोणद्वयेन संपूर्णं सतोयं रक्तवर्णकम् ।त्रिसूत्रं तन्तुनावेष्ट्य पञ्चरत्नै: सपल्लवै: ॥१००॥कूर्चद्वयसमायुक्तं रक्तमाल्यैरलंकृतम् ।वस्त्रयुग्मेन संवेष्ट्य गन्धपुष्पैस्तु पूरितम् ॥१०१॥एवं लक्षणसंयुक्ते कुम्भे चावाहयेद्बुध: ।इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥१०२॥वायुं सोमं तथेशानं चन्द्रादित्यमरुद्गणान् ।वसूनष्ट तथा रुद्रानेकादश विनायकम् ॥१०३॥कार्तिकेयं वीरभद्रं द्वादशादित्यसंज्ञकान् ।त्र्यक्षं पञ्चमुखं देवं नीलकण्ठमुमापतिम् ॥१०४॥भूतेशांश्च तथा सर्वान् सगणानाह्वयेत्तत: ।मातॄश्चैव तथा दुर्गां ज्येष्ठां चैव सरस्वतीम् ॥१०५॥कान्तिं शान्तिं शुचिं मुद्रामुमां लक्ष्मीं तथैव च ।सगणै: परिवारैश्च तान् नयेत् कुम्भतोयके ॥१०६॥ततस्त्वावाहयेद्देवान् कुमुदादींश्च नारद ।तेषां च परिवाराणि प्रयत्नेनानयेद् घटे ॥१०७॥इन्द्रादीशानपर्यन्तमावहेत् कुम्भतोयके ।कुंभ्?ातोयस्थदेवानामर्चनं गन्धपुष्पकै: ॥१०८॥धूपदीपै: समाप्येवं घण्टाशब्दसमन्वितम् ।हविर्निवेदयेत् पश्चात् सर्वदेवप्रियार्थकम् ॥१०९॥अन्यथाकृततुल्यं स्यात् महान् दोषो भविष्यति ।तद्ग्रामनाशकृद्वापि तत्रस्थो नरकं व्रजेत् ॥११०॥तस्मात् सर्वप्रयत्नेन तत्कुम्भे पार्षदान् न्यसेत् ।मण्डपे चैन्द्रभागे तु चतुर्हस्तप्रमाणत: ॥१११॥गोमयेन समालिप्य शालिना वेदिमाचरेत् ।अष्टद्रोणं तदर्धं वा तस्यार्धं वार्धमेव वा ॥११२॥पूरयेत् स्थण्डिले मध्ये चाष्टपत्राब्जमालिखेत् ।नववस्त्रेण संछाद्य पद्मं प्रणवमुच्चरन् ॥११३॥दक्षिणादिक्रमेणैव शाययेद्दक्षिणाशिर: ।तन्मध्ये भेरिकां न्यस्य नवं लक्षणसंयुतम् ॥११४॥उत्तर्योष्णीषसंयुक्त आचार्यो मन्त्रवित्तम: ।पश्चिमाभिमुखो भूत्वा तां भेरीं पूजयेत् क्रमात् ॥११५॥गन्धादिभि: समभ्यर्च्य हरिं स्मृत्वादिमन्त्रत: ।यावद्रात्र(-त्र्य?)वसानं तु तावत्तन्निशि ताडयेत् ॥११६॥पश्चात् पञ्चमहाशब्दं नृत्तगीतसमन्वितम् ।उत्तर्योष्णीषसंयुक्तो *यामलाचार्यत: *क्रमात् ॥११७॥कारयेत् सर्वपार्षद्यान् वैनतेयादिकान् क्रमात् ।एवं संघोषयित्वा तु *यामलाचार्यसंयुतम्* ॥११८॥रात्रान्तकं(आरात्र्यन्तं?)विशेषेण सर्वदेवप्रियार्थकम् ।कुर्यात् पञ्चमहाशब्दं सदा शुभविवर्धनम् ॥११९॥ग्रामराज्ञोश्च वृद्धि: स्यात् तथैव नगरादिषु ।तस्मात् सर्वप्रयत्नेन भेरीं तां निशि ताडयेत् ॥१२०॥अन्यथा चेन्महादोषो राष्ट्रभ्रंशो भवेद्ध्रुवम् ।तद्ग्रामं निधनं यति व्याधिभि: पीडनं ध्रुवम् ॥१२१॥एवं कृत्वा विधानेन ध्वजोत्सवमथाचरेत् ।तत: प्रभाते विमले शङ्खभेरीरवाकुलम् ॥१२२॥सर्वालंकारसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।परिभ्रमणवेलायां बलिं कुर्यात् समाहित: ॥१२३॥सलाजं रजनीचूर्णं क्षीरं दधिसमन्वितम् ।पूर्वमिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्रैव पूजयेत् ॥१२४॥नालिकेरफलं चैव पञ्चद्रव्यसमन्वितम् ।बल्यन्नमेतै: संयोज्य बलिदानं तु चोत्सवे ॥१२५॥क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ।ध्वजोत्थानं दिवा कुर्याद्रात्रावाहनमेव च ॥१२६॥स (तद्?)ध्वजे देवताह्वानं मध्याह्ने तु विशेषत: ।आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ॥१२७॥हविषा बलिदानं तु कृत्वा द्वाराग्रपीठयो: ।मध्ये हस्तसमां वेदिं मध्ये देवान् समर्चयेत् ॥१२८॥आरम्य बलिदानं तु कुर्याद्ग्रामादिवास्तुषु ।इन्द्रादि ब्रह्मपर्यन्तं दिग्विदिक्षु क्रमान्न्यसेत् ॥१२९॥तत्कुम्भे देवमावाह्य तत्तोयेन समर्चयेत् ।पूर्वादिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्र सुपूजयेत् ॥१३०॥ततस्तु गणसंयुक्तं कृत्वा ग्रामादिवास्तुषु ।कुमुदादींश्च देवांश्च पूजयेत्ताननुक्रमात् ॥१३१॥आचार्यो धौतवासास्तु उत्तराभिमुख: स्थित: ।गन्धपुष्पादिनाभ्यर्च्य ऐन्द्राद्यैशान्तकादिषु ॥१३२॥तेषां नाम समुच्चार्य बलिं दद्याद्विचक्षण: ।यावद्यागावसानं तु तिष्ठन्ति बलिदेवता: ॥१३३॥अत्र कश्चिद्विशेषोऽस्ति देवतानां बलिक्रमे ।ध्वजारोहणकाले वै चोत्सवेषु विशेषत: ॥१३४॥यागावसानं यावत्तु तावदैन्द्रादिकान् मुने ।यावल्लक्ष्म्यवसानं तु मध्याह्ने क्रमयोगत: ॥१३५॥पूजयेद्गन्धपुष्पाद्यैर्हविषा वेदिमध्यमे ।बलिं दद्याद्यथालब्धं मध्याह्ने रात्रिषु क्रमात् ॥१३६॥तेषां तु बलिकार्याणि विष्णो: प्रीतिकरं शुभम् ।अङ्कुरोत्सवकालान्ते उत्सवार्थं महामुने ॥१३७॥कारयेद्यागसिद्ध्यर्थं यागमण्डपपूजनम् ।तत्पूजान्ते मुनिश्रेष्ठ होमं कुर्याद्यथाविधि ॥१३८॥होमान्ते कुमुदादीनामारभ्य बलिमाचरेत् ।यावत्तीर्थावसानं तु तावद्ग्रामादिवास्तुषु ॥१३९॥अन्यथावाहनबलिर्ध्वजयागे कृतो भवेत् ।ध्वजयागविनाशेन उत्सवो निष्फलो भवेत् ॥१४०॥उत्सवस्य विनाशेन नित्यपूजा च निष्फला ।नित्यपूजाविनाशस्तु सर्वसंहारकारणम् ॥१४१॥तस्मात् सर्वप्रयत्नेन आवाहनबलिं कुरु ।आनीय गरुडं वेश्म कृत्वा चैव प्रदक्षिणम् ॥१४२॥स्मृत्वा कालविधिं पश्चात् कृत्वा पुण्याहघोषणम् ।पीठस्य याम्यपार्श्वे तु ध्वजदण्डं तु शाययेत् ॥१४३॥तदग्रं दक्षिणे स्थाप्य मूलमुत्तरतो न्यसेत् ।विमाने पश्चिमद्वारेऽप्युत्तरे शाययेद्गुरु: ॥१४४॥दक्षिणद्वारमेवं चेत्(-के चेत्तु?)ध्वजस्तम्भं महामुने ।पीठस्य पूर्वपार्श्वे तु शाययेदैन्द्रशीर्षकम् ॥१४५॥तन्मूलमवटे न्यस्य मूलमन्त्रमनुस्मरन् ।उत्तरद्वारमेवं स्यात्(?)तद्ध्वजारोहणं प्रति ॥१४६॥अन्यथा चेन्महादोषो ग्रामराज्ञोरवृद्धिकृत् ।दिने दिने मुनिश्रेष्ठ धर्ममार्गो विनश्यति ॥१४७॥तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।महाकुम्भस्थतोयेन स्तम्भं प्रक्षाल्य मन्त्रत: ॥१४८॥तद्ध्वजं तु समादाय प्रोक्षयेन्मन्त्रवित्तम: ।मूलमन्त्रेण मतिमान् ध्वजयष्ट्या(-ष्टिं?)तु बन्धयेत् ॥१४९॥निश्चलं स्थापयित्वा तु ध्वजदण्डेन चोद्धरेत् ।यन्त्रेण चोद्धरेद्वापि रज्जुना सह देशिक: ॥१५०॥वेदिं कुर्यात्तु पूर्वोक्तां लक्षणेन समन्विताम् ।वेदिकां तु समालिप्य कृत्वा च स्वस्तिवाचनम् ॥१५१॥यष्ट्यग्राद्दण्डमूलान्तं दर्भानावेष्ट्य साधक: ।दर्भमालादिनावेष्ट्य दण्डमूलान्तमेव हि ॥१५२॥पाद्याचमनगन्धं च पुष्पं धूपं तथैव च ।दीपं चैव यथायोगं घण्टानादसमन्वितम् ॥१५३॥अर्चयेद्गरुडं चैव चरुं पश्चान्निवेदयेत् ।फलसक्तुसमोपेतं मुद्ग्रान्नं च घृताप्लुतम् ॥१५४॥पृथक् पात्रे तु संस्थाप्य गरुडाय निवेदयेत् ।पानीयाचमनं दत्वा मुखवासं तथैव च ॥१५५॥एवमभ्यर्च्य गरुडं सर्वदेवप्रियं शुभम् ।दिक्पालान्तमनाद्यन्तं परिवारमथार्चयेत् ॥१५६॥ततस्तु लोकपालांस्तु पूजयेद्वेदिकाधरे ।पूर्वादिक्रमयो?गेन स्वनाम्ना परिपूजयेत् ॥१५७॥एवं दिने दिने कुर्यात् सन्ध्ययोरुभयोरपि ।निवेदितं च यद्द्रव्यमन्नं पुष्पं फलं तथा ॥१५८॥तत्पिण्डमिति विज्ञेयं स्त्रीणां चैव प्रदापयेत् ।सुमङ्गली च नारी च सती शुद्धा शुभव्रता ॥१५९॥तत् प्रसादमिति स्मृत्वा स्नात्वोपोष्य शुभानना ।प्राशयेद्गरुडं ध्यात्वा वन्ध्या पुत्रं प्रसूयते ॥१६०॥रोगार्तो मुच्यते रोगात् बद्धो मुच्येत् बन्धनात् ।भयान्मुच्येत आपन्न: सम्यग् ज्ञानमवाप्नुयात् ॥१६१॥आवाहनार्थं देवानां गरुडं तु पटे न्यसेत् ।तत्पटे सर्वदेवांश्च आह्वयेत्तु दिने दिने ॥१६२॥लोहं दारुमयं बिम्बं विना वा स्थाप्यते ध्वजम् ।यदि ध्वजपटे बिम्बं गरुडस्य कृतं भवेत् ॥१६३॥पताकाध्वजसंयुक्तं कृत्वा चित्रमपि ध्वजम् ।उपरि प्रतिमां कृत्वा स्थापयेद्देशिकोत्तम: ॥१६४॥[समाप्ते वैष्णवे यागे स्नपनान्ते यथाविधि ।रात्रौ भूतबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ॥१६५॥कारयेत् पुष्पयागं तु यथाविधिपुर:सरम् ।(*पुष्पयागविधि: प्रोक्तो मया शक्र विधानके ॥१६६॥तद्वन्मण्डलमालिख्य तद्विधानेन पूजयेत्* ।)पुष्पयागविधिं वक्ष्ये समासान्मुनिपुङ्गव ॥१६७॥देवेशयजनं यत्तु मण्डले पुष्पपूरिते ।पुष्पयाग इति प्रोक्त उत्सवान्ते तु कारयेत् ॥१६८॥प्रासादाग्रेऽथवा याम्ये वारुणे सौम्यकेऽथवा ।पूर्वोक्तमण्डपं कृत्वा मण्डपे तु समालिखेत् ॥१६९॥विनोदमण्डपे वाथ यत्र वा रमते मति: ।मण्डलं तु महानन्तं चक्राब्जं च तथैव च ॥१७०॥भद्रकं वाथ विधिवत् सूत्रपातं तथा भवेत् ।एकहस्तं द्विहस्तं वा गर्भगेहसमं तु वा ॥१७१॥चतुरश्रं समं कृत्वा सूत्रेणैव तु देशिक: ।एकविंशतिसूत्राणि प्राक्प्रत्यग्दक्षिणोत्तरम् ॥१७२॥आस्फालयेद्भवन्त्यत्र कोष्टकानि चतु:शतम् ।मध्ये षोडशकोष्ठानि पद्मक्षेत्रमुदाहृतम् ॥१७३॥बहि: पङ्क्तिं विसृज्याथ त्रिपङ्क्तिं ग्राहयेत्तत: ।पादगात्रकभेदेन विमृजेत् परित: क्रम त् ॥१७४॥अन्त: षट् च बहि: षट् च मध्ये तु चतुरश्रकम् ।विसृजेत्तु चतुर्दिक्षु गात्रार्थं तु विचक्षण: ॥१७५॥अन्त: षट् च बहि: पञ्च कोणपादार्धमाचरेत् ।पङ्क्तिद्वयं तु तद्बाह्ये वीथ्यर्थं परितो मृभेज् ॥१७६॥द्वारकण्ठोपकण्ठं च शोभां बाह्यपदद्वये ।अन्तर्द्वे चतुरो बाह्ये द्वारार्थं तु चतुर्दिशि ॥१७७॥त्रीण्यन्तर्बहिरेकं स्याद्विपर्यासेन मार्जयेत् ।अन्तरेको बहि: पञ्च कोणेषु परिमार्जयेत् ॥१७८॥मण्डलं भ्रामयेत् क्षेत्रं पद्मार्थं तु पुरोदितम् ।पद्मक्षेत्रार्धमानं तु भागं द्वादशमं (-कं?) बहि: ॥१७९॥विसृज्य भ्रामयेच्छीर्षं त्वरक्षेत्रं तु वर्तलम् ।प्रथमं कर्णिकाक्षेत्रं केसराणां द्वितीयकम् ॥१८०॥तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।आस्फल्य कोणसूत्राणि कोणदिङ्मध्यमं तत: ॥१८१॥केसराग्रेषु संस्थाप्य दलान्तं भ्रामयेत्तत: ।दलान्तरालमानं तु सन्धौ सूत्रं तु विन्यसेत् ॥१८२॥दलाग्रं भ्रमयेत्तत्र तस्याग्रां तदनन्तरम् ।एतत् साधारणं प्रोक्तं चक्राब्जं तु तत: श्रृणु ॥१८३॥द्विषट्काङ्गुलमानेन अक्षक्षेत्रं परिभ्रमेत् ।अक्षक्षेत्रसमा नाभि: बाह्यरेखाद्वयं लिखेत् ॥१८४॥एकाङ्गुलप्रमाणेन अरक्षेत्रं ततो बहि: ।पद्मं पूर्वोक्तवत् कुर्यात् कर्णिकाकेसरैर्युतम् ॥१८५॥अरक्षेत्रस्य विस्तारं नाभ्यक्षक्षेत्रयो: समम् ।नेमिक्षेत्रान्तवलयमक्षक्षेत्रार्धकं भवेत् ॥१८६॥अराणि कारयेत्तत्र द्वौ द्वौ कुर्याद्दलं प्रति ।अरक्षेत्रं त्रिधा कृत्वा गुणत्रयविधानत: ॥१८७॥प्रथमं सात्त्विकं चैव द्वितीयं राजसं भवेत् ।तृतीयं तामसं चैव समं कुर्याद्द्विजोत्तम ॥१८८॥सात्त्विकं कलशाकारं दूर्वाकारं तु राजसम् ।तामसं को(कू?)र्पराकारं पीठाकारं तथोपरि ॥१८९॥प(पी?)ठस्य पृष्ठतश्चापि मणिबन्धवदाचरेत् ।अधोवक्त्रं तु कलशं नाभिक्षेत्रं तु मध्यमम् ॥१९०॥शिखाकारमरान्तं स्याच्छेषमिच्छानुरूपत: ।एवमेव प्रकारेण चक्रब्जं परिभाषितम् ॥१९१॥मण्डलं पूरयेत् पुष्पै: कर्णिकादि यथाक्रमम् ।पञ्चवर्णानि पुष्पाणि पुष्पयागे शुभानि तु ॥१९२॥श्वेतं रक्तं च पीतं च कृष्णं हरितमेव च ।शुद्धवर्णानि चैतानि मिश्रितान्यपराणि च ॥१९३॥पुष्पेषु पुष्पवर्गेषु छेदयित्वा विचक्षण: ।पीतेषु कर्णिकां पूर्य रक्तं वै केसराणि च ॥१९४॥कर्णिकावलयं रक्तं हरितं वा द्विजोत्तम ।केसरान्ते च वलयं श्वेतपुष्पेण पूरयेत् ॥१९५॥दलेषु मूलभागेषु श्वेतरक्तविमिश्रितै: ।दलाग्रान् रक्तपुष्पेण पूरयेद्देशिकोत्तम: ॥१९६॥दलानां सन्धिदेशे तु श्यामपुष्पेण पूरयेत् ।दलान्तरेखां विप्रेन्द्र कुसुमैर्हरितेन च ॥१९७॥पूरयेन्नाभिरेखां च सितै: पुष्पैर्मनोरमै: ।मध्यरेखां मुनिश्रेष्ठ पीतपुष्पेण पूरयेत् ॥१९८॥अन्ता रेखास्तु मन्त्रज्ञ: कुसुमै रक्तकैसतथा ।अरं चोत्तररेखां वै हरितै रक्तकैस्तथा ॥१९९॥नेम्यादिरेखां कृष्णेन नेम्यन्तं(न्तां?)सितपुष्पकै: ।नेमिं रक्तेन पूर्याथ पीतपुष्पेण वा द्विज ॥२००॥पुष्पमण्डलमुद्दिष्टं पुष्पयागे विशेषत: ।एवं लक्षणसंयुक्तं चक्राब्जं कारयेत् सुधी: ॥२०१॥ध्वजारोहादिजीर्थान्तं प्रायश्चित्तं तु यद्भवेत् ।तस्य दोषविघातार्थं पुष्पयागं च कारयेत् ॥२०२॥प्रासादस्याग्रत: कुर्याद्दक्षिणे पश्चिमेऽपि वा ।उत्तरे वा द्विजश्रेष्ठ मण्डपं पूर्ववत् क्रमात् ॥२०३॥तस्य मध्ये लिखेद्विद्वान् चक्राब्जं लक्षणान्वितम् ।द्वारे द्वारे तु घटिका द्वे द्वे चैव तु विन्यसेत् ॥२०४॥शरावं विन्यसेत्तद्वत् पूर्वादिषु यथाक्रमम् ।ऐन्द्राद्यैशानपर्यन्तं पालिका विन्यसेत् क्रमात् ॥२०५॥तत्पार्श्वे मङ्गलान् न्यस्य(?)शङ्खादींश्च यथाक्रमम् ।मण्डलं पूरयेत् पुष्पै: कर्णिकादि यथाक्रमम् ॥०६॥प्राच्यादिदिक्चतुष्केषु वासुदेवादिकान् यजेत् ।श्रियादीन् कोणदेशेषु न्यसेत् पद्मोपरि क्रमात् ॥२०७॥इन्द्रादिपरिवारांश्च दिक्षु चैव यथाक्रमम् ।विष्वक्सेनं गरुत्मन्तं यजेत्तत्रैव संनिधौ ॥२०८॥इत्येवं योगयेद्विद्वान् पुष्पविन्यासमण्डले ।स याति विष्णुसालोक्यं ज्ञानयज्ञेन संयजेत् ॥१०९॥पुष्पयागविधि: प्रोक्तो मया शक्र विधानके ।तन्मण्डलं समालिख्य तद्विधानेन पूजयेत् ॥२१०॥]भूतक्रूरबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ।स्नात्वाचम्य शुचिर्भूत्वा समभ्यर्च्य खगेश्वरम् ॥२११॥उद्वसयेद्यथापूर्वमाहूतास्तत्र देवता: ।नित्ये नैमित्तिके काम्ये ध्वजसंस्थानं मतम् ॥२१२॥आचार्यं पूजयेत् पश्चात् यथाशक्ति समाहित: ।इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [ध्वजारोहणादिविधर्नाम]षङ्विशोऽध्याय:॥ N/A References : N/A Last Updated : January 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP