संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
अष्टाविंशोऽध्याय:

विश्वक्सेनासंहिता - अष्टाविंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अमावास्योत्सवं वक्ष्ये मासि मासि मुनीश्वर ।
देवजन्मर्क्षके वापि प्रतिष्ठार्क्षमथा (-ऋक्षके?)पिवा ॥१॥
यजमानस्य जन्मर्क्षे राजजन्मर्क्षकेऽपि वा ।
अयने विषुकाले वा निश्चयित्वाङ्कुरान् पुरा ॥२॥
नवाहे सप्तपञ्चाहे त्र्यहैकाहमथापि वा ।
अङ्कुरार्पणमेतेषु सर्वसम्पत्सुखावहम् ॥३॥
कारयेद्विधिवत् सम्यक् सायाह्ने मुनिसत्तम ।
अनङ्कुरार्पणं कार्यमनर्थमशुभावहम् ॥४॥
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् ।
अङ्कुरार्पणकार्येऽस्मिन् वेलादीनि न वीक्षयेत् ॥५॥
पालिकाघटिका चैव शरावश्च त्रिधा मुने ।
उक्तमस्मिन् महातन्त्रे चोत्सवे षोडशान् क्रमात् ॥६॥
प्रत्यकं पालिकादीनि लक्षणै: सह नारद ।
कश्चिदस्मिन् विशेषोऽस्ति तं विशेषं शृणु क्रमात् ॥७॥
प्रत्येकं द्वादशं वापि केवला: पालिकास्तथा ।
पालिकाषोडशं वापि द्वादशं नवकं तु वा(?) ॥८॥
दूर्वाभि: सशिरीषाभि: पालिकादीन् सुवेष्टयेत् ।
तिलादिदशबीजानि मुद्गमेकमथापि वा ॥९॥
पयोभि: क्षालयेत् पञ्चमन्त्रैर्वारिभिरेव वा ।
एवं बीजानि संक्षाल्य कारयेदङ्कुरार्पणम् ॥१०॥
अङ्कुरार्पणकार्येऽस्मिन् सूत्रपातं न कारयेत् ।
विशेषमत्र वक्ष्यामि पद्मसूत्रविधिं श्रृणु ॥११॥
त्रिहस्तपरिमाणं तु चैव स्नपने मुनिसत्तम ।
अमावास्यादिकार्येऽस्मिन् षोडशं द्वादशं तु(?) वा ॥१३॥
कर्णिकादिदलान् लिख्य प्रत्येकं तत्र विन्यसेत् ।
प्रतिष्ठोत्सवयोश्चैव पवित्रारोहणे मुने ॥१४॥
तथा दीक्षाविधाने तु प्रत्येकं षोडश क्रमात् ।
द्वादशं वाथ नि:शेषं पालिकादींश्च कारयेत् ॥१५॥
शेषकर्माणि सर्वाणि लिखेदब्जमनुत्तमम् ।
पद्मस्य दलसंख्यास्तु शृणु चास्मिन् महामुने ॥१६॥
पालिका षोडशं चेत्तु दलं पञ्चदशं लिखेत् ।
द्वादशं पालिका चेत्तु तादृशं पद्ममालिख्?ोत् ॥१७॥
कर्णिकदिदलेष्वेषु कारयेत् प्रथमाक्षरम् ।
अथवा मुनिशार्दूल अष्टपत्राब्जमालिखेत् ॥१८॥
पूर्ववद्विलिखेद्बीजं पूर्वादिष्वक्षरान् वसून् ।
प्रोक्षयेत्तेन मन्त्रेण शाखामूलेन वा मुने ॥१९॥
इन्द्रादीशावसानेषु पालिकान् नवकान् न्यसेत् ।
तेन मन्त्रेण मतिमानन् प्रोक्षयेद्गन्धवारिणा॥ २०॥
पुण्याहं वाचयेत्तस्मिन् ब्राह्मणैस्तन्त्रपारगै: ।
तिलादिबीजानभ्यर्च्य तण्डुलोपरि नारद ॥२१॥
जितन्त इति मन्त्रेण सर्वबीजानि वापयेत् ।
गन्धपुष्पादिनाभ्यर्च्य सुगुप्ते स्थापयेत् क्रमात् ॥२२॥
विशेषश्चात्र संप्रोक्त: शेषं साधारणं भवेत् ।
सायाह्ने वाथ पूर्वाह्णे बलिमस्मिन् समाचरेत् ॥२३॥
हविषा चाक्षतैर्वापि पुष्पैर्वाथ बलिं क्षिपेत् ।
अमावास्योत्सवाद्येषु संप्रोक्तं चाङ्कुरार्पणम् ॥२४॥
उत्सवप्रतिमां वापि स्नपनार्चामथापि वा ।
बलिबिम्बं तु वा चक्रबिम्बमेकमथापि वा ॥२५॥
तद्गृहीत्वा तु मन्त्रज्ञ: शुद्धस्नानं तु कारयेत् ।
पूर्वरात्रौ तु कर्तव्य: सूत्रबन्धो यथाविधि ॥२६॥
वासाधिवासवत् कृत्वा मण्डपालंकृतिर्मुने ।
चतुरङ्गुलमुत्सेधं चतुर्हस्तप्रमाणत: ॥२७॥
शालिभिर्वेदिकां सम्यक् कृत्वा मण्डपमध्यमे ।
तदर्धं तण्डुलैर्वेदिं तन्मध्ये तु समाचरेत् ॥२८॥
धान्याभावे यथावेदिर्यथालाभं प्रशस्यते ।
यजमानेच्छया वेदिं कुर्यात्तन्त्रविचक्षण: ॥२९॥
पूर्ववत् पद्ममालिख्य तन्मध्येऽष्टाक्षरं न्यसेत् ।
अष्टाक्षरस्य मध्ये तु चतुष्पादासनं न्यसेत् ॥३०॥
प्रोक्षयेन्मूलमन्त्रेण धर्मज्ञानादिकान् न्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य तन्मध्ये हरिमानयेत् ॥३१॥
पाद्यादिदीपपर्यन्तमर्चयेत् पुरुषोत्तमम् ।
कौतुकं बन्धयेत् पश्चात् पुण्डरीकाक्षविद्यया ॥३२॥
आढकत्रयसंपूर्णं शालितण्डुलमुत्तमम् ।
सौवर्णादिषु पात्रेषु ह्येकं गृह्य विचक्षण: ॥३३॥
पूरयेत्तण्डुलं शुद्धं कुन्देन्दुधवलप्रभम् ।
तण्डुलोर्ध्वेऽब्जमालिख्य चाष्टपत्रं सकर्णिकम् ॥३४॥
सौवर्णं राजतं वापि क्षौमसूत्रमथापि वा ।
कार्पाससूत्रकं वापि त्रिगुणीकृत्य नारद ॥३५॥
त्रिगुणं त्रिगुणीकृत्य कर्णिकायां न्यसेत् क्रमात् ।
प्राच्यादि ?पश्चिमान्तेन विन्यसेत् सूत्रमुत्तमम् ॥३६॥
गन्धादिदीपपर्यन्तमर्चयेत् कौतुकं क्रमात् ।
बन्धयेत् कौतुकं पश्चात् दक्षिणे भगवत्करे ॥३७॥
अङ्गुष्ठानामिकाभ्यां तु आचार्यो मन्त्रमुच्चरन् ।
धूपात् भस्मं(?)समादाय रक्षां कृत्वा समन्त्रत: ॥३८॥
ललाटे चाष्टदिग्बन्धं देवस्य परित: क्रमात् ।
हविर्निवेदयेत् पश्चात् साधक: परमेष्ठिना ॥३९॥
अपूपादीनि सर्वाणि उपहाराणि दापयेत् ।
पानीयं च ततो दद्यात् मुखवासं निवेदयेत् ॥४०॥
छत्रं चामरमादर्शं देवेशाय निवेदयेत् ।
दिग्बन्धं कारयेत्तस्मिन् चक्रमन्त्रेण साधक: ॥४१॥
निवेदितं तु तत्सर्वमाचार्याय निवेदयेत् ।
तस्मिनन्निवेदितं सर्वं पुरोडाशसमं मुने ॥४२॥
तस्मात् सर्वप्रयत्नेन संग्रहेद्देवसंनिधौ ।
ग्रामायतनवृद्ध्यर्थं पूर्वादि परितोऽर्चयेत् ॥४३॥
कुमुदाद्या: प्रगृह्णन्तु सर्वे बलिमनुत्तमम् ।
घण्टाशब्दसमोपेतं धूपदीपसमन्वितम् ॥४४॥
स्वस्तिवाचनसंयुक्तं नृततगीतसमन्वितम् ।
कारयेद्बलिदानं तु पुष्पाक्षतकुशोदकै: ॥४५॥
यदिदं देवदेवस्य तोषणार्थमिहोच्यते ।
रात्रिं(रात्रौ?)विसर्जयेत् पश्चात् पूर्वोक्तैर्द्रव्यविस्तरै: ॥४६॥
देवेशं चार्चयेत् सम्यक् सूक्तेन पुरुषेण च ।
वस्त्राभरणपुष्पाद्यैरलंकृत्य प्रयत्नत: ॥४७॥
हविर्निवेदयेत् पश्चात् ताम्बूलं च तथैव च ।
आचार्य: समलंकृत्य होमकर्म समारभेत् ॥४८॥
नित्याग्नौ चोत्सवाग्नौ वा करयेद्विधिचोदितम् ।
समिदाज्यचरून् लाजान् पञ्चविंशतिसंख्यया ॥४९॥
कारयेत् स्वस्वजिह्वायां समिदादि यथाक्रमम् ।
समिधो मूलमन्त्रेण छन्दोमूलेन वै घृतम् ॥५०॥
ततस्तु विष्णुगायत्र्या यरुं हुत्वाक्षमात्रत: ।
लाजान् वेदादिमन्त्रेण जुहुयात्तन्त्रवित्तम: ॥५१॥
बलिद्रव्यं च जुहुयात् चतुर्थ्यन्तादिना मुने ।
प्रायश्चित्ताहुतिं हूयात् पञ्चोपनिषदै: क्रमात् ॥५२॥
पूर्णाहुतिं ततो हुत्वा द्वादशाक्षरविद्यया ।
नित्ये महोत्सवे चैव अमावास्योत्सवादिषु ॥५३॥
ब्रह्मप्रणीतमिध्मौ च नेष्यते मुनिसत्तम ।
एतत्ते कथितो होम अमावास्योत्सवादिषु ॥५४॥
होमान्ते बलिदानं तु कारयेत्तन्त्रवित्तम: ।
पूर्ववद्बलिदानं तु प्रासादे तु यथाक्रमम् ॥५५॥
कारयेन्मुनिशार्दूल सर्वदेवप्रियार्थकम् ।
ग्रामे वा नगरे वापि पत्तने वालयेऽपि वा ॥५६॥
एवमादिषु देशेषु कारयेद्बलिमुत्तमम् ।
मार्गशुद्धिं पुरा कृत्वा पूर्वाह्णे बलिमाचरेत् ॥५७॥
मध्याह्ने यत्कृतं ब्रह्मन् बलिकर्माधमं भवेत् ।
पूर्वाह्णे ग्रामवृद्धि: स्यात् सर्वसंपत्सुखावहम् ॥५८॥
मध्याह्ने त्वघनाशं तन्नगरादिषु वृद्धिकृत् ।
तस्मात् सर्वप्रयत्नेन पूर्वाह्णे ?बलिमाचरेत् ॥५९॥
पूर्ववद्देवदेवेशमलंकृत्य प्रयत्नत: ।
वासिताद्यैश्च मात्राभिस्तोषितं सुमनोरमम् ॥६०॥
तद्बिम्बं शिबिकाद्येषु समारोप्य समाहित: ।
रथं तु शिबिकां वापि गजं वाश्ववरं तु वा ॥६१॥
प्रोक्षयेद्गारुडेनैव भूषयेद्गरुडं स्मरन् ।
छत्रध्वजवितानादीन् नृत्तगेयसमन्वितम् ॥६२॥
शङ्खभेर्यादिनिर्घोषं महाजनसमन्वितम् ।
ग्रामादिवीथिकायां तु मध्ये ग्रामं परिभ्रमेत् ॥६३॥
ग्रामादिवास्तुदेशेषु कुमुदादीन् समर्चयेत् ।
देवागारेषु सर्वेषु महाशास्तालयेषु च ॥६४॥
कूपे चैव (कूपेषु च?) तटाकेषु सङ्गमेषु च वीथित: ।
तत्तद्देशे मुनिश्रेष्ठ सर्वभूतगणान् न्यसेत् ॥६५॥
देवस्य संनिधौ तस्मिन् बलिदानं समाचरेत् ।
पायसान्नं गुलोपेतं तुलसीपत्रसंयुतम् ॥६६॥
करवीरसमायुक्तं श्वेतरक्ताक्षतैर्युतम् ।
तिलोदकसमोपेतं बलिद्रव्यैश्च संयुतम् ॥६७॥
कृमिकीटपतङ्गाद्यै: स्पर्शितेऽस्मिन् प्रमादत: ।
बलिद्रव्ये मुनिश्रेष्ठ सन्त्याज्यं देवतार्चने ॥६८॥
अक्षतैर्वाथ पुष्पैर्वा यथासंभवमर्चयेत् ।
कारयेद्वास्तुदेशेषु तत्तन्मन्त्रमनुस्मरन् ॥६९॥
उत्तर्यीष्णीषसंयुक्त: आचार्यो बलिमाचरेत् ।
बल्यन्ते परमात्मानमर्घ्यपाद्यादिनार्चयेत् ॥७०॥
सर्वमङ्गलकार्येऽस्मिन् मङ्गलालापनं कुरु ।
तृतीयसवने गत्वा देवागारे मुनीश्वर ॥७१॥
पाद्यादिसप्तकं दत्वा तत: स्नपनमारभेत् ।
मण्डपं समलंकृत्य शालिना वेदिमाचरेत् ॥७२॥
तत्र मध्ये तु मतिमान् कलशान् विनिवेशयेत् ।
शाल्मलीकिंशुकापुष्पसंकाशान् सूत्रवेष्टितान् ॥७३॥
वेदिकोपरि संस्थाप्य चतुर्वेदादिमन्त्रत: ।
तेषां मध्ये मुनिश्रेष्ठ द्रव्याणि विनिवेशयेत् ॥७४॥
पाद्यं तु मध्यमे भागे पूर्वभागेऽर्घ्यमेव च ।
याम्ये त्वाचमनीयं स्याद्गन्धं वारुणगोचरे ॥७५॥
पुष्पतोयं न्यसेत् सोमे कृशानौ तण्डुलोदकम् ।
नैरृते दधि विन्यस्य वायव्ये क्षीरमेव च ॥७६॥
ऐशान्ये विन्यसेदाज्यं गन्धयुक्तं शुभं मुने ।
एवं तु नवकं स्थाप्य कूर्चांस्तेषु विनिक्षिपेत् ॥७७॥
चक्रिकां स्थापयेत्तेषु गन्धपुष्पं विनिक्षिपेत् ।
ततस्तु रजनीचूर्णं पूर्वे वा चोत्तरेऽथ वा ॥७८॥
स्थापयित्वार्चयेत्तस्मिन् गन्धपुष्पाक्षतै: क्रमात् ।
कलशान् नववस्त्रैस्तु वेष्टयेत् प्रणवेन तु ॥७९॥
पुण्याहं वाचयेत् सम्यग्याथातथ्येन नारद ।
गन्धपुषपादिनाभ्यर्च्य तोरणेऽष्टघटान् न्यसेत् ॥८०॥
पूर्वादि चोत्तरान्तेषु द्वौ द्वौ तु कलशौ न्यसेत् ।
गन्धतोयेन संपूर्य गन्धपुष्पादिनार्चयेत् ॥८१॥
स्वनाम्ना चैव सर्वेषां मन्त्रं तु मुनिपुङ्गव ।
षडक्षरमनुस्मृत्य साधक: परमार्थवित् ॥८२॥
पाद्याद्यै: कलशै: सर्वै: देवेशमभिषेचयेत् ।
स्नपनान्ते तु मन्त्रज्ञो रजनीमभिषेचयेत् ॥८३॥
शुद्धस्नानं तत: कृत्वा अलंकृत्य जनार्दनम् ।
स्नानोदकं तो गृह्य वैष्णवान् प्रोक्षयेद्बुध: ॥८४॥
तं गृहीत्वा तु भक्तानां सर्वेषां मूर्ध्नि निक्षिपेत् ।
गङ्गास्नानफलं पुण्यं सर्वपापप्रणाशनम् ॥८५॥
सर्वसंपत्समृद्धि: स्यादिति शास्त्रस्य निश्चय: ।
पूर्ववद्यानमध्ये तु देवमारोप्य मन्त्रवित् ॥८६॥
पुराणोक्ततटाके वा नदीतीरेऽथवा मुने ।
देवदेवं समानीय मूलमन्त्रेण साधक: ॥८७॥
स्नापयेत्तेयमध्ये तु पूर्ववन्मुनिपुङ्गव ।
महाजनान् समाहूय दद्यात्तीर्थमनुत्तमम् ॥८८॥
स्वस्तिवाचनसंयुक्तं शङ्खदुन्दुभिसंयुतम् ।
देवालयं क्रमाद्गत्वा द्वारमाश्रित्य नारद ॥८९॥
अर्घ्यपाद्यादिनाभ्यर्च्य रक्षां कुर्वीत मन्त्रवित् ।
अन्नेन वाथ पुष्पैर्वा अष्टदिग्बलिमाचरेत् ॥९०॥
सुदर्शनेन मन्त्रेण पूर्वादिषु यथाक्रमम् ।
देवागारं समाश्रित्य स्वस्तिवाचनपूर्वकम् ॥९१॥
पूर्ववद्देवमभ्यर्च्य महान्नं च निवेदयेत् ।
आचार्यं पूजयेत् पश्चात् यथाशक्त्यत्र नारद ॥९२॥
अपूपादीनि चान्यानि उपहाराणि दापयेत् ।
ताम्बूलं दापयेत् पश्चात् विधिवत् परमेष्ठिना ॥९३॥
शेषकर्माणि सर्वाणि राजवत् प्रतिकारयेत् ।
य: कारयेत्तु मतिमान् इहलाके श्रियं लभेत् ॥९४॥
स याति विष्णुसालोक्यं विष्णुसारूप्यमेव च ।
अथ वा मुनिशार्दूल तीर्थस्नानविधिं श्रृणु ॥९५॥
नदीपुलिनतीरे तु मण्डपं कारयेत् क्रमात् ।
अथ वा सुप्रपां कृत्वा चतुर्द्वारसमन्विताम् ॥९६॥
वासाधिवासने प्रोक्तं प्रपालक्षणमुत्तमम् ।
एवं लक्षणसंयुक्तां प्रपां कृत्वा मुनीश्वर ॥९७॥
ऐन्द्रादीशानपर्यन्तं गोमयेनानुलेपयेत् ।
पूर्वोक्तशालीनास्तीर्य वितानाद्यैरलंकृतम् ॥९८॥
पुष्पमालादिसंयुक्तं तन्मध्ये कलशान् न्यसेत् ।
पूर्ववन्नवकं स्थाप्य पूर्ववत् स्नानमाचरेत् ॥९९॥
तीर्थस्नानं ततो ब्रह्मन् महाजनसमन्वितम् ।
नद्यां ह्रदे तटाके वा देवेशं स्नानमाचरेत् ॥१००॥
तीरे देवं समानीय शुद्धस्नानं समाचरेत् ।
अर्घ्यादिनार्चयेद्देवमलंकृत्य प्रयत्नत: ॥१०१॥
शेषकर्माणि सर्वाणि अस्मिन् पूर्ववदाचरेत् ।
द्विप्रकारं मया प्रोक्तं तीर्थस्नानं मुनीश्वर ॥१०२॥
साधकेच्छानुरूपेण यथायोगं समाचरेत् ।
तीर्थस्नानविधि: प्रोक्त: पूर्वपूर्वा गरीयसी ॥१०३॥
एवं संक्षेपत: प्रोक्तममावास्योत्सवं परम् ।
अन्यथा निष्फलं याति रोगवृद्धिर्धनक्षय: ॥१०४॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिपूर्वकम् ।
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां
अमावास्योत्सवविधिर्नामाष्टाविंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP