संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| षष्ठोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - षष्ठोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम षष्ठोऽध्याय: Translation - भाषांतर विष्वक्सेन:---मृत्संस्कारमथो वक्ष्ये श्रृणुष्वैक*मनाधुना*(!) ।पक्वापक्वे(क्वा?)द्विधा प्रोक्ता भूसुरादीननुक्रमात् ॥१॥सर्वलोका न शंसन्ति प्रतिमां दग्धमृण्मयीम् ।अपक्वा प्रतिमा शस्ता सैव कार्या विचक्षणै: ॥२॥सुधया नैव कुर्याद्वा नाश्मचूर्णै: कदाचन ।मृदैव मृण्मयं कुर्यात् यथावर्णानुरूपत: ॥३॥ब्राह्मणस्य सिता मृद्वै क्षत्रियस्यारुणा स्मृता ।विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीर्तिता ॥४॥मृदं वर्णानुपूर्व्येण गृह्णीयात् क्षेत्रसंभवाम् ।दधिसर्पि:पयोभिश्च अतसीस्नेहसंयुतै: ॥५॥शर्करा(रां?)लोहपाषाणै: चूर्णं कृत्वा तु पूर्वश: ।समभागानि चूर्णानि मृत्तिकायां नियोजयेत् ॥६॥खादिरेण कषायेण अर्जुनेन च पेषयेत् ।श्रीवेष्टकं सज्जरसं कुङ्कुमं कोष्ठमेव च ॥७॥कुन्दुरुश्च रसा ह्येते सर्वे सर्वरसान्विता: ।नदीसङ्गमतीरेषु पुण्योद्यानेषु वै पुन: ॥८॥आदाय मृत्तिकां तत्र स्नेहचूर्णसमायुताम् ।मासं पर्युषितं कृत्वा कारयेत् प्रतिमां तत: ॥९॥त्रिरात्रं पेषिता(चोषिता?)सा तु शिलामयसमा भवेत् ।मृत्संस्कारं मया प्रोक्तं तेनैव प्रतिमां क्रमात् ॥१०॥कारयेत् सुदृढं सम्यक् शास्त्रदृष्ट्या च शिल्पिना ।साङ्गोपाङ्गसमायुक्तां प्रतिमां सुमनोरमाम्॥ ११॥नवाम्बरं तु सुस्निग्धं प्रतिमोपरि वेष्टयेत् ।तस्योपरि लिखेत् स्निगधं वर्णानुक्रमणेन तु ॥१२॥अतस्तत्संप्रवक्ष्यामि वर्णानुक्रमण क्रमात् ।श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च ॥१३॥पञ्चवर्णा इमे प्रोक्ता: पृथिव्याद्यधिदेवता: ।उत्तमा धातुजा प्रोक्ता मध्यमा वृक्षसंभवा ॥१४॥संयोगजाऽवरा ज्ञेया त्रिविधो वर्णसंग्रह: ।वर्णं चाप्यनुवर्णं च संकरं च तथैव च ॥१५॥त्रिविधो वर्णसंयोग: शास्त्रेऽस्मिन्नुच्यते मया ।वर्णा इत्युच्यते शुद्धा राजवार्तादिना*करोत्*(?) ॥१६॥अनाक(का?)रेषु ये वर्णा: प्राय:शुद्धिविवर्जिता: ।अनुवर्णा इमे प्रोक्ता: संकरान् कथयाम्यहम् ॥१७॥शुक्लो रक्तश्च कृष्णश्च नीलश्चेति चतुर्विध: ।शङ्खगोक्षीरवर्णाभ: शुक्ल इत्यभिधीयते ॥१८॥हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत् ।मन:शिला हरीतालो हरित: संप्रकीर्तित: ॥१९॥हरिद्राकुङ्कुमाभस्तु पीत इत्यभिधीयते ।ततस्तु श्यामवर्णश्च कृष्णवर्णो द्विधा मत: ॥२०॥दूर्वामरकताभस्तु इन्द्रनीलनिभोऽपर: ।शुक्लेन मिश्रितो रक्तो हरिरित्यभिसंज्ञित: ॥२१॥शुक्?लेन मिश्रित: पी?तो गौर इत्यभिधीयते ।रक्तेन मिश्रितमपि कपिलं परिभाशितम् ॥२२॥शुक्लेन मिश्रित: कृष्णो धूम्र इत्यभिसंज्ञित: ।पीतेन मिरित: कृष्ण काल इत्यभिसंज्ञित: ॥२३॥पीतकृष्णयुत:शुक्लो गौर इत्यभिधीयते ।पीतरक्तयुत:शुक्ल: कर्बुर: समुदाहृत: ॥२४॥पीतकृष्णयुतो वर्णो हरिवर्ण: प्रकीर्तित: ।एवं संकरतो वर्ण: तत्कालं स्थीयते दृढम् ॥२५॥यन्निभा कथिता मूर्ति: तन्निभं वर्णयोजनम् ।अदृष्टदेशसंभूता मध्यमा कालसंभवा ॥२६॥एवं वर्णविभागस्तु क्रमश: परिकीर्तित: ।वासुदेवं संकर्षणं प्रद्युम्नं चनिरुद्धकम् ॥२७॥कलौ युगे शचीनाथ श्यामवर्णेन कारयेत् ।तद्बिम्बं शुभदं ऋद्धिं(विद्धि?)राजराष्ट्रविवर्धनम् ॥२८॥तस्मात्सर्वप्रयत्नेन कलौ श्यामेन कारेयत् ।अन्यथाशुभमाप्नोति राजराष्ट्रविनाशकृत् ॥२९॥इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायांमृत्संस्कारविधिर्नाम षष्ठोऽध्याय: N/A References : N/A Last Updated : January 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP