संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
एकादशोऽध्याय:

विश्वक्सेनासंहिता - एकादशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
वर्णादींश्चायुधानां तु विन्यासं मुनिसत्तम ।
परमात्मात्मभावार्थं प्रथमं श्रृणु नारद ॥१॥
श्वेतपर्वतसंनिभं त्रिदशं गरुत्मति संस्थितम्
सर्वदेवनमस्कृतं कमलासनाद्यभिपूजितम् ।
सर्वभूषणभूषितं द्विचतुर्भुजं द्विपदं मुने
स्वात्मदेहविराजितं कनकप्रभमं(प्रभां?)बरमादधत् ॥२॥
इति ध्यायेन्मुनिश्रेष्ठ सर्वदेवमयं तत: ।
ध्यायन्नुत्पद्यते तस्य सम्यग्ज्ञानं तु नारद ॥३॥
इति ते दर्शितं साक्षात् मूर्तं तु परमात्मन: ।
अस्य मूर्तस्य वक्ष्यामि विन्यासं चायुधस्य च ॥४॥
अस्य दक्षिणहस्ताग्रे चक्रं चाध: स्थितस्य तु ।
स्वागतावस्थितो हस्त पद्मं वा ?हरि नारद ॥५॥
अध:स्थितस्य हस्ताग्रे चाक्षमालां तु विन्यसेत् ।
एवं दक्षिणहस्तानां वामपार्श्वस्य चोच्यते ॥६॥
वामपार्श्वस्य हस्तानां चोर्ध्वे शङ्खं वरप्रदम् ।
सगदाकटिहस्तं स्यात् इत्थं तु परमात्मन: ॥७॥
वासुदेवस्य वक्ष्यामि रूपं वै चायुधानि ते ।
गोक्षीरस्फटिकाकारं श्यामाकृतिमथापि वा ॥८॥
पीतवस्त्रधरं वापि रक्?ताम्बरधरं तु वा ।
शङ्खचक्रगदाहस्तं सर्वाभरणभूषितम् ॥९॥
सर्वावयवसंपूर्णं चतुर्बाहुविराजितम् ।
सर्वालंकारसंयुक्?तं वासदेवं विचिन्तयेत् ॥१०॥
वक्ष्याम्यस्य तु हेतीनां विन्यासं ते महामुने ।
अस्य दक्षिणहस्ताग्रे चक्रं चाध:स्थितेऽम्बुजम् ॥११॥
वामोर्ध्वे शङ्खमन्यस्मिन् गदा चास्याप्यधोमुखम् ।
श्रियं तु दक्षिणे पार्श्वे वामे पुष्टिं तु विन्यसेत् ॥१२॥
तुष्टिं वा वामपार्श्वे तु कारयेन्मुनिसत्तम ।
एवं जनार्दनस्यापि मूर्तं कर्तव्यमेव तु ॥१३॥
इत्युक्?तं वासुदेवस्य श्रृणु संकर्षणस्य तु ।
बालसूर्यप्रतीकाश: संकर्षण इति स्मृ?त: ॥१४॥
पीतवस्त्रधर: साक्षात् चतुर्बाहुविराजित: ।
सर्वावयवसंयुक्?त: सर्वाभरणभूषित: ॥१५॥
सर्वालंकारसंयुक्?त: शङ्खचक्रधर: सदा ।
इति संकर्षणं(णे?)रूपमस्य वै दक्षिणे करे ॥१६॥
ऊर्ध्वे चक्रं त्वधो हस्ते मुसलं विन्यसेत् सुधी: ।
वामोर्ध्वे शङ्खमित्युक्?तं पुण्डरीकं त्वध: करे ॥१७॥
दक्षिणे तु श्रियं वामे पुष्टिं संस्थापयेद्बुध: ।
इति संकर्षणश्चोक्?त: प्रद्युम्नं श्रृणु नारद ॥१८॥
पीताम्बरं चतुर्बाहुं सर्वावयवसंयुतम् ।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ॥१९॥
सर्वालंकारसंयुक्?तमित्थं प्रद्युम्नरूपकम् ।
दक्षिणोर्ध्वकरे पद्ममध: कौमोदकीं न्यसेत् ॥२०॥
वामोर्ध्वाध: स्थिते हस्ते शङ्खचक्रं तु विन्यसेत् ।
इत्थं प्रद्युम्नमूर्तं ते देवर्षे वर्णितोऽधुना (तं मया?) ॥२१॥
अनिरुद्धं वदामोऽत्र (म्यत्र?) श्रृणु नारद तत्त्वत: ।
नीलजीमूतसंकाशं कालाञ्जनचयोपमम् ॥२२॥
शङ्खचक्रधरं देवं पीतवस्त्रं चतुर्भुजम् ।
सर्वाभरणसंयुक्?तं सर्वावयवशोभितम् ॥२३॥
सर्वालंकारसंयुक्?तमनिरुद्धमितीरितम् ।
अस्य वामकरे चोर्ध्वे शङ्खमन्यकरे गदाम् ॥२४॥
दक्षिणोर्ध्वे न्यसेच्चक्रमन्यत्राभयमिष्यते ।
अनिरुद्धं जगन्नाथमनन्तोपरि शायिनम् ॥२५॥
श्रियं दक्षिणत: पार्श्वे पुष्टिं वामेऽस्य विन्यसेत् ।
शयने सति मूलार्चा द्विभुजं वा चतुर्भुजम् ॥२६॥
कल्पयेन्मुनिशार्दूल सर्वसंपत् सुखावहम् ।
देवस्य पादपार्श्वे तु श्रियं पुष्टिं तु विन्यसेत् ॥२७॥
अथ वा कल्पयेद्देवमौलिपार्श्वे श्रियं मुने ।
चित्रं वाप्यर्धचित्रं वा चित्राभासं तु वा मुने ॥२८॥
यजमानेच्छया कुर्यात् देवीनां लक्षणं क्रमात् ।
इत्थं श्रियादिमूर्तीनां पूर्वपूर्वा गरीयसी ॥२९॥
अनिरुद्ध इति प्रोक्?तो मत्स्यादीन् श्रृणु नारद ।
शतपत्रमयस्याथ पुण्डरीकस्य मध्यमे ॥३०॥
पद्मासनस्थं मत्स्याष्टपरीतं कनकप्रभम् ।
त्रिणेत्रं द्विभुजं चैव प्राङ्मुखं पद्मधारिणम् ॥३१॥
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।
मत्स्याभिमानिनं(नो?)मूर्तिं(र्तं)इत्थमुक्?तं च नारद ॥३२॥
पद्मपूर्वदले मत्स्यं सौवर्णं विन्यसेद् बुध: ।
आग्नेयदिग्दले मत्स्यं राजतं चाथ विन्यसेत् ॥३३॥
याम्यदिग्दलमध्ये तु मत्स्यं ताम्रनिभं न्यसेत् ।
नैऋत्यदिग्दले मत्स्यं कृष्णवर्णं तु विन्यसेत् ॥३४॥
वारुणे दिग्दले मत्स्यं रक्??तवर्णं तु विन्यसेत् ।
वायव्यदिग्दले मत्स्यं श्यामवर्णं तु विन्यसेत् ॥३५॥
सौम्यदिग्दलमत्स्यं तु धूम्रवर्णं तु विन्यसेत् ।
ईशानदिग्दले मत्स्यमग्निवर्णं तु विन्यसेत् ॥३६॥
इत्यष्टदिग्दलस्थैस्तु मत्स्यैरभिमृखीकृतम् ।
मत्स्याभिमानिनं (नो?) मूर्तं तव स्नेहात् प्रदर्शितम् ॥३७॥
अस्य दक्षिणपार्श्वे तु श्रियं पुष्टिं परत्र च ।
विन्यसेन्मत्स्यरूपं वै कूर्मरूपं तत: श्रृणु ॥३८॥
कालाञ्जनगिरिप्रख्यं त्रिणेत्रं स्वाङ्गशोभितम् ।
चतुर्बाहुयुतं चैव सर्वाभरणभूषितम् ॥३९॥
अञ्जनमृत्संनिभमूर्ति: द्वादशपत्रे वर्तितमब्जे ।
पद्मसमाख्यस्वासनयुक्?त: कूर्मशरीरी विष्णुरिहास्ते ॥४०॥
प्राक्क्रमतोऽब्जद्वादशपत्रारूढशरीरैर्द्वादशकूर्मै: ।
अञ्जनवर्णप्रख्यशरीरेरावृतमूर्ति:स्वाभिमुखस्थै: ॥४१॥
शङ्खचक्रधरश्चैव पद्महस्तस्तथैव च ।
ततो द्वादशकूर्मा हि (कूर्मैर्हि?) देवोऽप्यभिमुखीकृत: ॥४२॥
अस्य दक्षिणहस्तोर्ध्वे चक्रपद्मो(चक्रं पद्मं?)करान्तरे ।
वामोर्ध्वे शङ्खमित्युक्?तं पद्मं चाध:स्थिते करे ॥४३॥
अस्य दक्षिणपार्श्वे तु श्रियं विन्यस्य बुद्धिमान् ।
पुष्टिं वामे न्यसेदेवं कूर्ममूर्तिरुदाहृता ॥४४॥
वाराहं श्रृणु वक्ष्यामि राजावर्तनिभं मुने ।
शङ्खवर्णं तु वा श्यामं सर्वलक्षणलक्षितम् ॥४५॥
नवयौवनसंपूर्णां सर्वावयवसुन्दरीम् ।
नारीणामुत्तमां देवीं सुकेशां पङ्कजाननाम् ॥४६॥
विद्युल्लताप्रभां वापि श्यामां वापि कृताञ्जलिम् ।
सर्वालंकारसंयुक्?तां निमग्नां जगतीं शुभाम् ॥४७॥
वामदोष्णा समालिङ्ग्य प्रोद्धृत्यालिङ्ग्य सुस्थिताम् ।
वामेन बाहुनाश्लिष्य जिघ्रन् देवीमुखं प्रभु: ॥४८॥
वामेनालिङ्ग्य हस्तेन तस्या: स्कन्धं तपोनिधे ।
गृहीत्वोरुं दृढं तस्या: दक्षिणेन करेण च ॥४९॥
सूकराङ्गं चतुर्बाहुं शङ्खचक्रधरं प्रभुम् ।
दक्षिणे तु न्यसेत् चक्रं वामे शङ्खं तु विन्यसेत् ॥५०॥
इत्थं वराहरूपं ते प्रथमं परिपठ्यते ।
अथ वा क्रोडवक्?त्रं च महाकायं सुदंष्ट्रकम् ॥५१॥
सर्वलक्षणसंपन्नं श्रीवत्साङ्कितवक्षसम् ।
तिर्यक्संस्थितसूत्रं च रूपं वै यन्महात्मन: ॥५२॥
वाराहं मध्यमं प्रोक्?तं संक्षेपात्तु तपोनिधे ।
अथ वा श्रृणु वक्ष्यामि रूपं वाराहरूपिण: ॥५३॥
उद्धृत्य नासिकातुल्यं वामहस्तस्य को(कू?)र्परम् ।
वामपार्श्वार्धभागे तु निरीक्षन् को(कू?)र्परं सदा ॥५४॥
कटिप्रदेशमालम्ब्य पाणिना दक्षिणेन तु ।
एवं रूपं महाविष्णो: शङ्खचक्रधरस्य च ॥५५॥
अस्य दक्षिणहस्ताग्रे चक्रं शङ्खं परे च हि ।
इति वाराहमूर्तस्य त्रिधा रूपं तु दर्शितम् ॥५६॥
एवमुक्?तस्य रूपस्य त्रिधाकारस्य नारद ।
इत्थं रूपं तु कर्तव्यं नृसिंहस्य तत: श्रृणु ॥५७॥
गलादधस्तान्नररूपधारी परत्र सिंहाननभृत्स्वरूप: ।
*बिभर्ति नेत्राणि हुताशनार्कप्रभा-
ञ्चितान्येव विभीष्?ाणानि* ॥५८॥
शङ्खचक्रधरश्चैव सर्वाभरणभूषित: ।
सर्वावयवसंपूर्ण: सर्वसिद्धिकर:शुभ: ॥५९॥
चक्रं च दक्षिणे हस्ते शङ्खं वामे न्यसेद्बुध: ।
श्वेतपर्वतसंकाशं सर्वदु:खविनाशनम् ॥६०॥
रक्?तचन्दनदिग्धाङ्गं कालाभ्रोद्दामनि: स्वनम् ।
शरदिन्दुकलादंष्ट्रं क्रुद्धं हाटकताटकम् ॥६१॥
सुफुल्लवदनं शश्वत् दुष्टानामतिभीषणम् ।
एवं रूपं नृसिंहस्य कृत्वा पूर्वं मृदा (मुदा?) मुने ॥६२॥
पर्यङ्ककल्पितं कृत्वा आसीनं विष्टरे शुभे ।
हस्तयो:को(कू?)र्परे तस्य जान्वोरुपरि विन्यसेत् ॥६३॥
इत्थं नृसिंहरूपं ते वर्णितं* वणतोचितम्* (?)  ।
वामनस्य वदामोऽत्र (म्यत्र?) रूपं श्रुणु महामुने ॥६४॥
*सुस्मितं पद्मनाभेन*(?)वामनं वामनाकृतिम् ।
बालकुञ्जरसंकाशं बृहत्स्कन्धं महाभुजम् ॥६५॥
श्यामलं नीरजाक्षं तु आयतामललोचनम् ।
क्षोणीतलं पदन्यासै: डोलयन्निव नारद ॥६६॥
जटाटवीसमायुक्?तं सर्वेषां च मनोहरम् ।
द्विभुजं सव्यहस्तेन मुष्टिना दण्डधारिणम् ॥६७॥
आकुञ्चितं वामपादं* स्वागतं दक्षिणं भुजम्*(?) ।
हारकुण्डलकेयूरभूषणैर्भूषितं मुने ॥६८॥
लम्बयज्ञोपवीतेन मेखलानां त्रयेण च ।
संयुक्?तं युक्?तरूपं तु काश्यपं ब्रह्मचारिणम् ॥६९॥
कौपीनधारिणं वापि पीतवाससमेव च ।
रक्षार्थं विष्टापानां तु वामनत्वमुपागतम् ॥७०॥
एवं सुलक्षणोपेतं रूपं कार्यं महामुने ।
जामदग्न्यस्य रामस्य रूपं वक्ष्याम्यत: परम् ॥७१॥
तस्य वर्णं सुवर्णाभं द्विभुजं श्वेतरक्?तकम् ।
आसीनं तु प्रसन्नास्यं ब्रह्मलक्ष्मीसमावृतम् ॥७२॥
सर्वलक्षणसंपूर्णं सर्वाभरणभूषितम् ।
सर्वालंकारसंयुक्?तं जटामण्डलमण्डितम् ॥७३॥
परशुं ?दक्षिणे हस्ते वामे चापं सपत्रिणम् ।
वामे कमण्डलुं वापि चाक्षसूत्रं तु दक्षिणे ॥७४॥
इत्थं रूपं मुने तुभ्यं जामदग्न्यस्य वर्णितम् ।
रामस्याथ वदामोऽत्र(म्यत्र?)रूपं दाशरथेस्तव ॥७५॥
अतीवरूपसंपन्नौ नीलवेल्लितमूर्धजौ ।
व्यूढोरस्कौ नतांसौ च केयूराङ्गदचित्रितौ ॥७६॥
दीर्घबाहू श्रियोपेतौ सौम्यौ प्रहसिताननौ ।
कर्णान्तलोचनौ साक्षात् प्रथमे वयसि स्थितौ ॥७७॥
सौन्दर्यामृततोयैश्च सिञ्चन्ताविव विश्वत: ।
खङ्गहस्तौ धनुष्पाणी भुजविख्यातविक्रमौ ॥७८॥
बद्धगोधाङ्गुलित्राणौ मुने वैश्रवणोपमौ ।
औदार्यरूपसंपद्भि: नृणां चित्तापहारिणौ ॥७९॥
कौसल्याया: सुमित्राया: प्रीतिदौ वीर्यवत्तरौ ।
राक्षसध्वान्ततिग्मांशू शूरौ दशरथात्मजौ ॥८०॥
नरनारायणाख्यातौ तावुभौ रघुनन्दनौ ।
जगतां पालनार्थाय मनुष्यत्वमुपागतौ ॥८१॥
पुण्डरीकविशालाक्षौ तावुभौ पीतवाससौ ।
भुजान्ते बद्धतूणीरौ बाणपाणी महामुने ॥८२॥
निवसन्तौ श्रिया साकं वाल्मीके: कवि(काव्य?)सागरे ।
रक्षसां मृत्युसंकाशौ रावणस्यातिरावणौ ॥८३॥
नृपसूनू रघुश्रेष्ठौ भ्रातरौ रामलक्ष्मणौ ।
सर्वैश्च लक्षणैर्युक्?तौ स्थापयेत्तन्त्रवित्तमै: ॥८४॥
समस्तलक्षणोपेतां सीतां रामस्य वल्लभाम् ।
नैऋतानां विनाशाय जातां शुद्धामयोनिजाम् ॥८५॥
त्रिगुणात्ममयीं मायां मूलप्रकृतिसंस्थिताम् ।
व्यक्?तरूपेण संज्ञापि साक्षादव्यक्?तरूपिणीम् ॥८६॥
पतिव्रतां महाभागां स्त्रीणामप्युत्तमां श्रियम् ।
रक्?तपद्मकरां देवीं पद्मां पद्मोपमाननाम् ॥८७॥
यौवनोद्दामदिव्याङ्गीं सीतां जनकनन्दिनीम् ।
पातिव्रत्यगुणोपेतां सीतां रामस्य वल्लभाम् ॥८८॥
सर्वालंकारसंयुक्?तां नीलालकशिरोरुहाम् ।
मालानिबद्धधम्मिल्लां मदविभ्रान्तलोचनाम् ॥८९॥
कालपीताम्बरधरा स्थापयेद्रामपार्श्वत: ।
सव्यमुष्टिं(ष्टौ?) ललाटान्तं कृतोर्ध्वमुखमन्तरम् ॥९०॥
तस्मिन् त्र्यवनतं चापं* बाणौघजधनं(?)दृढम्* ।
वासवास्त्रं वामबाहौ कारयेनमुनिसत्तम ॥९१॥
सायकं कटिसूत्रे तु वामपाणिं(?)तु दक्षिणे ।
कालाग्निसदृशं बाणं पौलस्त्यान्तकरं दृढम् ॥९२॥
*अन्तरेऽस्य मुखं कृत्वा गोलकं चोल्बणं भवेत्*(?) ।
मर्दन्तं रावणपुरं स्वबलं (सबलं?) चायुषं तथा ॥९३॥
निहत्य* रामहस्तस्थं*(?) स्थापयेद्दक्षिणे करे ।
वसुतालेन वा विद्वान् नवतालक्रमेण वा ॥९४॥
बेरस्य चानुरूपेण चरेत् सर्वायुधानि वै ।
कुञ्चितं वामपादं तु सुस्थितं दक्षिणं पदम् ॥९५॥
कनिष्ठिकाङ्कितस्थाने त्वङ्गुष्ठस्य स्थितिर्भवेत् ।
स्तोककुञ्चितजानुश्च पादो वामस्थितो भवेत् ॥९६॥
मुखे शरीरे कट्यां च त्रिष्वङ्गेष्वेषु नारद ।
त्रिभङ्गित्वान्मुनिश्रेष्ठ त्रिभङ्गीति प्रपठ्यते ॥९७॥
मुखं दक्षिणतो भङ्गं तनुमध्यं तु वामत: ।
दक्षिणे कटिभङ्गस्तु भङ्गत्रयमुदाहृतम् ॥९८॥
वामहस्त: सचाप: स्याद्दक्षिण:सशिलीमुख: ।
लक्ष्मणस्य भवेदेवं लक्षणं भरतस्य तु ॥९९॥
शत्रुघ्नस्याप्यथैवं स्यादिति तन्त्रेषु निश्चितम् ।
संस्थाप्य मध्यमे रामं वामपार्श्वेऽस्य लक्ष्मणम् ॥१००॥
दक्षिणे स्थापयेद्देवीं सीतां जनकनन्दिनीम् ।
शत्रुघ्नभरतौ कार्यावुत्तरे दक्षिणे क्रमात् ॥१०१॥
चामरासक्?तबाहू तौ परिवारविधावपि ।
इति स्वतन्त्रे निर्दिष्टं परतन्त्रे वदाम्यहम् ॥१०२॥
लोहैश्च निर्मिते बेरे चोत्तमादिक्रमैर्मुने ।
ललाटपट्टपर्यन्तं पादाङ्गुष्ठात् समुच्छ्रयम् ॥१०३॥
द्वात्रिंशदङ्गुलं विद्धि उत्तमं कौतुकं द्विज ।
अस्मात् सप्ताङ्गुलैर्हीनं मध्यमं बेरमुच्छ्रयम् ॥१०४॥
अस्मात् नवाङ्गुलैर्हीनमधमं परिकीर्तितम् ।
इति दाशरथेर्मूर्तमुत्सेधं मुनिसत्तम ॥१०५॥
सीतालक्ष्मणयोश्चापि भरतस्यापि साम्प्रतम् ।
शत्रुघ्नस्यापि देवर्षे वदाम्यायाममद्य ते ॥१०६॥
देवस्य बाहुमूलान्तं देव्युत्सेधं प्रचक्षते ।
लक्ष्मणस्योच्छ्रयश्चापि रामस्यास्यान्तमीरितम् ॥१०७॥
लक्ष्मणस्य भुजान्तं स्यात् शत्रुघ्नस्योच्छ्रयो भवेत् ।
इति दीर्घप्रमाणोक्तं शेषं पूर्ववदाचरेत् ॥१०८॥
स्वतन्त्रे परतन्त्रे च लक्षणं तव भाषितम् ।
बलरामस्य वक्ष्यामि श्रृणु नारद लक्षणम् ॥१०९॥
बलभद्र: निभा (सिता?) भिख्य: कुन्देन्दुधवलप्रभ: ।
पङ्कजाक्षोऽङ्गनावक्त्र: सर्वावयवशोभित: ॥११०॥
सर्वालंकारसंयुक्त: सर्वाभरणभूषित: ।
सर्वावयवसंपूर्ण: प्रभामण्डलमण्डित: ॥१११॥
अस्य दक्षिणबाहौ तु मुसलं वामके करे ।
हलं तु विन्यसेद्धीमान् बलरामस्य मन्त्रवित् ॥११२॥
दक्षिणे तु श्रियं देवीं सौम्ये तु गरुडं न्यसेत् ।
पीतं कृताञ्जलिं त्वेवं बलरामस्त्वथेरित: ॥११३॥
अत: परं प्रवक्ष्यामि कृष्णं कृष्णाञ्जनप्रभम् ।
स्थापनं कार्यमस्यैव स्थानकं तु विशेषत: ॥११४॥
त्रिभङ्ग्या संमितं तं तु स्थितं पीठे महामुने ।
क्रीडायष्टिसमायुक्तं देव्या च परमं हरिम् ॥११५॥
स्थापयेद्दैविके स्थाने सर्वज्ञं सर्वकारणम् ।
एवं संक्षेपत: प्रोक्तं विविक्तेनाधुना मुने ॥११६॥
अत:(?)श्यामनिभं वापि पीताम्बरसमन्वितम् ।
वासुदेवं गुडाकेशं सर्वाभरणभूषितम् ॥११७॥
क्रीडायष्टिधरं देवं त्रिभङ्गस्थितिसंयुतम् ।
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥११८॥
वामपादतलं तिर्यक् क्रमेणैव तु कारयेत् ।
तत्कनिष्ठाङ्गुलिस्थाने चाङ्गुष्ठस्थितिमाचरेत् ॥११९॥
किञ्चित्कु?ञ्चितजानुश्च वामपादस्थितिर्भवेत् ।
वक्त्र्?ो चैव तथा गात्रे कटियन्त्रे तथैव च ॥१२०॥
त्रिषु मार्गेषु(भागेषु?)भङ्गित्वात् त्रिभङ्गित्वं विधीयते ।
*वक्त्रं दक्षिणतो भङ्गे* मध्यकायं तु वामत: ॥१२१॥
*कटिदक्षिणतो भङ्गे* भङ्गत्रयमुदाहृतम् ।
कारयेद्दक्षिणं हस्तं सुयष्टिं कटकान्वितम् ॥१२२॥
वामं देवीभुजासक्तं वामहस्तमधोमुखम् ।
वामं करतलं चैव नाभिसूत्रेण योजयेत् ॥१२३॥
दक्षिणं कटिहस्तं तु वक्त्रसूत्रेण योजयेत् ।
हिक्कानाभिमुखे चैव मध्यकायं प्रतिष्ठितम् ॥१२५॥
मेढ्रं नाभिमुखं नाहस्तस्मादूरूमुखद्वयम् ।
मानं संक्षेपत: प्रोक्तं शेषं साधारणं स्मृतम् ॥१२६॥
देव्यौ तत्पार्श्वयोश्चैव स्थापयेत् क्रमयोगत: ।
देवस्य दक्षिणे कुर्यात् रुक्मिणों रुक्मसंनिभाम् ॥१२७॥
सत्यभामां च वामे तु कारयेच्छ्यामसंनिभाम् ।
पूर्ववत् कमलं गृह्यं* सात्विकेन समायुतम्* ॥१२८॥
स्वतन्त्रे चैवमुक्तं तु परतन्त्रे वदामि ते ।
लोहेन मुनिशार्दूल उत्तमादिक्रमेण तु ॥१२९॥
संप्रोक्तं राघवस्यैवं तद्वदुत्पादयेदिह ।
लक्षणं यादवेन्द्रस्य उत्सेधादिक्रमं मुने ॥१३०॥
नवनीतार्थनृत्तं च सर्पनृत्तमथापि वा ।
इत्येवमादि मूर्तीनां लक्षणं मुनिसत्तम ॥१३१॥
यजमानेच्छया तस्मिन् कारयेत् स्वस्वलीलया ।
युक्त्या युक्तिविशेषेण प्रतिमां कारयेत् क्रमात् ॥१३२॥
इति यादवसिंहस्य लक्षणं परिकीर्तितम् ।
संक्षेपेण मुनिश्रेष्ठ कल्कि(ल्की?)विष्णोरत: श्रृणु ॥१३३॥
अतिशोणव(णित?) संकाशो त्रिणेत्रो भीमरूपवान् ।
शङ्खचक्रगदापाणिश्चतुर्बाहु: किरीटधृक् ॥१३४॥
वनमालासमायुक्त: सर्वाभरणभूषित: ।
सर्वालंकारसंयुक्त: पीतवस्त्रसमन्वित: ॥१३५॥
एवं कल्किर्मया प्रोक्तो हेतिन्यासं वदामि ते ।
दक्षिणोर्घ्वकरे चक्रं वामोर्ध्वे शङ्खमेव तु ॥१३६॥
वामस्याधरहस्ते तु पाशं कृष्णनिभं न्यसेत् ।
कारयेद्दक्षिणे हस्ते कालदण्डं त्वधोमुखम् ॥१३७॥
श्रियं दक्षिणपार्श्वे तु वामे पुष्टिं न्यसेद्बुध: ।
द्बितीयावरणे चाष्टपरिवारसमन्वितम् ॥१३८॥
एवं संचिन्त्य कल्किं तु पूजयेत्तु विधानत: ।
कलौ युगे विशेषेण कल्किं संपूजयेद् द्विज ॥१३९॥
नृपो वा नृपमात्रो वा पूजयेत्तु दिने दिने ।
सर्वान् कामानवाप्नोति जयलक्ष्मीं स गच्छति ॥१४०॥
विशेषं चा(षश्चा?)त्र संप्रोक्तं(क्त:?)शेषं साधारणं स्मृतम् ।
एवं कल्केर्मया प्रोक्तं लक्षणं सर्वसिद्धिदम् ॥१४१॥
मूर्तीनां लक्षणं वक्ष्ये शास्त्रभेदेन चिह्नितम् ।
अदिमूर्ति: परो देवो वासुदेव: सनातन: ॥१४२॥
द्वितीया तु परा मूर्ति: संकर्षण इति स्मृत: ।
प्रद्युम्नाख्या तृतीया तु मूर्तिरेषा सनातनी ॥१४३॥
चतुर्थी तु भवेन्मूर्ति: अनिरुद्धेतिसंज्ञिता ।
चतस्रो मूर्तयस्त्वेता: प्रतिष्ठाया: पृथक् पृथक् ॥१४४॥
वासुदेव: परा मूर्ति: स्थापनीया द्विजोत्तमै: ।
द्वितीया स्थाप्यते मूर्ति: क्षत्रियैर्मोक्षकांक्षिभि: ॥१४५॥
प्रद्युम्नाख्या तु विप्रेन्द्र वैश्यै: स्थाप्या मुमुक्षुभि: ।
शूद्रै: संस्थाप्यते मूर्तिरनिरुद्धो जगद्गुरु: ॥१४६॥
भेदैस्त्रिभिस्त्रिभिर्विप्र एकैका भिद्यते पुन: ।
वर्णास्त्रन्यासभेदेन भेदाश्च परिकीर्तिता: ॥१४७॥
मूर्तीनां केशवादीनां विविक्तेन श्रृणु क्रमात् ।
शङ्खकुन्दनिभं वापि ह्यथवा श्याममेव च ॥१४८॥
शङ्खचक्रगदापाणिं श्रीवत्साङ्कितवक्षसम् ।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ॥१४९॥
पीताम्बरसमायुक्तं चतुर्बाहुं किरीटिनम् ।
एवं ध्यायेन्मुनिश्रेष्ठ भुक्तिमुक्तिप्रदं हरिम् ॥१५०॥
अस्त्रविन्यासभेदं च प्रवक्ष्यामि श्रृणु क्रमात् ।
दक्षिणोर्ध्वकरे चक्रं वामोर्ध्वे शङ्खमुद्वहन् ॥१५१॥
गदां वामाधरे हस्ते नीरजं दक्षिणाधरे ।
आदिमूर्तेस्तु भेदोऽयं केशवाख्यं मुने श्रृणु ॥१५२॥
नारायणमथो वक्ष्ये श्रृणु नारद सत्तम ।
कुन्दपुष्पनिभं वापि श्यामं वा रक्तमेव वा ॥१५३॥
शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम् ।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ॥१५४॥
सर्वावयवसंयुक्तं सर्वालंकारशोभितम् ।
सर्वदेवमयं सूक्ष्मं त्रैलोक्याधिपतिं हरिम् ॥१५५॥
एवं रूपं तु संचिन्त्य हेतिन्यासमथो श्रृणु ।
दक्षिणे तु करे चोर्ध्वे पद्मं मुकुलकं न्यसेत् ॥१५६॥
अस्याधरे तु चक्रं स्यात् कालाग्निसदृशं मुने ।
वामोर्ध्वे तु गदां न्यस्य ह्यधोहस्तेऽम्बुजं न्यसेत् ॥१५७॥
एवं चायुधविन्यासो माधवं चाधुना श्रृणु ।
शङ्खपुष्पदलप्रख्यं शङ्खचक्रगदाधरम् ॥१५८॥
सर्वावयवसंपूर्णं सर्वालंकारशोभितम् ।
सर्वाभरणसंपूर्णं चतुर्बाहुं किरीटिनम् ॥१५९॥
माधवस्त्वधुना प्रोक्त: मधुकैटभनाशन: ।
अस्त्रविन्यासभेदं तु श्रृणु चास्य महामुने ॥१६०॥
वामपार्श्वोर्ध्वहस्ते तु शङ्खं धवलकं न्यसेत् ।
अधोहस्ते न्यसेद्रक्तं पद्मं च दशपत्रकम् ॥१६१॥
दक्षिणोर्ध्वकरे चक्रमधस्ताल्लकुटं न्यसेत् ।
तृतीया तु भवेन्मूर्ति: माधवाख्या तु नारद ॥१६२॥
वासुदेवस्य भेदोऽयं वक्ष्ये संकर्षणस्य ते ।
तरुणार्कनिभं वापि श्यामं वाभ्रनिभं तु वा ॥१६३॥
पीतवस्त्रं चतुर्बाहुं सर्वाभरणभूषितम् ।
सर्वावयवसंयुक्तं गोविन्दं गोकुलालमय् ॥१६४॥
एवं ध्यायेन्मुनिश्रेष्ठ सर्वकामप्रदं हरिम् ।
अस्यास्त्रन्यासभेदं तु श्रुणु नारद सत्तम ॥१६५॥
दक्षिणोर्ध्वकरे तस्य गदां चक्रमधो न्यसेत् ।
वामपार्श्वोर्ध्वहस्तेऽब्जं शङ्खमन्ये तु विन्यसेत् ॥१६६॥
गोविन्द एवं संप्रोक्त: विष्ण्वाख्यमधुना श्रृणु ।
रक्तपद्मदलप्रख्यं श्यामं वा रक्तमेव वा ॥१६७॥
कृष्णं वा मुनिशार्दूल सर्वलक्षणसंयुतम् ।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ॥१६८॥
शङ्खचक्रगदापाणिं पीतवस्त्रं चतुर्भुजम् ।
सर्वालंकारसंयुक्तं ध्यायेद्विष्णुं सनातनम् ॥१६९॥
प्रथमे तु करे पद्मं ह्यधस्तात् कारयेद्गदाम् ।
वामे शङ्खं न्यसेत्तस्य ह्यधश्चक्रं विराजितम् ॥१७०॥
अथ वा मुनिशार्दूल श्रृणु विष्णुं सनातनम् ।
ऋजुस्थितं सुसौम्यं यत्कटिहस्तसमन्वितम् ॥१७१॥
शङ्खचक्राभयोपेतं पीताम्बरसमन्वितम् ।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ॥१७२॥
सर्वालंकारसंयुक्तं ध्यायेद्विष्णुमनुत्तमम् ।
द्विप्रकारं मया प्रोक्तं विष्णुं सकलमव्ययम् ॥१७३॥
एवं ध्यायेन्मुनिश्रेष्ठ कर्तुरिच्छावशात् कुरु ।
रक्तोत्पलदलप्रख्यं पीतवस्त्रं चतुर्भुजम् ॥१७४॥
शङ्खचक्रगदापाणिं सर्वावयवशोभितम् ।
सर्वालंकारसंयुक्तं सर्वाभरणभूषितम् ॥१७५॥
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।
सर्वालंकारसंयुक्तं सर्वसिद्धिप्रदं परम् ॥१७६॥
प्रथमे तु करे शङ्गमधस्ताच्चक्रकं न्यसेत् ।
पद्मं वामोर्ध्वहस्ते तु गदां चाध: करे न्यसेत् ॥१७७॥
मधुसूदनमूर्तस्य लक्षणं विद्धि नारद ।
संकर्षणस्य भेदोऽयं त्रिविक्रममथ श्रृणु ॥१७८॥
तप्तहाटकसंकाशं श्यामं वग्निनिभं तु वा ।
सर्वालंकारसंयुक्तं सर्वावयवशोभितम् ॥१७९॥
सर्वाभरणसंयुक्तं पीतवस्त्रं चतुर्भुजम् ।
शङ्खचक्रगदापाणिं सर्वदेवै: नमस्कृतम् ॥१८०॥
त्रिविक्रमस्य संप्रोक्तं लक्षणं च समृद्धिदम् ।
गदां प्रथमहस्ते तु ह्यधस्ताच्चक्रमुद्वहन् ॥१८१॥
वामे पद्ममध:शङ्खं दृश्यते यत्र कुत्रचित् ।
यथाकामं तु वा चास्त्रविन्यासं मुनिसत्तम ॥१८२॥
एवं चायुधविन्यासो प्रोक्तो वामन उच्यते ।
कर्णिकारदलप्रख्यं रक्तवर्णं चतुर्भुजम् ॥१८३॥
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।
सर्वालंकारसंयुक्तं सर्वसिद्धिप्रदं परम् ॥१८४॥
प्रथमे तु करे चक्रं अध:शङ्खश्च दृश्यते ।
गदा च वामहस्ते तु ह्यध: पद्मं च शोभते ॥१८५॥
वामनाख्यस्तु विप्रेन्द्र विज्ञेय:शुभलक्षण: ।
तप्तजाम्बूनदप्रख्यं श्रीवत्साङ्कितवक्षसम् ॥१८६॥
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥१८७॥
श्रीधरस्य मया प्रोक्तं लक्षणं भुक्तिमुक्तिदम् ।
ऊर्ध्वे चक्रमध: पद्मं दक्षिणे तु करे न्यसेत् ॥१८८॥
वामे चैव गदा ज्ञेया ह्यध:शङ्खं विराजितम् ।
तथा श्रीधरमूर्तिस्तु विज्ञेया देशिकोत्तमै: ॥१८९॥
एवं प्रद्युम्नभेदस्तु अनिरुद्धाख्य उच्यते ।
नीलोत्पलदलप्रख्यं चतुर्बाहुं किरीटिनम् ॥१९०॥
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ।
श्रीवत्सवक्षसोपेतं हृषीकेशं सनातनम् ॥१९१॥
दक्षिणेऽस्य महाचक्र गदां च तदध:स्थिताम् ।
वामहस्ते महापद्ममधस्ताच्छङ्खमेव च ॥१९२॥
सा मूर्तिस्तु तदा ज्ञेया हृषीकेशेति(शस्य?)नारद ।
पद्मनाभस्य वक्ष्येऽहं लक्षणं भुक्तिमुक्तिदम् ॥१९३॥
नीलवर्णनिभं वाथ श्यामं वा मुनिसत्तम ।
संज्ञात्वा लक्षणं तत्र सर्वज्ञं सर्वकारणम्‌ ॥१९४॥
कारयेन्मुनिशार्दूल शिल्पिभि: सह साधक: ।
सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥१९५॥
सर्वावयवसंपूर्णं चतुर्बाहुं किरीटिनम् ।
शङ्खचक्रगदापाणिं पीताम्बरसमन्वितम् ॥१९६॥
श्रीवत्सवक्षसोपेतं पद्मनाभमवै(वे?) हि तम् ।
प्रथमेऽस्य करे पद्ममधस्ताच्छङ्ख एव तु ॥१९७॥
वामे च दृश्यते चक्रं गदा च तदध: स्थिता ।
सा मूर्ति: पद्मनाभेति नमस्कार्या विचक्षणै: ॥१९८॥
विन्यसेद्वा यथाकामं शस्त्रविन्यासमत्र तु ।
अथ वा पद्मनाभस्य लक्षणं श्रृणु सुव्रत ॥१९९॥
द्विभुजं पङ्कजाक्षं तु श्यामं वाग्निनिभं तु वा ।
ध्यायेत्तस्मिन् मुनिश्रेष्ठ कारयेल्लक्षणैर्युतम् ॥२००॥
शयने सति संप्रोक्तं पद्मनाभस्य नारद ।
अत्र कर्मार्चनादीनां लक्षणं वक्ष्यतेऽधुना ॥२०१॥
योगमुद्रासमायुक्तं शङ्खचक्रसमन्वितम् ।
कारयेत्तु मुनिश्रेष्ठ कर्मार्चां पूर्ववत्तु वा ॥२०२॥
इत्येवं पद्मनाभस्य लक्षणं परिकीर्तितम् ।
भित्तिपार्श्वेऽस्य नाभ्यूर्ध्वे रक्तपद्मं सुनालकम् ॥२०३॥
कारयेत् सुमनोरम्यं शतपत्रं सकर्णिकम् ।
तदर्धं वार्धकं वापि दलं पद्मस्य नारद ॥२०४॥
कर्णिकाग्रे विधिं ध्यायेत् लक्षणै:सह नारद ।
तल्लक्षणं प्रवक्ष्यामि श्रृणु भुक्तिशुभप्रदम् ॥२०५॥
पद्मासनसमायुक्तं विधिं कनकसंनिभम् ।
चतुर्भुजं समासीनं चतुर्वक्त्रं सनातनम् ॥२०६॥
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।
सर्वदेवमयं सूक्ष्मं सृष्टिस्थितिलयात्मकम् ॥२०७॥
एवं रूपं ततो ध्यायेत् ब्रह्माणं कमलोद्भवम् ।
ब्रह्मणो दक्षिणे हस्ते स्रुक्स्रुवाक्षांश्च विन्यसेत् ॥२०८॥
वामहस्ते न्यसेत् पद्मं ऊर्ध्वे चैव कमण्डलुम् ।
अभयं वरदं वापि वामहस्ताधरं मुने ॥२०९॥
एवं रूपं तु संचिन्त्य ब्रह्माणं कमलासनम् ।
अथ वा कारयेन्न्यासं श्रृणु गुह्योपरि क्रमात् ॥२१०॥
विपरीतेन हस्ताभ्यामूरुमूले तु संस्पृशेत् ।
अङ्गुल्यग्रे मुनिश्रेष्ठ योगमुद्रेऽयमुच्यते ॥२११॥
योगमुद्रा मया प्रोक्ता सर्वयोगेषु योजयेत् ।
अस्य दक्षिणपार्श्वे तु मेधां वामे सरस्वतीम् ॥२१२॥
विन्यसेच्च स्वतन्त्रे तु परतन्त्रे तयोर्विना ।
एवं कृत्वा विधानेन ब्रह्माणं कमलासनम् ॥२१३॥
पद्मनाभस्य मूर्ताङ्गं* परतन्त्रमिति*(?)स्मृतम् ।
स्वतन्त्रे मुनिशार्दूल शिल्पिभि: सह मन्त्रवित् ॥२१४॥
कल्पयेद्विधिवत् पद्मं संस्थाप्य कमलासनम् ।
ब्रह्मस्थानेऽथवा पूर्वे दक्षिणे पश्चिमेऽथ वा ॥२१५॥
ग्रामस्योत्तरपार्श्वे वा कल्पयेदास्पदं क्रमात् ।
नदीतीरे तटाकस्य तीरे वा मुनिसत्तम ॥२१६॥
यजमानेच्छया कल्प्यो प्रासादो विधिवत् क्रमात् ।
तद्ब्राह्मे दैविके वापि कारयेत् कमलासनम् ॥२१७॥
षङ्बेरं वा त्रिबेरं वा स्थापयेत्तु विधानत: ।
संपूजयेत्ततो भक्त्या वैष्णवैर्वेदपारगै: ॥२१८॥
पञ्चरात्रसमायुक्तैरूहापोहसमर्थकै: ।
स्वतन्त्रेणैव वा तत्र ब्रह्मसूक्तेन वा मुने ॥२१९॥
पुरुष(नर?)सूक्तेन वा ब्रह्मन् पूजयेत्तु विधानत: ।
एवं संपूजयेत्तत्र शेषं साधारणं स्मृतम् ॥२२०॥
ब्रह्मणोऽग्रे विमाने च हंसं तस्य पदे मुने ।
कारयेद्वाहनार्थं वा यथाकामं विचित्रितम् ॥२२१॥
गर्भागारे प्रवक्ष्यामि परिवारविशेषकम् ।
पैशाचे द्वारदेशे च श्रृणु गुह्यमनुत्तमम् ॥२२२॥
कपिल: काश्यपो दक्षो दक्षिणं पक्षमाश्रित: ।
रुद्रो वह्निर्मरुच्चापि वामपार्श्वं समाश्रिता: ॥२२३॥
भृगुश्च नारदश्चापि विमानद्वारपालकौ ।
चन्द्रादित्यौ मुनिश्रेष्ठ द्वितीयद्वारपालकौ ॥२२४॥
शङ्खपद्मनिधी चैव तृतीयद्वारपालकौ ।
तत्पूजा मुनिशार्दूल यज्ञस्वाध्यायकर्मकृत् ॥२२५॥
ब्रह्मऋद्धिकरं पुंसां सर्वसंपत्सुखावहम् ।
सर्वदु:खविनाशं तत् राजराष्टविवृद्धिदम् ॥२२६॥
तस्मात्सर्वप्रयत्नेन विधिं विधिवदर्चयेत् ।
विशेषश्चात्र संप्रोक्त: शेषं साधारणं स्मृतम् ॥२२७॥
एवं संक्षेपत: प्रोक्तं स्वतन्त्रार्चाविधानकम् ।
ब्रह्मणो मुनिशार्दूल दामोदरमथो श्रृणु ॥२२८॥
नीलजीमूतसंकाशं पीतवस्त्रं चतुर्भुजम् ।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ॥२२९॥
सर्वालंकारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ।
शङ्खचक्रगदापाणिं वनमालाविराजितम् ॥२३०॥
एवं ध्यायेत् स्वरूपं तु दोमोदरमनामयम् ।
प्रथमेऽस्य करे शङ्ख अधस्तात् पद्ममेव हि ॥२३१॥
वामे चैव गदा तस्य ह्यधस्ताच्चक्रमेव हि ।
अनिरुद्धस्य भेदोऽयं दामोदर इति स्मृत: ॥२३२॥
चतसृणां च मूर्तीनां भेदा: संपरिकीर्तिता: ।
आदिमूर्ति प्रतिष्ठाख्या नित्यमर्चा युगे युगे ॥२३३॥
त्रेतायां तु द्वितीया तु तृतीया द्वापरे तथा ।
कलौ युगेऽनिरुद्धस्तु सर्वे सर्वेषु वा पुन: ॥२३४॥
परमेष्ठ्यादिमन्त्रैस्तु स्थापयेत्तु यथाक्रमम् ।
एवं द्वादशमूर्तीनां लक्षणं परिपठ्यते ॥२३५॥
*किंशुकारं*(?)समप्रख्यं त्रिणेत्रं भीमरूपिणम् ।
सहस्रं वा तदर्धं वा ह्यष्टोत्तरशतं तु वा ॥२३६॥
अथ वाष्टभुजं वापि कारयेत्सुमनोरमम् ।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ॥२३७॥
सर्वालंकारसंयुक्तं सर्वप्रहरणान्वितम् ।
एवं रूपं तु संचिन्?त्?य विश्वरूपमयं हरिम् ॥२३८॥
दक्षिणोर्ध्वकरे चक्रं मुसलं चापरे भुजे(करे?) ।
तस्याधरे तु पाश:स्यात् अङ्कुशं चापरे न्यसेत् ॥२३९॥
चक्रं वामाधरे हस्ते तस्योर्ध्वे लकुटं न्यसेत् ।
लकुटस्योर्ध्वहस्ते तु शङ्खं गोक्षीरसंनिभम् ॥२४०॥
शङ्खोर्ध्वे सशरं चापमेवं प्रहरणं न्यसेत् ।
शेषाण्यस्त्राणि सर्वाणि यथाकामं न्यसेत् करे ॥२४१॥
विश्वरूपस्य संप्रोक्तं लक्षणं जयवृद्धिदम् ।
शुद्धस्फटिकसंकाशं त्रिपादं सप्तहस्तकम् ॥२४२॥
वेदश्रृङ्गं द्विवदनं त्रिणेत्रं पीतवाससम् ।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ॥२४३॥
सर्वावयवसंपूर्णं सर्वालंकारशोभितम् ।
एवं संक्षेपतो प्रोक्तं यज्ञेशं चाघनाशनम् ॥२४४॥
दक्षिणेऽस्य करे चोर्ध्वे चक्रं कालाग्निसंनिभम् ।
लकुटं चापरे न्यस्य वामोर्ध्वे शङ्खमुद्वहन् ॥२४५॥
अस्याधरेऽभयं हस्तं वरदं वा स्मरेन्मुने ।
हविर्भागग्रहीतारं त्रिहस्तेन समाहितम् ॥२४६॥
एवं ध्यायेतत्त्रिसन्ध्यायां यज्ञेशं परमं हरिम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यज्ञेशं पूजयेद् द्विज: ॥२४७॥
सर्वान् कामानवाप्नोति सर्वयज्ञफलं लभेत् ।
ध्यानेनोत्पद्यमानेन सम्यग्ज्ञानमवाप्यते ॥२४८॥
तस्मात्सर्वप्रयत्नेन यज्ञेशं पूजयेद् द्विज: ।
यज्ञेशस्त्वधुना प्रोक्तो वेदमूर्तिमथो श्रृणु ॥२४९॥
श्यामं पर्वतसंकाशं चतुर्बाहुं किरीटिनम् ।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ॥२५०॥
शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम् ।
पीताम्बरसमायुक्तं सर्वापलंकारसंयुतम् ॥२५१॥
सर्ववेदमयं सूक्ष्मं गुह्याद्गुह्यमनुत्तमम् ।
वेदमूर्तिर्मया प्रोक्ता हेतिन्यासमथो श्रृणु ॥२५२॥
अस्य दक्षिणहस्तोर्ध्वे चक्रं कालानलप्रभम् ।
चापं चाधरहस्ते तु विन्यसेत्तु महामुने ॥२५३॥
सव्यपार्श्वोर्ध्वहस्ते तु पाञ्चजन्यमधो गदाम् ।
एवं चायुधविन्यासं श्रियादीनामथ श्रृणु ॥२५४॥
तप्तजाम्बूनदमयीं चतुर्हस्तसमन्विताम् ।
सर्वावयवसंपूर्णां सर्वाभरणभूषिताम् ॥२५५॥
सर्वशक्तिसमोपेतां मकुटादिविराजिताम् ।
सर्वालंकारसंयुक्तां सर्वरत्नविराजिताम् ॥२५६॥
रक्तपद्मधरां देवीं रक्ताम्बरसमन्विताम् ।
पद्मासनसमायुक्तां साक्षाद्देवीं हरिप्रियाम् ॥२५७॥
सर्वालंकारसंयुक्तां सर्वरत्नविराजिताम् ।
शङ्खचक्राम्बुजधरां लक्ष्मीमेवं तु चिन्तयेत् ॥२५८॥
दक्षिणोर्ध्वकरे चक्रमध: पद्मं विराजितम् ।
वामे शङ्खमध: पद्मं वरदं वाभयं तु वा ॥२५९॥
एवं ध्यायेन्मुनिश्रेष्ठ स्वतन्त्रार्चाविधानके ।
परतन्त्रे तु वक्ष्यामि लक्षणं पुष्टिसंयुतम् ॥२६०॥
शङ्खचक्रं व्यपोह्यैव श्रियं पुष्टिं तु कल्पयेत् ।
द्विभुजां कनकाभासां श्रियं विन्यस्य दक्षिणे ॥२६१॥
पुष्टिं वामे न्यसेत्तस्या: लक्षणं श्रृणु नारद ।
दूर्वाश्?यामां सुरक्तां वा द्विभुजां पङ्कजाननाम् ॥२६२॥
सर्वावयवसंपूर्णां मकुटादिविराजिताम् ।
रक्तपद्मोर्ध्वगां देवीं सर्वाभरणभूषिताम् ॥२६३॥
दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम् ।
रक्तपद्मकरां देवीं ध्यायेत् पुष्टिं हरिप्रियाम् ॥२६४॥
एवं ध्यात्वा मुनिश्रेष्ठ कारयेत् सुमनोरमाम् ।
एवं पुष्टिं तु संचिन्त्य सर्वदु:खाघनाशिनीम् ॥२६५॥
मेधामूर्तिमथो वक्ष्ये सर्वविद्याप्रदायिनीम् ।
रक्तपद्मदलप्रख्यां पद्मासनगतां शुभाम् ॥२६६॥
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् ।
द्विभुजां द्विदृशां(शं?) देवीं मेधां मकुटधारिणीम् ॥२६७॥
मेधा चैव मया प्रोक्ता वाग्देवीमधुना श्रृणु ।
शुद्धस्फटिकसंकाशां श्वेतपद्मगतां शुभाम् ॥२६८॥
पद्मासनसमोपेतां चतुर्हस्तसमन्विताम् ।
श्वेताम्बरसमायुक्तां मुक्ताभरणभूषिताम् ॥२६९॥
त्रिदृशां(शं?)द्विदृशां(शं?) वापि ह्यक्षमालाधरां शुभाम् ।
व्याख्यानपुस्तकायुक्तां वाग्देवीं मकुटान्विताम् ॥२७०॥
एवं सरस्वतीं ध्यायेत् सर्वदेवीमयीं पराम् ।
परतन्त्रविधानं चेत् प्रवक्ष्यामि सरस्वतीम् ॥२७१॥
सर्वलक्षणसंपन्नां सर्वावयवशाभिताम् ।
सर्वाभरणसंयुक्तां द्विभुजां द्विदृशां(शं?) पराम् ॥२७२॥
विशेषश्चात्र संप्रोक्त: शेषं पूर्ववदाचरेत् ।
इत्येवं परतन्त्रे तु लक्षणं परिपठ्यते ॥२७३॥
गणनावलयं चोर्ध्वे वामस्योर्ध्वे कमण्डलुम् ।
पुस्तकं चाधरे हस्ते सर्वविद्यार्णवामृतम् ॥२७४॥
प्रतिपादनमुद्रां च दक्षिणाधरहस्तके ।
परतन्त्रे मुनिश्रेष्ट पद्महस्तां शुभाननाम् ॥२७५॥
अङ्घ्रिपार्श्वेंऽशुकं गृह्य एवं वाणीं प्रकल्पयेत् ।
एवं संक्षेपत: प्रोक्तं दुर्गामूर्तिमथो श्रृणु ॥२७६॥
श्यामाद्रिशिखराकारां त्रिणेत्रां पङ्कजाननाम् ।
द्विनेत्रां वा मुनिश्रेष्ठ चतुर्हस्ताष्टकं तु वा ॥२७७॥
सर्वावयवसंपूर्णां मकुटादिविराजिताम् ।
शङ्खचक्राभयभुजां(करां?)पद्मस्योपरि संस्थिताम् ॥२७८॥
दुर्गां चैवं मया प्रोक्तां हेतिन्यासमथो श्रृणु ।
दक्षिणोर्ध्वकरे चक्रमभयं चापरे करे ॥२७९॥
वामोर्ध्वे कम्बु विन्यस्य ह्यधस्तात् कटिहस्तकम् ।
एवं चतुर्भुजे प्रोक्त अष्टहस्ते त्वथो श्रृणु ॥२८०॥
तस्य दक्षिणहस्तोर्ध्वे चक्रं कालाग्निसंनिभम् ।
अस्याधरे तु शङ्ख: स्यात् खङ्गं चाधरदोष्णि तु ॥२८१॥
स(त्रि?) शूलं विद्रुमप्रख्यं विन्यसेदपरे शुभे(करे?) ।
एवं दक्षिणपार्श्वे तु प्रोक्तं वामे त्वथ श्रृणु ॥२८२॥
चापो वामोर्ध्वहस्ते स्यात् ह्यधस्ताच्छङ्ख एव तु ।
परिघोप्यधरे हस्ते गदा चैवापरे करे ॥२८३॥
एवं संक्षेपत: प्रोक्तां महिषान्तकरी शुभा ।
अत्र कश्चिद्विशेषोऽस्ति दुर्गापूजाविधिक्रमे ॥२८४॥
संहितां तु करे गृह्य पूजयेद्विधिचोदितम् ।
विशेषश्चात्र संप्रोक्त: शेषं साधारणं स्मृतम् ॥२८५॥
विघ्नेशं वैष्णवं वक्ष्ये सर्वविघ्नोपनाशनम् ।
उत्पत्तिलक्षणं चास्य संक्षेपाच्छृणु नारद ॥२८६॥
नारायणांशकं साक्षादाकाशात्मकमव्ययम् ।
हस्तिवक्त्रसमायुक्तं लीलयाग्नौ समुद्भवम् ॥२८७॥
दुष्टप्रध्वंसनार्थाय* यागाग्नौ परमं हरिम*(?) ।
अतस्तल्लक्षणं वक्ष्ये विविक्तेन श्रृणु क्रमात् ॥२८८॥
श्वेतं कृष्णं तथा श्यामं रक्तं वा मुनिसत्तम ।
संज्ञात्वा लक्षणोपेतं कारयेद्धस्तिवक्त्रकम् ॥२८९॥
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।
चतुर्बाहुं द्विनेत्रं च त्रिणेत्रं वात्र कारयेत् ॥२९०॥
नागयज्ञोपवीताङ्गं श्वेताम्बरसमन्वितम् ।
शङ्खचक्रसमायुक्तं वरदं* रशनाङ्कुशम्*(?) ॥२९१॥
विन्यसेन्मुनिशार्दूल कर्तुरिच्छावशात् क्रमात् ।
कारयेद्यागविघ्नस्य नाशार्थं विघ्ननायकम् ॥२९२॥
दक्षिणेऽस्य न्यसेच्चक्रमभयं त्वपरे भुजे(करे?) ।
वामे शङ्खं न्यसेदूर्ध्वे ह्यधस्ताल्लकुटं न्यसेत् ॥२९३॥
एवं चक्रादिसंप्रोक्तमपरं चाधुना श्रृणु ।
दक्षिणे परशुं न्यस्य ह्यध: पाशाङ्कुशं न्यसेत् ॥२९४॥
अक्षमालां न्यसेद्वामे पाशं चाधरदोषणि ।
विन्यसेन्मुनिशार्दूल हस्तिवक्त्राग्रके फलम् ॥२९५॥
द्विप्रकारं मया प्रोक्तं विघ्नेशायुधकं भवेत् ।
विन्यसेन्मुनिशार्दूल साधकेच्छानुरूपत: ॥२९६॥
स्वतन्त्रे परतन्त्रे च रूपमेवं तु चिन्तयेत् ।
आखुस्तद्वाहनं प्रोक्तं गरुडं वाग्रत: स्मरेत् ॥२९७॥
नारायणांशकत्वाच्च प्रोक्तस्तत्र खगेश्वर: ।
गणानां तु त्र्यृचा तत्र विघ्नेशं योऽर्चयेद् द्विज: ॥२९८॥
सर्वान् कामानवाप्नोति राज्ञस्तु विजयो भवेत् ।
अत्र कश्चि?द्विशेषोऽस्ति श्रृणु त्वं मुनिपुङ्गव ॥२९९॥
विमानलक्षणं चैव प्रतिमाद्रव्यमेव च ।
प्रतिमालक्षणं चैव परिवारस्य लक्षणम् ॥३००॥
पूजनादीनि सर्वाणि मू?र्तीनां मुनिपुङ्गव ।
साधारणक्रमं ज्ञात्वा आदिमूर्तिवदाचरेत् ॥३०१॥
परमात्मादिमूर्तीनां विघ्नेशान्?तं महामुने ।
स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया ॥३०२॥
वामनं विघ्नराजं च स्वतन्त्रं चेन्मुनीश्वर ।श्?
एकबेरं तु संस्थाप्य पूजयेत्तु दिने दिने ॥३०३॥
षङ्बेरं वा त्रिबेरं वा संस्थाप्य विधिना मुने ।
नेष्यन्तेऽत्र श्रियादीनि शक्तिस्थापनकं परम् ॥३०४॥
विशेषश्चात्र संप्रोक्त: शेषं साधारणं भवेत् ।
लक्ष्मीं पुष्टिं च वाग्देवीं मेधां दुर्गां च तत्र वै(?) ॥३०५॥
स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया ।
विशेषश्चात्र संप्रोक्त: पूजाभेदमत: श्रृणु ॥३०६॥
मूर्तीनां तु प्रवक्ष्यामि प्रासादादीनि पूर्ववत् ।
परमात्मादिमू?र्तीनां पूजाभेदविशेषकम् ॥३०७॥
शयने सति मूलार्चा कर्मार्चा चासनं भवेत् ।
स्थानकं वापि कुर्वीत तद्बेरं तु चतुर्भुजम् ॥३०८॥
बलिबेरं तथा कुर्यादुत्सवे(वं?) स्नपने(नं?) तथा ।
स्थानकस्यैवमेव स्यात् यानकं वापि कारयेत् ॥३०९॥
आसीने तु महाबेरे सर्वमासीनमेव वा ।
स्थानकं वापि कुर्वीत सर्वमेवं चतुर्भुजम् ॥३१०॥
मत्स्यादिदशमूर्तीनां पूजाबिम्बं चतुर्भुजम् ।
मूलबेरे तु यत्(यथा?) प्रोक्तं तथैव मुनिसत्तम ॥३११॥
अवतारेऽथ वा कुर्यादर्चनाबेरमत्र वै ।
अत्र कश्चिद्विशेषोऽस्ति मत्स्यादीनां तु नारद ॥३१२॥
प्रवक्ष्यामि मुनिश्रेष्ठ श्रृणु मत्स्यादिकान् क्रमात् ।
बहिरावरणे कुर्यात् अवतारालयं बुध: ॥३१३॥
मण्डपे गोपुरे वापि प्राकारे वा स्वतन्त्रके ।
सर्वकामप्रदं पुण्यमायुरारोग्यवर्धनम् ॥३१४॥
जयलक्ष्मीविवृद्ध्यर्थं स्वतन्त्रपरतन्त्रयो: ।
अवतारार्चनफलं लोकेषु परिपठ्यते ॥३१५॥
पर्वते वा वने वापि ग्रामे वा नगरेऽपि वा ।
कारयेल्लक्षणोपेतान् यथावत्तत्क्रमान्मुने ॥३१६॥
स्वतन्त्रेणैव वा चास्मिन् परतन्त्रेण वा मुने ।
कारयेत् प्रतिमां तत्र पूर्वोक्तद्रव्यसंयुतम् ॥३१७॥
संस्थाप्य विधिवत्तेषां(त्ताश्च?) पूजयेत्तु दिने दिने ।
स्वतन्त्रार्चाविधाने तु मूर्तिभेदविधिं श्रृणु ॥३१८॥
बलिबिम्बोत्सवादींश्च वासुदेवादिकान् नयेत् (न्यसेत्?) ।
मूलमूर्त्यनुसारं तु न कुर्याद्वावतारके ॥३१९॥
यजमानेच्छया चास्मिन् यथाकामं समाचरेत् ।
परिवाराणि सर्वाणि पूर्ववत् क्रमयोगत: ॥३२०॥
कल्पयेदवताराणं स्वतन्त्रार्चाविधानके ।
द्वाराद्यावरणान् सर्वान् कुर्याच्चैव स्वतन्त्रके ॥३२१॥
युक्त्या युक्तिविशेषेण क्रियते(कुर्याद्वै?) चात्र बुद्धिमान् ।
एवमुक्तप्रकारेण प्रतिमां कुरुते यदि ॥३२२॥
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
[वर्णायुधविन्यासविधिर्नाम] एकादशोऽध्याय:

N/A

References : N/A
Last Updated : January 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP